________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [पञ्चमः सर्गः इति श्रुत्वा वचो मूछों प्राप सा शोकपीडिता / मन्दस्यैतत् किमित्येवं जगौ भूयश्च पृच्छतः // 566 // युवयोर्विस्मृतिर्नाथ ! मम शोकस्य कारणम् / अहं भुजङ्गता नाम युवयोः परिचारिका // 567 // अहं भवद्भयामेवास्यां गुहायां स्थापिता पुरा / अस्यां हि घ्राणनामास्ति वयस्यो युवयोः प्रियः / / 568 / / तिष्ठामि भवदादेशात् तस्याऽहं परिचारिका / सङ्गतं चिरकालीनं युवयोः सह तेन हि // 569 / / पुरेऽसंव्यवहाराख्ये स्थितिः प्राग् युवयोरभूत् / एकाक्षाख्ये गतौ कर्मपरिणामाज्ञया ततः // 570 // विकलाक्षे ततः प्राप्तौ तत्राऽऽस्ते पाटकत्रयम् / द्वीतीयपाटके तत्र त्रीन्द्रियाख्ये स्थितौ युवाम् / / 571 // दत्तेयं वां गुहा कर्मपरिणामेन भूभुजा / प्रसादमीयुषा तत्र घ्राणाख्यश्च कृतः सुहृत् // 572 / / स्थानेषु तादृशेष्वेष ततः प्रभृति वां हितः / अन्वागतो युवाभ्यां च गुहास्थः परिलालितः // 573 / / आगताभ्यां विशेषेण लालितो नृगतिं पुरीम् / अहं मुजङ्गताख्या च कृताऽस्य परिचारिका / / 574 // तदेवं चिरसम्बद्धौ कुरुथो गजमीलिकाम् / युवां यदि ततोऽन्यत् किं परं मे शोककारणम् // 575 // युवाभ्यां प्राक्तनस्थित्या तद् धार्या प्रेमपद्धतिः / इति श्रुत्वा बुधो दध्यौ धूर्तेयं नैव शोभना // 576 / / ईषत्स्मितं सलजं च कुलस्त्री मृदु भाषते / इयं च बृहदाटोपा वितनोति विपर्ययम् / / 577 / / इत्युपेक्षापरस्तस्यां बुधो नोत्तरमप्यदात् / स्नेहक्रीतोऽभवत् तस्याः साक्षाद् मन्दस्तु किङ्करः / / 578 // उवाच किं करोम्येष ? ततः प्राह मुजङ्गता / सेव्यः सृहृत् त्वया गन्धलुब्धबुद्धिरयं सदा // 579 // चन्दना-गुरु-कर्पूर-कस्तूर्यादि सुगन्धि यत् / तद् रोचतेऽस्य नामापि दुर्गन्धस्य न रोचते // 580 // इष्टोपनत्याऽनिष्टस्य दूरतश्च निवारणात् / घ्राणेन लालितेनेह तद् भावि भवतोः सुखम् // 581 // मन्दः प्राह करोम्येवं तिष्ठ भद्रे ! निराकुला / साऽपि तद्वचसा तुष्टा दधौ मौनं बुधः पुनः // 582 // दध्यौ च क्षेत्रमेतद् मे शैलश्चयं महागुहा / घाणोऽप्यस्यां स्थितः पाल्यो मम नास्त्यत्र संशयः // 583 // अस्या नार्या गिरा कार्य केवलं नास्य लालनम् / आक्षेत्रमोक्षं कार्याऽस्य धारणा लोकयात्रया // 584 // इति निश्चित्य तं घ्राणं पालयन्नपि नो बुधः / दोषौधैर्युज्यते कीर्ति लभते शुद्धमार्गगः // 585 // मन्दस्तु पालयन् घ्राणं पुरस्कृत्य भुजङ्गताम् / लोल्यात् तंतम्यते बाढं सुगन्धिद्रव्यसझहैः // 586 // शङ्कापिशाच्या दुर्गन्धं जिहीर्षश्च निहन्यते / धृतिसौख्यं न लभते हस्यते च विवेकिभिः // 587 // इतश्च प्राप्ततारुण्यो विचारो नृपनन्दनः / दृष्ट्वाऽऽयातोऽखिलान् देशान् गतो देशदिदृक्षया // 588 // द्वदि प्रहृष्टौ धिषणा-बुधौ तत्र समागते / मुदितं राजभवनं कृतस्तस्यागमोत्सवः / / 589 // आकर्ण्य घ्राणसम्बन्धं सञ्जातं बुध-मन्दयोः / रहसि स्वीयपितरं विचारः स इदं जगौ // 590 // वयस्यो घ्राणनामाऽयं न युक्तो दुष्टधृष्टधीः / यदहं भवचक्रेऽगां गतो देशदिदृक्षया // 591 // राजमार्गे मम दृशोस्तत्रैका योषिदागता / मद्दर्शनाद् मुखे मग्ना मयूरीव धनागमात् // 592 // ममापि प्रमदो दृष्ट्वा तामभूदनिवारितः / कुतस्त्योऽसीति पृष्टोऽहं नतो दत्ताशिषा तया // 593 // मयोक्तं बुधराजस्य पुत्रोऽहं धिषणात्मजः / देशान् दिदृक्षुरायातो धरातलपुरादिह // 594 // हर्षाश्रुपूर्णनयना श्रुत्वेदं साऽङ्गनाऽवदत् / प्रागेव विदितो वत्स ! त्वं मे प्रेमैकभाजनम् // 595 // . .