________________ 146 महोपाध्यायश्रीयशोविजयगणिविरचिता [षष्ठः सर्गः माहितोऽसौ कलाः सर्वाः सम्प्राप्तश्चारुयौवनम् / श्रिया सुरकुमारस्याऽऽकारं न्यक्कुरुते कृती // 8 // अस्योक्तः पूर्ववृत्तान्तो मया तेन श्रुतः पुनः / भवानानन्दनगरादागतो वणिजां वरः // 85 // ततः सदेशजं मत्वा त्वां द्रष्टुं सोऽभिवाञ्छति / तत्समीपं ततो गन्तुं भवानर्हति कोविदः // 86 // ततो हरिकुमारस्य वसुमत्या तया समम् / गतोऽभ्यर्णं तया तस्य ज्ञापितोऽहं जहर्ष सः // 87 // अस्थापयत् समाश्लिष्य गाढं मामर्धविष्टरे / जगौ चोक्तोऽम्बया तातमित्रं मे हरिशेखरः // 88 // त्वं च तस्य सुतस्तेन भ्राताऽसि मम सर्वथा / मयोक्तं यादृशस्तातो भृत्यः केसरिभूपतेः / / 89 // तादृशस्तेऽहमप्यस्मि तद् भृत्ये कोऽयमादरः / ततः सोऽकारयद् गाढं तुष्टो मित्रागमोत्सवम् / / 90 // ततो हरिकुमारेण सह लीलां वितन्वतः / दिनानि मे सुखं यान्ति सम्प्राप्तोऽथ मधूत्सवः / / 91 // ततो हरिकुमारोऽसौ मया युक्तो वनं गतः / स्थितश्रूततले कूजत्कोकिलाकृतविभ्रमे // 12 // तावत् तत्राऽऽगता काचिद् व्रतिनी रौद्ररूपभृत् / वृद्धा सा चित्रलिखितां तस्य कन्यामदर्शयत् // 93 // कुमारभावं पश्यन्ती सा ततः स्तिमिता स्थिता / सविकारं तमाक्षिप्तमालोक्य च विनिर्गता // 94 // कुमारोऽपि च तां पश्यन् दृष्टो मित्रैः स्मराहतः / दीर्घनिःश्वास-हुकारा-व्यक्तगी-मूर्द्धकम्पनैः // 95 // अभूत् क्षणं स मन्दाक्षः क्षणं विस्फारितेक्षणः / क्षणं स्मेरः क्षणं लीनः क्षणक्षणविलक्षणः // 96 // सस्मितं मन्मथः प्रोचे ततो नानारसाकुलम् / किं नरीनृत्यते चित्ते कुमार ! स्फारविभ्रमैः // 97 // विदग्धः सोऽवदत् तस्मै निढुवानो निजाशयम् / हृष्याम्यस्मादहमितश्चित्रकृत्करकौशलात् // 98 // चित्रेऽस्मिन् लिखिता बाला दत्ते नालापमेव हि / अन्यैस्तु विभ्रमैः सर्वैः साक्षाद्भूतैव दृश्यते // 99 // विभावयामि तदिदमेतच्चित्रककर्मणः / बहुक्रियाव्यग्रमतिर्विश्वकर्माऽपि नाधिकः // 10 // किं सत्यमिदमित्यूचे मन्मथः पद्मकेसरम् / सोऽप्याह प्राणिनां मित्र ! विचित्राश्चित्तवृत्तयः // 101 // चित्रेऽतिकुशला कन्या भाति चित्रकृतोऽपि मे / ललितः प्राह किं चित्रं दृष्टं क्वाप्यनया कृतम् ? // 102 // चित्ते गूढे कुमारस्य देवीनामपि दुर्गमे / दृष्टं नैतत्कृतं चित्रमित्यूचे पद्मशेखरः // 10 // विभ्रमः प्राह चित्रं किं ? नन्वाश्चर्यमिदं स्फुटम् / मूढ ! श्लेषादिदं ह्येतदित्यूचे पद्मकेसरः // 104 // कपोलोऽवक् कथं गम्यं हृतमस्य मनोऽनया / मूढ ! लिङ्गैरतिव्यक्तैरित्यूचे पद्मकेसरः // 105 // यावन्न भवति श्रान्तं मनः कामावलङ्घनात् / न निःश्वासादयो भावास्तावदाविर्भवन्ति हि // 106 // कुमारमेव पृच्छ स्याद् यदि न प्रत्ययो मयि / प्रोचे हरिकुमारोऽथ कृतं यत्तत्प्रलापतः // 107 // चारु प्रश्नोत्तरं किञ्चित् पठ तावदनाविलः / सहासं स जगौ चेतः कुमारस्य विनोदयन् // 108 // पिबैन् वाचो नु कां श्रोत्रपुटपेयां सुधां मम / कस्तृप्तिं याति ? साधुश्च कां त्यजत्यवदातधी: ? // 109 // श्रुत्वेदं शून्यहुकारं कुमारो व्याकुलो ददौ / पुनः पपाठ विस्पष्टधृतये पद्मकेसरः // 110 // चित्रकन्याहृतस्वान्तस्तथाऽप्यस्थात् स तादृशः / स्मित्वा सर्वे ततोऽपश्यन् वदनानि परस्परम् // 111 // 1. गतः / भूरिमित्राश्रितश्चारुसहकारतरोस्तले // 92 // ता॥ 2. यां ददौ करे ॥९३॥कु।। 3. हृदि प्राप्नोति कश्चित्रं, का चित्रामधिगत्य मे / वाचामाचारपूतात्मा, साधुस्त्यजति का पुनः // 1.9 // अहं मम वाचः श्रोत्रपुटपेयां सुधां कृति पिबन् नु तृप्ति यामि / अवदातधीः साधुश्च अहंकृति त्यजति //