________________ श्लो० 682-740 ] वैराग्यरतिः। अदष्ट्वा मां बुधाचार्यः पृष्टः कागात् सुहृत् स मे ? / ज्ञानवान् स च निःशेषं तस्मै मञ्चरितं जगौ // 711 / / विमलः प्राह भव्यः किं नायं बत शठाशयः ? / सूरिः प्रोवाच नाऽभव्यः प्रकृत्या सुन्दरो ह्ययम् // 712 // दोषः सर्वोऽपि चैतस्य भगिनीभ्रातृसङ्गजः / भगिन्यस्य बहुलिका भ्राता च स्तेयनामकः / / 713 // तदशोऽयं पुरा चके रत्नस्य हरणादिकम् / विमलः प्राह भाव्यस्य कदा तत्यागसुस्थता // 714 // सूरिराह गते भूरिकाले ताभ्यां स मोक्यते / ऋजुताऽस्तेयते कन्ये परिणीय शुभाशयात् // 715|| तच्छ्रुत्वा विमलेनाहमयोग्यत्वादुपेक्षितः / प्राप्तोऽहं काञ्चनपुरे दृष्टश्च सरलो वणिम् / / 716 // गतस्तस्याऽऽपणे तत्र दीप्तिं बहुलिका ययौ / कृतं तत्पादपतनं चक्षुर्मोदाश्रुणा भृतम् // 717 / / उक्तं मया च दृष्ट्वा त्वां जनकस्य स्मराम्यहम् / पुत्र एवास्यपुत्रस्य त्वं ममेति जगाद सः // 718 // नीतोऽहं स्वगृहे तेन बन्धुमत्याः समर्पितः / स्वभार्यायास्तया स्नानभोजनादि च कारितः // 719 // पृष्टश्च नामगोत्रादि मया सर्वं निवेदितम् / सजातीयोऽयमित्युच्चैर्मुदितः सरलो हृदि // 720 // जगौ बन्धुमती भार्ये ! धात्रा नूनमपुत्रयोः / पुत्रोऽयमावयोर्दत्तो वृद्धत्वपरिपालकः // 721 // तच्छ्रुत्वा बन्धुमत्याप मुदं मय्येव मन्दिरम् / सरलेन च निःक्षिप्तं हट्टस्थं दर्शितं धनम् // 722 / / हट्ट एव स शेते च मदयुक्तो धनमूर्छया / अन्यदा तिष्ठतो हे सन्ध्यायां सुखमावयोः // 723 // प्रेषितो बन्धुलेनैत्य सरलाह्वायको जगौ / वस्तव्यं मद्गृहे षष्ठीजागरेऽद्य त्वया सुहृत् / / 724 // ततोऽहं सरलेनोक्तो याम्यहं बन्धुलालये / दुस्यजो मित्रनिर्बन्धस्तत् त्वं गत्वाऽऽपणे वस // 725 / / मयोक्तं गमनेनालं हट्टे तातोज्झितस्य मे / अम्बायाः पादमूलेऽहं वत्स्याम्यद्याविशङ्कितः // 726 // ततोऽहो ! स्नेहसारोऽयमिति सञ्चिन्तयन् हृदि / एवं भवत्विति वदन् मुदितः सरलो गतः // 727 / / स्थितो गृहेऽहं रात्रौ च स्तेयवीर्य विजृम्भितम् / अर्धरात्रे गतो हट्ट हर्तुमन्तर्धनं ततः // 728 // दृष्टश्चोद्घाटयन् हद्दमागतैर्दाण्डपाशिकैः / मुक्तस्तैः प्रत्यभिज्ञाय किं करोतीति चिन्तिभिः // 729 // तदन्तर्धनमुत्खातं मयोद्घाट्यापणं ततः / तस्यैव पश्चाद्भूभागे निखातं चापणस्य वै // 730 // रात्रौ विभातप्रायायां कृतो हाहारवो महान् / मिलितो नागरो लोकः सम्प्राप्तः सरलोऽपि च // 731 / / आविर्बभूवुः प्रच्छन्नाः स्थिता ये दाण्डपाशिकाः / सरलः प्राह किं जातं? मयोक्तं मुषितं धनम् // 732 // सोऽयक् त्वया कथं ज्ञातः मयोक्तं त्वां विनाऽधृतिः / इहागां रात्रिशेषेऽहं दृष्टमेतत् तदेदृशम् / / 733 // दध्युः श्रुत्वेत्यदो दाण्डपाशिकास्तस्करो ह्ययम् / अस्याहो ! वञ्चनाशक्तिरहो ! विश्रम्भघातिता // 734 // ततस्ते जगदुः श्रेष्ठिन् ! चित्ते भव निराकुलः / लब्धोऽस्ति चौर इत्येतैः साकूतमहमीक्षितः // 735|| जातं ततो मम भयं ग्रहीष्यामः सलोत्रकम् / इत्यालोच्य गतास्तावद् प्रचण्डा दाण्डपाशिकाः / / 736 // लवितं तदिनं भूरिविकल्पाकुलितस्य मे / गच्छन् रात्रौ धनं हृत्वा गृहीतो दाण्डपाशिकैः // 737 / / जातः कोलाहलो लोको मिलितो नागरोऽखिलः / रिपुसूदनराज्ञोऽग्रे नीतोऽहं दाण्डपाशिकैः // 738 // तेन वध्यतयाऽऽज्ञप्तः सरलोऽथ समागतः / पतित्वा पादयो राज्ञो जगौ मेऽसौ प्रियः सुतः // 739 // मुध्यतां कृपया तन्मे सर्वस्वं गृह्यतामिदम् / माममुञ्चत् ततो राजा तस्याऽयच्छच्च तद्धनम् // 740 //