________________ श्लो० 396-450 ] वैराग्यरतिः। निःस्नेहं चञ्चलं तुच्छं तथापि हृदयप्रियम् / अज्ञातपरमार्थानां बालानां प्रतिभासते // 423 // क्लिश्यन्ते च तदर्थं ते स्वयं कर्मकरा इव / दिवारात्रौ च धावन्ति मोहान्धा धनमर्जितुम् // 424 // विनिद्राः शेरते रात्रौ भुञ्जतेऽपि सुखेन न / भ्रमन्ति पशुवद् मूढाः पीडिता भूरिचिन्तया // 425 / / परायत्ताः कुटुम्बस्य तत्त्वार्थं ते न जानते / यत् कुटुम्बार्थपापस्य भोक्ष्येऽहं फलमेककः // 426 / / माता-पित्रादिसम्बन्धो मृगतृष्णोपमोऽखिलः / सन्तोषामृतसौख्यं कस्तात्त्विकं तेन हारयेत् // 427 // कुटुम्बपञ्जरं त्यक्त्वा ये त्वेवं भावनाभृतः / निष्क्रान्ता न परायत्तास्ते स्वाधीनसुखाब्धयः // 428 // गृहपाशविमुक्तानां तेषां या गुर्वधीनता / सा ग्रीवाभरणं नैव रज्जुराकर्षणी भवे // 429 // यूयमुक्ताः परायत्ताः सञ्चिन्त्येदं स्वमानसे / स्वाधीनत्वं मया स्वस्य वचोऽध्वपथिकीकृतम् / / 430 // पश्यन्ति नान्तः कामान्धाः पश्यन्तोऽपि बहिर्दशा / विकलाक्षास्ततस्ते स्युः साधवस्तु न तादृशाः // 431 // सज्जाक्षा एव तज्ज्ञेया बहिनष्टदृशोऽपि ते / विकलाक्षा मयेत्येते प्रोक्ता नाहं तु तादृशः // 432 // ये चाष्टावृणिकाः प्रोक्ताः कर्माण्यष्ट प्रतीहि तान् / दानग्रहणिकैर्लोकाः कदर्थ्यन्ते हि तैर्धशम् // 433 // 'तिर्यग्भवे क्वचिद् दीनाः स्थाप्यन्तेऽतिबुभुक्षिताः / क्षिप्त्वा नरककारायां पीड्यन्ते निष्कृपैः कचित् // 434 // पुण्याख्यो हियते गेहोपस्करः क्वापि दुर्गतौ ! आहत्य पार्णिना कापि चिन्तापङ्के विलोठ्यते // 435 // साधूनां ते न बाधायै शुद्धप्रायमृणं हि तैः / ग्रन्थेन गुरुदत्तेन शोधयन्ति च ते सदा // 436 // ऋणार्दितास्ततः प्रोक्ता यूयं नाहं तु तादृशः / ऋणिका बाधका नैव ऋणं शोधयतो हि मे // 437 // करं कर्म भवो घोरो रौद्रं रागादिमण्डलम् / जीवितं दृष्टनष्टं च चलाः सर्वा विभूतयः // 438 // प्रमादो देहिनां शत्रुर्देहोऽयं क्षणभङ्गुरः / जरा-मृत्यू करगतौ भोगाः पर्यन्तदारुणाः // 439 // इत्यादिकमनालोच्य कामभोगाशयो क्रमौ / प्रसार्य ज्ञानतत्पात्रसङ्गनेत्रे निमील्य च // 440 // अविद्याशयने सर्वे स्वपन्ति भवजन्तवः / महाघुरघुरारावं कुर्वन्तः क्रोधचेष्टितैः // 441 // शब्दैरपि न बुध्यन्ते प्रदीर्धेस्ते विवेकिनाम् / बोधिता अपि कृच्छ्रेण घूर्णन्ते मोहनिद्र्या // 442 // वल्गन्तोऽपि ततो ज्ञेया गृहिणः प्रचलायिताः / मुनयस्ता विना निद्रां सुप्ता अपि हि जाग्रति / / 443 // स्वस्यान्येषां च पश्यन्ति ते हि गत्यागती श्रुतैः / तद् यूयं प्रचलायध्वे नाहमित्यास्थितं मया // 444 // दरिद्रा भूपते ! ज्ञेया ये सद्धर्मविवर्जिताः / परप्रार्थनया बाढं दीना विषयभिक्षवः // 445 // येषां तु भावरत्नानि चित्तापवरके सदा / देदीप्यन्ते मुनिजनाः स्वाधीना धनिनो हि ते // 446 // ते स्वयं भुञ्जते शर्म पुष्णन्ति च जगजनान् / अलाबुहस्ता अपि ते विज्ञेयाः परमेश्वराः // 447 // अनादिनिधनज्ञानधनोऽहं तद् भवादृशैः / स्वं दारिद्रयमनालोच्य दरिद्रो भावितः कथम् // 448 // मलिनोऽपि स विज्ञेयो यः कर्ममलभारितः / मुद्रिताशुचिकुम्भाभः क्षालितोऽपि बहिर्मशम् / / 449 // हार-तारकनाथांशु-क्षीरनिर्मलमानसः / निर्मलस्तत्त्वतो ज्ञेयो बहिर्मलधरोऽपि हि // 450 // 1. धार्यन्ते क्षुधिताः क्वापि तिर्यग्भवचतुष्पथे // 2. चिन्तापके विलोठयन्ते क्वचिदाहत्य पाणिना / पुण्याख्यो हियते गेहोपस्करः क्वापि दुर्गतौ // 435 // साधूनां //