________________ 152 महोपाध्यायश्रीयशोविजयगणिविरचिता [षष्ठः सर्गः मुच्यतामेष मित्रं मे कृपालुमयि यद्यसि / आकृष्याब्धेरहं क्षेप्यो न मित्रविरहावटे // 242 // अभूद् घृतं तत्कोपाग्नौ स्नेहमुग्धं वचो हरेः / मयि गाढतरं रुष्टस्ततो देवोऽब्रवीदिदम् / / 243 // मुग्धोऽसि त्वं न जानासि पापस्यास्य विचेष्टितम् / तद् गच्छाभिमतं स्थानं यच्छाम्यस्य फलं पुनः // 244 // इत्युक्त्वाऽहं तथा तेन क्षिप्तोऽगाधमहोदधौ / यथा गतोऽवनितलं पाषाण इव निष्ठुरः // 245 // आगतः पुनरूवं मां मृतं मत्वा ययौ सुरः / पोतद्वयं क्रमात् प्राप्तं वेलाकूले हरेः पुनः // 246 // इतश्चानन्दनगरे श्रुतः केसरिभूपतिः / मृतो हरिकुमारेण तत्रागात् स ततो द्रुतम् / / 247 // जग्राह पैतृकं राज्यं बान्धवानां निवेदितम्(ते) / वसुमत्या समस्तेऽपि वृत्तान्ते क्लेशवर्जितम् // 248 // अनुरक्ताश्च सर्वेऽपि लोका भूरिगुणे हरौ / तेनैकं रत्नबोहित्थमर्पितं जनकस्य मे // 249 // इतश्च पातालतलादुन्मग्नो जलवीचिभिः / प्रेर्यमाणो बध्यमानः सन्ततैस्तन्तुजन्तुभिः // 250 // मत्स्यपुच्छच्छटास्फोटैटुलत्कमठकण्टकैः / उद्वृतैर्नकचकैश्च बिभ्यच्छङ्खकुलैश्चलैः // 251 // गहनैर्विद्रुमवनैर्मुह्यमानः कथञ्चन / प्राप्तोऽहं जलधेस्तीरं सप्तरात्रेण पातकी // 252 // सम्प्राप्तो मरुता श्वासं क्षुत्पिपासाऽभिबाधितः / भ्रान्तः फलजलार्थी सन् प्राप्तो मरुसमं वनम् // 253 // लब्धा तत्रापि कृच्छ्रेण प्राणवृत्तिः कथञ्चन / करणीय यतोऽद्यापि वर्तते बहु पातकम् // 254 // अथाकीर्णं ग्रामपुरैर्वसन्तं देशमागतः / रिक्तत्वाल्लज्जमानोऽहमुपतातं गतस्तु न // 255 / / नाशात् पुण्योदयस्याथ मित्रद्वयजुषो मम / वाणिज्याचरणेऽई स्यात् कर्षणे वृष्टिरेव न // 256 // सेवां कुर्वंस्ततो राज्ञो रणे योद्धमुपागतः / तत्रापि निशितास्त्रौघप्रहारैरेव पीडितः // 257 // मयाऽन्यदा बलीवर्दा गृहीता वाहनेच्छया / मृतास्तिलकरोगेण ते सर्वे मदभाग्यतः // 258 // खरसार्थेन वाणिज्ये मयकाऽथ चिकीर्षिते / स सार्थो मुषितश्चौरै जातोऽहं कर्मकृत् ततः // 259 // वृत्तिस्तथापि नो लब्धा भूत्वाऽन्यस्याथ सेवकः / गतोऽब्धौ पोतमारुह्य भग्नः सोऽपि मदंहसा // 26 // उत्तीर्य फलकेनाऽब्धि द्वीपं प्राप्याथै कञ्चन / प्रवृत्तः खनितुं बाढं धूलिः प्राप्ता परं करे // 261 / / अथाऽन्यत्र नगे गत्वा धातुवादः कृतो मया / मृद्भिर्मूलैश्च पाषाणैः स्थितः क्षारः परं करे / / 262 // कृता ततो द्यूतलीला तत्र द्यूतकरैर्जितः / ततो लातुं विभावर्यां प्रविष्टो रसकूपिकाम् // 263 // सिंहेन त्रासितस्तत्र कथञ्चिन्न मृतः पुनः / विना पुण्यमभूद् व्यर्थमित्थं कर्माखिलं मम // 264 // लब्धा भिक्षाऽपि न कापि बुभुक्षाक्षामकुक्षिणा / पादप्रसारिकां कृत्वा मौनं धृत्वा ततः स्थितः // 265 / / सागरः प्रेरयामास ततो मां मन्दमादतः / अविषादः श्रियो मूलं पुनः कुरु धनार्जनम् // 266 // इत्याहितकुधीस्तेन पातकेषु प्रवर्त्तितः / कृतानि तानि पापानि यानि यान्यादिदेश सः // 267 // धनगन्धोऽपि न प्राप्तः परं पुण्योदयं विना / न गतः श्वशुरस्यापि गृहे मिथ्याभिमानतः // 268 // तदापि प्रेरयन्नेव मैथुनो यौवनान्वितः / मां तिष्ठतीष्टालाभेन चित्ते दन्दह्यते परम् // 269 / / इतश्चानन्दनगरे हरिणा सूरिरुत्तमः / दृष्टो मनोरमोद्याने निषण्णस्तं प्रणम्य सः // 27 // 1. लम्भितो // 2. थ रोधनम् / प्र॥ 3. मां तिष्ठति तदिष्टं तु नाप्यते सुकृतं विना // 269 / / इत //