________________ 134 महोपाध्यायश्रीयशोविजयगणिविरचिता [ पञ्चमः सर्गः भिक्षा तं याचमानं च भोगाकाङ्क्षाक्षुधातुरम् / रागादयो भवग्रामे भ्रामयन्ति मदोद्धताः // 508 / / तिर्यग-नारक-मानुष्य-देवसम्बन्धिनो भवाः / चत्वारः पाटकास्तत्र प्रोक्तरूपाः प्रकीर्तिताः // 509 / / कपरं च शरावं च तानं राजतमेव च / कीर्तितं नरकाद्यायुर्लोकभौतस्य भाजनम् // 510 // तत्र पापमषीलिप्तो नरकायुष्ककपरे / दीनोऽसौ याचते भोगभिक्षां नरकपाटके // 511 // न तत्र लभते भिक्षां रागादिस्तेनसंज्ञितैः / घोरैर्नरकपालैश्च षिगतुल्यैः प्रपीड्यते / / 512 // . अनन्ततीव्रदुःखौघमनुभूय ततः कचित् / आयुष्कर्प रे भग्ने निर्गच्छेच्चौरवेष्टितः // 513 // पर्यटेदथ भिक्षार्थी तिर्यग्जन्मनि पाटके / तत्रापि नाश्नुते भोगान् बाध्यते च क्षुधादिभिः // 514 // निष्ठिते तिर्यगायुष्के मानुष्यकमवाप्नुयात् / पुण्यच्छायालवात् तत्र लभते भोगभोजनम् / / 515 // तत्राप्युपद्रवैस्तैस्तैः पीड्यते धूर्तसन्निभैः / ताम्रपात्रे नरायुष्के भग्ने गच्छेत् सुरालयम् // 516 // बिभ्राणो राजताकारममरायुष्कभाजनम् / तत्र पुण्यमहाच्छायो लभते भोगभोजनम् // 517 // एवं लोको भवग्रामे बम्भ्रमीति पुनः पुनः / उन्मत्तस्तस्कराधीनो हसन् गायन् रुदन् भृशम् / / 518 / / भिक्षालवं समासाद्य तुच्छं वैषयिकं सुखम् / भौतवत् सुखमानी स स्वां न वेत्ति विडम्बनाम् // 519 // भ्रंशितो यमहैश्वर्यात् कुटुम्बाच्च वियोजितः / हितांस्तानेव रागादीन् लोकोऽयं वेत्ति बान्धवान् // 520 // भिक्षाभूतमिदं तुच्छं लब्ध्वा वैषयिकं सुखम् / तथा नृत्यति मूढात्मा यथाऽसौ बठरो गुरुः // 521 / / धरणीनाथ ! तेनेदं लोकस्तत्त्वं न मन्यते / दुःखाब्धिमध्यपतितः सुखित्वमभिमन्यते // 522 // बभाषे धवलः क्ष्माभृत् तदुन्मत्ता भृशं वयम् / लुप्तं रागादिभिश्चौरैः स्वरूपं शिवमन्दिरम् // 523 // पर्यटामो भवग्रामे नष्टभावकुटुम्बकाः / सुदुर्लभा भोगभिक्षा तुष्टास्तल्लवलाभतः // 524 // मग्ना दुःखोदधावस्मात् कथं मोक्षो भविष्यति ? / सूरिराह यथा जातं तस्य वार्तान्तरं तथा // 525 // तथाहितैरुपद्रूयमानं तं सम्प्रेक्ष्य बठरं गुरुम् / महामाहेश्वरस्याऽभूत् तस्यैकस्य कृपोपरि // 526 // पृष्टस्तेन महावैद्यस्ततस्तदुपदेशतः / आत्तोपकरणो रात्रौ गतोऽसौ शिवमन्दिरम् // 527 // नाटयित्वाऽथ तं सुप्ता बहुवेलं मलिम्लुचाः / माहेश्वरः शिवगृहं गतो दीपः स्फुटीकृतः // 528 // भवितव्यतयाऽपश्यत् खिन्नस्तं बठरो गुरुः / ययाचे चाम्बु स ददौ ततस्तत्तत्वरोचकम् // 529 // तत्पानानष्ट उन्मादो नैर्मल्यं चेतना ययौ / धृस्तेि तस्करा दृष्टा ददौ माहेश्वरोऽशनिम् // 530 // जगौ च वैरिणस्तेऽमी तदेतेन निपातय / वज्रेण तेन ते चौराः समुत्थायाखिला हताः // 531 // उद्घाटितः स्फुरद्धामा चित्तापवरकस्ततः / कुटुम्बं स्वं स्फुटीभूतमुदभूद् रत्नसञ्चयः // 532 // दृष्टाऽखिला स्वसद्मश्रीः प्रमोदातिशयोऽजनि / परित्यज्य भवग्रामं गतः शिवमठेऽथ सः // 533 // भूपः प्राह नियोज्येयं कथमत्र जने कथा / गुरुर्जगौ महामाहेश्वरो धर्मप्रबोधकृत् // 534 // लोकभौतं भवग्रामे दृष्ट्वा रागादिपीडितम् भिक्षामात्रेण सन्तुष्टमुन्मत्तं च कृपापरः // 535 // 1. दृष्टा वज्रं माहेश्वरी ददौ // 530 // जगौ। 2. गतस्त्यक्त्वा भवप्रामं मठे सारगुरुः शिवे // 533 // भूपः / /