________________ ग्लो० 566-625 ] वैराग्यरतिः। मया त्वं बालको मुक्तस्तन्मां वेत्सि विशिष्य न / मार्गानुसारिताऽऽख्याऽहं मातुः प्रियसखी तव // 596 // तव माता मम प्राणाः पिता ते जीविताधिकः / तयोरेवाहमादेशाद् देशान् द्रष्टुं विनिर्गता // 597 / / जातमात्रे त्वयि सुते, भागिनेयोऽसि तेन मे / सर्वस्वं परमात्मा च किं किं त्वं मे न वर्तसे ? // 598 // कृतं चारु यदायातो देशदर्शनकाम्यया / देशाटनं किल ज्ञानपूःकपाटविपाटनम् // 599 // तच्च चारुतरं वत्स ! भवचक्रे यदागतः / अत्र दृष्टेऽखिलं दृष्टमिदं सर्वाद्भुताऽऽस्पदम् // 600 // धन्याऽस्मि च यया दृष्टस्त्वं हृत्कुमुदचन्द्रमाः / मयाऽप्युक्तं कृतार्थोऽस्मि मिलितोऽहं यदम्बया // 601 // दर्शयत्वधुनाऽम्बा मे निखिलं भवचक्रकम् / साऽपि तद् बाढमित्युक्त्वा सवृत्तान्तमदर्शयत् // 602 // अथैकत्र मया दृष्टं पुरं तत्र महानगः / निविष्टं शिखरे तस्य रमणीये परं पुरम् // 603 / / ततो मयोक्तं किं नाम पुरमेतदधः स्थितम् ? / किं नामाऽयं गिरिर्मातः शिखरे किं परं पुरम् ? // 604 // मार्गानुसारिता प्राह पुरं सात्त्विकमानसम् / इदमत्रातितुङ्गोऽयं विवेकवरपर्वतः // 605 / / विख्यातं शिखरं चेदमप्रमत्तत्वनामकम् / इदं जैनपुरं तत्र स्थित्याप्युच्चं गुणैरिव // 606 // इदं वदन्न्यामेवास्यां पुरुषैर्वेष्टितो मया / नीयमानो मया (?) दृष्टो राजपुत्रो रणक्षतः // 607|| मयोक्तं कोऽयमम्बास्त्रैः कथं च निशितैः क्षतः ? / कुत्र वा नीयते ? केऽमी लग्नाश्च परिचारकाः ? // 608 // मार्गानुसारिता प्राह राजतेऽत्र महागिरौ / राजा चारित्रधर्माख्यो यतिधर्मश्च तत्सुतः // 609 // संयमो नाम तस्याऽयं पुरुषः पौरुषाधिकः / गतोऽत्रैः क्वचिदेकाकी महामोहादिभिः क्षतः // 610 // नेप्यन्तीमं स्वभवने रणभूमेः पदातयः / तिष्ठन्त्यस्य पुरे जैने बहवः खलु बान्धवाः // 611 // मयोक्तं द्रष्टुमिच्छामि भाव्यत्र यदतः परम् / नीत्वा मां शैलशिखरे सर्व मातः ! प्रदर्शय // 612 // मां निनाय पुरं जैन ततो मार्गानुसारिता / ददृशे मण्डपे चित्तसमाधाने स भूपतिः // 613 // मोहाथैनिहतं दृष्ट्वा संयमं तत्र चागतम् / केचिद् मुञ्चन्ति हुङ्कारान् केचित् खियन्ति रोषणाः // 614 // भुजमास्फोटयन्त्यन्ये परे भ्रुकुटिभीषणाः / जायन्ते केऽपि रक्ताङ्गाः परेऽसिधृतदृष्टयः // 615 // केचित् प्रवृत्ताट्टहासा केचिदूर्जितगर्जिताः / केचित् कराहतभुवः केऽपि साक्षात् कृशानवः // 616 // तादृशं क्षुभितं प्रेक्ष्य निखिलं राजमण्डलम् / चारित्रधर्मराजेन्द्रं सद्बोधो नीतिविजगौ // 617 // धीराणां युज्यते नायं सम्भ्रमः कातरोचितः / तदेते विनिवार्यन्तां देव ! क्षुब्धान्धिसन्निभाः // 618 // भावः परीक्ष्यतामेषामथेङ्गितनिवारिताः / चारित्रधर्मराजेन ते सर्वे मौनमास्थिताः // 619 // स्वं स्वं विवक्षितं ब्रूतेत्युक्ताश्च पृथिवीभुजा / नृपा जगुर्योदुकामास्त्याग-शौचा-नृतादयः // 620 // विलम्बोऽद्यापि नो युक्तः संयमाभिभवे विभोः / सिंहः किं स्ववनोन्माथिगजघाते विलम्बते // 621 // वृद्धिकृद् विषवृक्षाणामपराधक्षमा द्विषाम् / तेषां वीर्यकुठारेणच्छेदनं हितकारणम् // 622 // उल्लासोऽगलितेषु स्यादभ्रेष्विव रवित्विषाम् / कृतम्लानिषु नास्माकं महामोहादिशत्रुषु // 623 // कारणं देवपादानामनिच्छैव द्विषां स्थितौ / निद्रयैव मृगारातः करी क्रीडावने भवेत् // 624 // अलं वैरिचमं हन्तुमेकैकोऽपि भटस्तव / एकोऽपि पूरः क्षुन्धाब्धेः प्लावयत्येव काननम् // 625 // वै-१८