________________ प्रलो० 84-128 ] वैराग्यरतिः। चेतो हरिकुमारस्य प्रत्यावृत्तं तदीक्षणात् / पुनः श्रुत्वाऽथ तत् तेनावष्टम्भाद् दत्तमुत्तरम् // 112 // अहंकृतिम् / ततोऽतिविस्मितः पद्मकेसरोऽन्यत् पुनर्जगौ / कथं बध्नाति काः प्राज्ञः ? के गीतरसलम्पटाः ? // 113 // तदपि प्रत्युदतरद् विचिन्त्य हृदये हरिः / सारङ्गाः / विलासोभिदधे व्यक्तं ततोऽहन्मतवासितः / / 114 // पूजायां किं पदं स्यात् ? कुरु दहनवपुर्बोधनं ? निःस्तनः कः ?, शून्यं कीदृक् पुरं स्याद् ! वनमपि विपुलं कीदृशं नैति शोभाम् ? / का वेश्या ? का महत्री ? समिति भवति कः सत्त्वभाजां भटानां :, धावल्लावण्यपूरे वपुषि जिनपतेः का निमजन्ति नित्यम् // 115 // हरिजंगौ बृहद् व्यस्तसमस्तमिदमित्यदः / पुनः पठ पपाठाऽसौ विचार्योदतरद्धरिः // 116 // सुराङ्गनानेत्रसरोजराजयः / जहास विमलश्चारु कुमारोऽस्याहरन् मदम् / विलासोऽवक् पठत्वन्यः सर्वस्मयहरो ह्ययम् // 117 // मन्मथोऽभिदघे क्लुप्तं मया स्पष्टान्धकद्वयम् / तदर्थ कथयत्वार्यः सुविभाव्याविलम्बतः // 118 // राजन् ! रूपेण नारीणां हरसेवालताफलम् / कामाज्ञयाऽपि वामाक्ष्यो यान्ति नैतावती भुवम् // 119 // सदाख्यातिमनोज्ञश्रीलीलाढ्यगुणगौरवम् / अभिधत्ते च तेजस्ते रणसम्मर्दधीरताम् // 120 // हरिजंगाद हरसे बालतायाः फलं त्रपाम् / इत्येष प्रथमे भङ्गः सदाख्येति द्वितीयके ||121 // - बाला अपि रूपातिशयात्सुरतप्रार्थनापराः कृत्वा तासां त्रपामपनयसि / कामस्तु वयःक्रमादिना धाष्टर्यमापादयतीति कामादप्यधिकस्त्वं रामाणामुन्मादक इति प्रथमस्य भावार्थः / द्वितीयस्य तु सुलभ एव / गूढतूर्य मया पद्यं तदैकं विनिवेदितम् / सम्पूर्णः पठितः श्लोको हरिणा परिपूर्य तत् // 122 // दाने मेघो रतो धर्मे प्रशस्तः प्रौढतेजसा / यस्तनोति सतां प्रीतिं यशस्तस्य समेधते // 123 // तच्छृत्वा विस्मिताः सर्वे वयस्या धीरहो ! परा / कुमारस्येति सोऽन्येवं व्यस्मरत् चित्रकन्यकाम् // 124 // पारापतं प्रियाचाटुकारिणं प्रेक्ष्य तामथ / स्मरन्नसावभूत् कम्प्रः पतच्छील इव हृदः / / 125 // ततो मयोक्तं किमिदं कुमार ! तव बाधते / स प्राह नागताऽऽसीद् मे निद्रा रात्रौ शिरोऽर्त्तितः // 126 // गच्छन्तु वाऽत्र तिष्ठन्तु तदेते मन्मथादयः / एहि त्वमेको निद्रामि यच्चन्दनलतागृहे // 127 // कुमारः प्राविशत् तत्र मया सह गताः परे / पल्लवैः शिशिरैः शय्यामारूढोऽसौ कृतां मया // 128 // 1. प्राज्ञः सारं श्रेष्ठं यथा स्यात् तथा गाः वाणी: बध्नाति-ग्रन्थरूपतया विरचयति / गीतरसलम्पटाः सारङ्गाः-हरिणाः / 2. प्राबल्य केन वाच्य ? कलयति रसना के ? भवेत् पक्षिणः का, सम्बुद्धि बुद्धिमन्तः क्व च विरचनया कुर्वते सर्वयत्नम् / / कः प्रार्थ्यः ? केन तुल्योऽलस इह ? गरगीः कीदृशी स्यात् पुराऽर्था, व्यापद्वल्लोकृपाणी भवति जिनपतेः कीदृशी ब्रहि . वाणी ?॥उदारसंवेगविरागवासना / पूजायां सु इति पदम् / दहनमग्निस्तस्य वपुषः-शरीरस्य बोधन-सम्बोधनं कुरु / र:-अग्निः, तस्याझं शरीरं राङ्गम् , तत्सम्बोधन हे राग! / निःस्तनः ना पुरुषः / अनेतृ अनायकं पुरं नगरं शून्यम् / घनं-निबीडमपि वनम् असरो सरोवररहित शोभां नैति / जरा वेश्या सर्वगामित्वात् महत्री वा महत्त्वप्रापकत्वात् / समिति युद्धे सत्त्वभाज भटानां जयो भवति / टीप्पण्यश्चेमा वै. क. लतातः सुमुद्धताः॥