________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [पञ्चमः सर्गः जगौ च सरलायेदं पुत्रोऽयं तव तिष्ठतु / मदभ्यर्णे तव गृहे न युक्तोऽयं विषाङ्कुरः // 741 // दुश्चेष्टितैः पराभूतो नष्टः पुण्योदयोऽथ मे / श्रेष्ठिना प्रतिपन्नं तद् वचनं भूपतेस्तदा // 742 // स्थितो धिक्कारनिहतो दोनोऽहं राजमन्दिरे / शान्ते बहुलिका-स्तेये राजदण्डभयाद् मम / / 743 // तथापि सर्वकार्येषु लोको मां परिशङ्कते / मय्येवान्यकृतं चौर्य दत्ते प्रत्येति नो वचः // 744 // विद्यासिद्धेन केनापि राज्ञः श्रीगृहमन्यदा / मुषितं लक्षितो नासौ दोषो मय्येव सोऽर्पितः // 745 / / ततोऽहं गाढरुष्टेन राज्ञा बाढं कदर्थितः / सरलस्यापि वचनं नादत्तं तीव्रतेजसा // 746 // उल्लम्बितोऽहं विरटन् जीर्णा प्राग् गुटिका मम / भवितव्यतया दत्ता गुटिकाऽभिनवा ततः // 747 // गतः पापनिवासायां नगर्यामन्त्यपाटके / तत्रानुभूय दुःखानि गुटिकान्तरलाभतः // 748 // पञ्चाक्षपशुसंस्थाने पुरे गत्वा गतस्ततः / मुक्त्वाऽसंव्यवहाराख्यं सर्वेषु नगरेष्वहम् / / 749 // प्राप्तो वहुलिकादोषात् तिर्यग् स्त्रीत्वमनन्तशः / ताभ्यां मे पापमित्राभ्यां स्थाने स्थाने न किं कृतम् ? // 750 // निगदति भवजन्तावित्यदो धीविशाला, मुकुलितभवभीतिश्चिन्तयामास चित्ते / ... अहह ! भुवि दुरन्तः स्तेय-मायाविकारस्त्यजति तदपि नैते बोधहीनो मनुष्यः // 751 // कथमयमनुभूतानन्तजन्मप्रतानः, प्रभवति गुटिका का स्त्री किमस्य प्रतीपा / किमिदमखिलमन्ताममित्राद्यनेनोदितमिति हृदि भव्यो विस्मितस्तिष्ठति स्म // 752 // कलयति मुखरागाद्धीविशालैनमर्थ, रहसि तदिदमस्याः प्रश्नयिष्यामि पश्चात् / इति मनसि स दध्यावागमो वेत्ति सर्व, सदसि सुललिता नु स्मेरनेत्रा शृणोति // 753 // भवजन्तुरुवाचाऽथ प्रोक्तोऽहं निजभार्यया / त्वयाऽऽर्यपुत्र! गन्तव्यमानन्दनगरेऽधुना // 754 // तुष्टास्मि त्वयि दत्तोऽयं सुहृत् पुण्योदयश्च ते / सहायः सागरश्चायं मूढतारागनन्दनः // 755 // तद्वचः प्रतिपद्याऽहं गुटिकां प्राप्य तादृशीम् / आनन्दनगरे ताभ्यां सहितो गन्तुमुद्यतः // 756 // इति सपदि निशम्य प्राणदौर्जन्यवार्तामपि च निचितगूढस्तेयमायाविपाकम् / य इह निभृतचित्तः स्यात् स्वतत्त्वप्रबुद्धः स भुवि शुचियशःश्रीः श्लाध्यभावं बिभर्ति // 757 // . // इति वैराग्यरतौ पञ्चमः सर्गः //