________________ श्लो० 129-184 ] वैराग्यरतिः। 149 नास्वादयति ताम्बूलं कन्दुकेन न खेलति / मुहुर्धावत्यभिद्वारं सखीभ्यः परिरुष्यति // 158 // तन्मां भगवति ! ब्रूहि किमेषा चिन्तयत्यहो ! / कदा च लप्स्यतेऽभीष्टं निमित्तेऽसि स्फुरन्मतिः // 159 // दृष्ट्वा होरां ततः प्रोक्तं ध्वजादिन्यासतो मया / एषा जीवं चिन्तयति नरं नृपसुतं हरिम् // 160 // यत:" ध्वजो धूमस्तथा सिंहः श्वा बलीवर्द इत्यपि / खरो गजेन्द्रो ध्वाश्च अष्टाऽऽयाः परिकीर्तिताः" // 161 // काल-वासर-वेलानां मुहूर्त-ककुभोस्तथा / नक्षत्र-ग्रहयोश्चैव निसर्गबलमष्टमम् / / 162 // ध्वजः खरस्तथा ध्वाह्नः प्रस्तुते च प्रयोजने / समापन्नास्त्रयो ह्याया न्यस्ताद् गोमूत्रिकात्रयात् // 163 / / प्रथमाज्ज्ञायते चिन्ता द्वितीयात् तु शुभाशुभम् / तृतीयात् कालनिर्देशं कुर्यादायादिति श्रुतिः // 164 // तत्रशुनि ध्वजे वृषे चैव जीवचिन्ता प्रकीर्तिता / सिंह-वायसयोर्मूलं धातुधूमेभ-रासभे // 165 / / ध्वजस्य प्रथमं पातात् तज्जीवं चिन्तयत्यसौ / नरादिव्यक्तिबोधश्च स्फुटः कालबलादिभिः / / 166 // अवश्यं तस्य लाभश्च धूमोपरि खरागमात् / अथैव च तृतीयस्य पाताद् ध्वासस्य यत् स्मृतम् // 167 // स्थानं लाभं च कुरुते, रासभो ध्वज-धूमयोः / सिंहस्योपरि नाशं भोः ? शेषेषु तु स मध्यमः // 168 // ध्वज-कुञ्जरयोर्वर्ष मासो वृषभ-सिंहयोः / पक्षाः श्व-खरयोज्ञेया धूम-वायसयोर्दिनम् // 169 // ततः शिखरिणी तुष्टाऽऽसन्नजामातृलाभतः / जगौ च यत् त्वया प्रोक्तं तत्र मे नास्ति संशयः // 170 // एतत्सख्या मम प्रोक्तं प्रातदृष्टोऽनया हरिः / तत्रानुरागातिशयात् ततः प्रासा दशाभिमाम् // 171 // करोतु भगवत्येव तदस्यास्तत्समागमम् / बोर्बु भावं कुमारस्य चित्रितेयं ततो मया // 172 // तत्प्रदर्शनतो ज्ञात्वा कुमाराशयमागता / देवीं प्रोक्तवती मुष्टिमध्येऽसौ मम वर्त्तते // 173 // तया मयूरमञ्जर्याः प्रोक्तं प्रत्येति सा तु न / शिखरिण्या ततो राज्ञे प्रोक्तो व्यतिकरोऽखिलः // 174 // प्रहिताऽऽनयनायाऽहं हरेस्ताभ्यां ततो द्रुतम् / इत्युक्त्वा सा मया सार्धमागता हरिसन्निधौ” // 175 / / मया बन्धुलया चोक्तं हरये राजशासनम् / सर्वेऽपि राजसदने ततः प्रमुदिता गताः // 176 // मयूरमञ्जरी नीलकण्ठोऽथ हरये ददौ / ततः शुभेऽह्नि सजातो विवाहस्य महोत्सवः // 177 // पाणौ गृहीत्वा तां प्राप्तो हरिहर्ष रमामिव / ततो राजा च लोकश्च रागं तस्मिन् परं दधौ // 178 // इतश्च स हरिभूरिपुण्यवान् प्रेमनिर्भरः / यन्त्रितो मम पुण्येन मद्वियोगं न वाञ्छति // 179 / / प्राप्ता मया तत्प्रसादाद् विलासा देवदुर्लभाः / यशश्च चन्द्रविमलं सज्जनस्पृहणीयता // 180 // जनिताः कुविकल्पौघाः सागरेण तथापि मे / यन्ममाय हरेः सङ्गो हेतुरर्थार्जनक्षतेः // 181 // रस्नौघमिह लास्यामि निर्विनमिति चिन्तितम् / अत्रापि मित्ररूपो मे विनोऽयं समुपस्थितः // 182 // सर्वथा राजपुत्रोऽयं त्यक्तुं शकयश्च नाधुना / रुटो ह्यपहरेदेष सर्वस्वमपि मामकम् // 183 / / तद् रत्नोपार्जनं कुर्वे हरेरपि च रञ्जनम् / अत्यासङ्गस्तु मित्रेऽस्मिन् मम स्वार्थ विनाशयेत् // 184 // 1. 'त् / तृतीयस्थानपातेन पाताद् //