________________ 144 महोपाध्यायश्रीयशोविजयगणिविरचिता [ षष्ठः सर्गः विकल्पयत इत्थं च सागरक्षोभितस्य मे / पुरः स्थिते पपातोचैर्दृष्टिः किंशुकपादपे // 27 // प्ररोहो भूमिसम्प्राप्तस्तच्छाखाया विनिर्गतः / दृष्टो मया ततश्चायं खन्यवादो हृदि स्मृतः // 28 // नास्त्येव क्षीरवृक्षस्य प्ररोहो धनवर्जितः / स्तोकं वा भूरि वा तत्र ध्रुवं बिल्वपलाशयोः // 29 // प्ररोहे भूरि तत् स्थूले तनुके स्तोकमुच्यते / रात्रौ ज्वलति तद् भूरि सोमणि स्वल्पमीरितम् // 30 // विद्धे तत्र भवेद् रक्तं यदि रत्नानि लक्षयेत् / अथ क्षीरं सितं रूप्यं पीतं च कनकं भवेत् // 31 // प्ररोहः स्यादुपर्युच्चैर्यन्मात्रोऽपि तावति / प्रदेशे निहितं नूनं विद्यते तन्निधानकम् // 32 // उपरिष्टात् तनुश्चेत् स्यादधस्तात् पृथुलो यदि / प्ररोहोऽसौ निधिं प्राप्तो विपरीतस्तु सोऽन्यथा // 33 // पलाशस्य प्ररोहोऽसौ तनुको यन्निरूपितः / स्तोकं द्रव्यमिहास्तीति तच्चित्ते चिन्तितं मया // 34 // नखविद्धात् ततः क्षीरं पीतवर्णं विनिर्गतम् / ततो मया सुवर्णेन भाव्यमत्रेति भावितम् // 35 // तत्प्रदेशो मया खातः सागरप्रेरणादथ / दृष्टं भृतं च दीनारैस्तत्रोच्चैस्ताम्रभाजनम् // 36 / / सहस्रमात्रं तत्प्राप्तं सागरः स्फीतिमाययौ / तत्रैवारोपितः सोऽयं पुण्योदयगुणो मया // 37|| भाण्डमूल्यमभूत् तन्मे प्रविष्टो नगरे ततः / बकुलश्रेष्ठिना दृष्टो हट्टमार्गे वृषोज्ज्वलः // 38 // कृतं संभाषणं तेन वितताः स्नेहतन्तवः / नीतश्च भवने स्वीये भोजितं चारु भोजनम् // 39 // पृष्टः कुलाभिधानादि मया प्रोक्तं यथास्थितम् / योग्यं ज्ञात्वा ततः स्वीया पुत्री मे परिणायिता // 40 // ततस्तेनोदितं वत्स ! स्वीयं गृहमिदं तव / अत्र तिष्ठ निरुद्विग्नो विलसन् सह वत्सया // 41 // मयोक्तं स्वार्जितं वित्तं विना भोगो विडम्बना / प्रस्थापय सुसार्थेन रत्नद्वीपं ब्रजामि तत् // 42 // श्रेष्ठी प्राह कृतं वत्स ! तवान्ध्युल्लङ्घनेच्छया / मदीयेन धनेन त्वमत्रैव धनमर्जय // 43 // मयोक्तं यदि निर्बन्धस्तवायं तत् पृथग्गृहे / स्थितः स्वीयेन वित्तेन पणेऽहं पृथगापणे // 44 // श्रेष्ठिनाऽपि तथेत्युक्ते लग्नस्तत्र धनार्जने / तेन सागरमित्रेण प्रेर्यमाणः प्रतिक्षणम् / / 4 / / गता दयालुता नष्टा धर्मधीः क्षीणमार्जवम् / कर्मादानानि सर्वाणि कृतानि बहुशो मया // 46 // तृडबुभुक्षे मया सोढे धनलुब्धेन सर्वथा / रात्रावपि न सुप्तोऽहं नापि भोगा निषेविताः // 47 // क्लेशेन तावता साद्धं सहस्रं तदभून् मम / सहस्रद्वयवाञ्छाऽभूत् तत्प्राप्तावयुतस्पृहा // 48 // प्राप्तं तदप्युपायेन ततो लक्षे गतं मनः / नानोपायप्रसक्तेन मया तदपि मीलितम् // 49 // ततोऽपि प्रयुतेच्छाऽभूत् सागरादेशवर्तिनः / कालेन भूयसा साऽपि पूरिता क्लेशकोटिभिः // 50 // कोटिप्राप्तौ ततो वाञ्छा जाता मे साऽपि पूरिता / बहूपायैर्महारम्भैर्नृपसेवादिवृत्तिभिः // 51 // पुण्योदयस्य माहात्म्याद् यावत् कोटिरपूर्यत / सागरः प्रेरयामास कोटीनां तावदर्जने // 52 // इच्छाऽनिवर्तनीयाऽभूत् ततः सागरलङ्घने / बकुलश्रेष्ठिने स्वीयोऽभिप्रायश्च निवेदितः // 53 // स प्राह पूर्यमाणो हि पुरुषो भूरिभिर्धनैः / ज्वालाभिरिन्धनरग्निरिवेच्छाभिः प्रवर्धते // 54 // न कदापि निवृत्तिः स्यात् तस्य रत्नाचलैरपि / श्रेयसी तद् धृतिः पुंसां धनलोभान्धता तु न // 55 // 1. पुण्योदयगुणो मोहात् स तत्रारोपितो मया // 2. त्वा कमलिनी //