________________ श्लो० 360-417 ] वैराग्यरतिः। 157 नात्यन्तं पीडितः कर्मपरिणामाज्ञया तु तैः / अपेक्षाऽकारि चारित्रधर्मसैन्ये च काचन // 389 // बहिर्भूतोऽप्यसौ राज्यं पालयत्यन्तराऽन्तरा / तेन चारित्रधर्माद्या मनागाप्यायिताश्च ते // 390 // प्रवर्त्तते यथाकालं त्रिवर्गेऽपि विभज्य सः / भवत्यधमवत् तेन नैकान्तासुखभाजनम् / / 391 // स्थिताः स्वस्वसदाचारे ये हि सामान्यधर्मिणः / राजानो ब्राह्मणाद्याश्च तेषां रूपं भजत्यसौ // 392 / / कर्मणाऽसौ गतस्तेनोचितेन भुवने ततः / तस्योपरि ततस्तुष्टः स कर्मपरिणामराट् // 393 // कदाचित् पशुसंस्थाने सुखहेतौ नयत्यसौ / कदाचिद् मानवावासे कदाचिद् विबुधालये // 394 / / तुर्ये वर्षे च राजाऽभूद् मध्यमो घोषणे कृते / महामोहमहीन्द्राय सचिवोऽभिदधे गिरम् // 395 // धर्मा-र्थ-काम-मोक्षेषु राजाऽयं सततोद्यतः / तथापि मन्यते मोक्षं पारमार्थिकमर्थवित् // 396 // सक्तस्तद्धेतुधर्मे च न प्रसक्तोऽर्थ-कामयोः / चिन्तयन्नपि तदोषान् तवृत्तिः कर्मणेरितः // 397 // जिहासुरपि नो भावबन्धनं विजहात्यसौ / धन-पुत्र-कलत्रादिभवपाशेन यन्त्रितः // 398 // अस्माभि पराभ्योऽसौ तेन सिंहो मृगैरिव / सेव्य एव परं स्वामिन्नित्युक्त्वा विरराम सः // 399 // शुद्धं परिचिनोति स्म सिद्धान्तमथ मध्यमः / अपीडयत् ततश्चौरान मनाक् चित्ताटवीगतान् // 400 / सेवका इव तस्यासन् महामोहादयस्ततः / देशोदेशेन राज्यं स्वं मध्यमेनाथ लक्षितम् // 401 // सैन्ये चारित्रधर्मस्य बन्धुभावमबुध्यत / सिद्धान्तस्यायमादेशान्मोहादीनां च चौरताम् // 402 // वीर्योल्लासे स्वराज्यस्य मध्यमः क्रमतस्ततः / मध्यभागे स्थितो भूमिमाक्रम्य कियतीमपि // 403 // तेन चारित्रधमाद्या मनागाह्लादिता नृपाः / महामोहादयश्चौराः कृताः कम्पितमानसाः // 404 // योगिन्यपि न तस्याभूत् दृष्टिरत्यन्तबाधिका / आत्मीयं यापयन् राज्यं लोकेऽसौ श्लाध्यतां गतः // 405 // स देशविरतो जातो रतो जैनेन्द्रशासने / श्राद्धानुष्ठानमेतेनानुष्ठितं शुद्धलेश्यया / / 406 // ततस्तुष्टिभृता कर्मपरिणामेन भूभुजा / असंख्यसुखसम्पूर्णे नीतोऽसौ विबुधालये // 407 // चतुर्णा भूभुजां प्रेक्ष्य तेषां चरितमीदृशम् / अहं सकौतुको जातः पञ्चमः किं करिष्यति ? // 408 // तावदत्रोत्तमो राजा महाराज्ये विजृम्भते / इति प्रामादिषु महान् प्रसृतो डिण्डिमध्वनिः // 409 // व्याकुला घोषणां श्रुत्वा जातास्तामान्तरा नृपाः / जगो चारित्रधर्म च सद्बोधः स्वस्थताकृते // 410 // अयमस्माकमत्यन्तहितकारी नराधिपः / न भेतव्यमितः स्वामिन्नयं वेत्ति निजां स्थितिम् / / 411 // अस्मात् लक्षयत्येष बन्धुभूतानसंशयम् / महामोहादिकान् क्रूरानपि स्वपरिपन्थिनः // 412 // वर्धकोऽस्मदलस्यायं महामोहादिनाशकः / अस्मदीयमिदं राज्यं तदस्य परमार्थतः // 413 // प्रीताश्चारित्रधर्माद्याः श्रुत्वा तां मन्त्रिणो गिरम् / कृतं वर्धनकं लोकाः प्रवृत्ता गातुमादृताः // 414 // अहो ! उत्तमराज्येऽस्मिन् परमोषिगतिक्षतिः / क्रमाद् भविष्यतीदं च सतामानन्दकारणम् / / 415|| स्थितिमुत्तमराज्यस्य तामाकर्ण्य महोदयाम् / महामोहादयस्त्रस्ता निलीनाः कौशिका इव // 416 // अथ राज्यं समासाद्य पितुरुत्तमभूपतिः / तदा पप्रच्छ सिद्धान्तं सर्वां राज्यस्थिति निजाम् // 417 // 1. °स्ता मुक्तप्राणा इव स्थिताः // 416 // अथ //