________________ लो० 252-299 ] वैराग्यरतिः। ततो भगवता तेन देशना क्लेशनाशिनी / दत्ता नृपो जहर्षोच्चैस्तामाकर्ण्य श्रवःसुधाम् // 271 // अचिन्तयच्च हृदये भगवान् सर्वभाववित् / तदिदं परिपृच्छामि किमहो ! तत्र कारणम् ? // 272 / / जातोऽहं प्राक् प्रियस्तस्य स च मे धनशेखरः / किं पुनः क्षणमात्रेण क्षिप्तोऽहं तेन वारिधौ ? // 27 // कुपितः किं स देवोऽस्य कुतः क्षिप्तोऽम्बुधावसौ / किं जीवति मृतो वाऽसौ ? तावत् सूरिरवोचत // 27 // व्यैलीकं त्वयि यद्भूप ! चकार धनशेखरः / तत्रापराध्यतः पापमित्रे सागर-मैथुनौ // 275 // स हि चारुः स्वरूपेण ताभ्यां तु क्रियतेऽन्यथा / त्वद्वोहित्थस्य हरणे सागरेणास्य धीः कृता // 276 // मयूरमञ्जरीभोगे मैथुनेन कृता मतिः / तद्वशात् त्वं जले क्षिप्तस्तेनातः कुपितः सुरः // 277 // तेन त्वं रक्षितः क्षिप्तः सोऽब्धौ तदपि नो मृतः / अधुना पापमित्राभ्यां नानादेशेषु पीड्यते // 278 // इत्थं चतुर्ज्ञानभृता सूरिणाऽभिहिते नृपः / दध्यावहो मुनेर्ज्ञानं क्लिष्टोऽहो ! धनशेखरः // 279 // पुनः पप्रच्छ सुरीन्द्रं हरिमयि कृपापरः / कदा त्यक्ष्यति संसर्ग स तयोः पापमित्रयोः ? // 280 // सूरिराह नरेन्द्रास्ति शुभ्रचित्तमहापुरम् / राजा सदाशयस्तत्र देवी तस्य वरेण्यता // 281 // वियेते तनये तस्या उभे विततलोचने / एका ब्रह्मरतिनाम द्वितीया मुक्तताभिधा // 282 // यदा ते कम्यके भार्ये लप्स्यते धनशेखरः / आभ्यां पापवयस्याभ्यां तदा नूनं वियोक्ष्यते // 283 // तयोविलासमासाद्य गलद्वेद्यान्तरप्रथम् / ज्ञानानन्दघने स्थाने शिवे स्थास्यति निर्भयः // 284 // ततो हरिनरेन्द्रेण पुनः पृष्टः स सूरिराट् / लप्स्यते ते कथं कन्ये भगवन् ! धनशेखरः // 285|| सूरिराह महाराज ! प्रतीतो हि भवादृशाम् / स कर्मपरिणामाख्यो राजास्ति गुरुविक्रमः // 286 // प्रसन्नस्तव मित्राय स कन्ये दापयिष्यति / नात्र कश्चिदुपायोऽन्यस्तग्मुश्चाकुलचित्तताम् // 287 // तदाकर्ण्य वचः सूरेभूत्वा मयि निराकुलः / कृताञ्जलिः पुनः प्रोचे सूरिराजं हरिनृपः // 288 // भदन्त ! यत् त्वया प्रोक्तं पापमित्रप्रसङ्गतः / तेन घोरं कृतं कर्म प्रकृत्या तु स निर्मलः // 289|| संशये तत्र किं प्राणी स्वरूपेणापि निर्मलः / परदोषेण दुष्टः स्यात् सूरिरोमित्यवोचत // 290 // लोकानामन्तरङ्गाणां दोषाः साक्रमिका ध्रुवम् / एकं कथानकं राजन् ! शृणु तत्र समाहितः // 291 // प्रतीतमेतद् यत् कर्मपरिणामस्य भूभुजः / देव्याः कालपरिणतेश्चापत्यानि बहून्यपि // 292 // खलदृग्दोषतो भीतैरविवेकादिमन्त्रिभिः / विनिमृतानि विद्यन्ते भुवने स्थितिवेदिभिः // 293 // इतश्चास्ति महासत्त्वः सिद्धान्तः पुरुषोत्तमः / कर्माचत्यन्तभेदज्ञो हितदः सर्वदेहिनाम् // 294 // विनेयस्तस्य मृदुधीरप्रबुद्धाभिधोऽजनि / स पप्रच्छेह भगवन् ! किमिष्टं किं ततोऽन्यथा ? // 295 // सिद्धान्तः प्राह सर्वेषामभीष्टं देहिनां सुखम् / ज्ञेयं दुःखमनिष्टं च प्रवृत्ति-विनिवृत्तितः // 296 / / अप्रबुद्धोऽब्रवीद्धेतुः कस्तयोरथ तं जगौ / सिद्धान्तः सुखकृद् राज्यं दुःखकारि तदेव च // 297|| नोद्भाव्यश्च विरोधोऽत्र धर्मभेदव्यवस्थितेः / दुःखं दुष्पालितं दत्ते सुखं राज्यं सुपालितम् // 298 // अप्रबुद्धोऽवदद् राज्यं स्तोकानामेव दृश्यते / सिद्धान्तः प्राह सर्वेषामन्तरङ्गस्तदस्ति हि // 299 // 1. गावद् विचिन्तयामास भगवान् // 2. विरूपं //