________________ 130 महोपाध्यायश्रीयशोविजयगणिविरचिता [पञ्चमः सर्गः दृश्यन्ते शीतलच्छायाश्रिता यद्यपि गेहिनः / तथापि तत्त्वतो ज्ञेया धावन्तो भववर्मनि // 396 / / मुनयस्तु विवेकाद्रौ सर्वदा जैनसत्पुरे / स्थिताश्चित्तसमाधानमण्डपे चन्द्रशीतले // 397 / / निर्वृतास्ते महात्मानो बहिः खेदं गता अपि / तत्त्वतः खेदनिर्मुक्ता ज्ञेयाः क्षितिपुरन्दर ! // 398 // निदानमिदमाशय्य मया पूर्व निवेदितम् / अहं न खेदनिहतो भवन्तः खेदविह्वलाः // 399 / / तृष्णाविवर्धको रागो नाश्यो वैराग्यलङ्घनैः / कर्माजीर्णसमुत्थश्च प्रोक्तो भावज्वरो बुधैः // 400 // तेन संसारिणः सर्वे ज्वरग्रस्ता नराधिप ! / विद्यते रागगन्धोऽपि मुनीनां तु न कर्हिचित् // 401 // असातवेद्योदयतो जातु जातज्वरा अपि / तेन ते विश्वरा ज्ञेया ज्वरमूलप्रमाथिनः // 402 // ईर्ष्या भूप ! महाशूलं मुदितामुस्वभङ्गकृत् / विवेकहृदयोन्माथि दयाश्वासनिरोधकम् // 403 / / क्षमन्ते न परोल्लासमीर्ष्याशूलहता जनाः / तत् कुर्वन्ति परद्रोहाद् वक्त्रभङ्गं मुहुर्मुहुः / / 404|| तच्छूलं भवमूढानामस्ति न वतिनां पुनः / विनिवृत्ताः परद्रोहात् ते हि सर्वहितावहाः // 405 // एकाकाराः सदा भूप ! जन्तवो भववर्तिनः / अनन्तदुःखदौर्गत्यवलीपलितपूरिताः // 406 // मुखरन्ध्रगलल्लालाहालाहलमृषोदितैः / आशायष्टिमवष्टभ्य गच्छन्तोऽपि स्खलत्क्रमाः // 407 // गलत्सत्तर्करदना निष्ठीवन्तः पदे पदे / कर्मोदयकृतक्षोभलोभश्लेष्मनिपीडिताः // 408 // जराजर्जरिता दीना अनुकम्प्या महात्मनाम् / दीक्षाभोगोचितं प्राप्तं नैतैर्विज्ञानयौवनम् / / 409 // अविद्याजन्म तैमूढैर्जरसैवातिलचितम् / न विद्याजन्म ते प्राप्ता न मृता भावमृत्युना // 410 // मुनिभिस्तु महाराज ! लब्धं विद्याभिधं जनुः / प्राप्तं विवेकतारुण्यं बाल्यं नैवान्वभूयत // 411 // अप्राप्य तरुणाः सन्तो जरां संसारदीर्घताम् / तथैव ते मरिष्यन्ति नोत्पत्स्यन्ते यथा पुनः // 412 // ज्वरशूलजराग्रस्ता यूयं प्रोक्तास्ततो मया / ज्वरशूलजराहीनः स्वस्य चात्मा प्रकाशितः // 413 // कुर्वन्ति सदनुष्ठानं न बुधैः प्रेरिता अपि / वारिता अपि कुर्वन्ति पापानुष्ठानमादृताः // 414 // मूर्ध्नि मोहरजः क्षित्वा प्रलपन्ति यथा तथा / परिधानं त्रपां मुक्त्वा कामनृत्यं वितन्वते // 415 // गले वल्गन्ति पूतानां तृष्णाविट्रलिप्तपाणयः / प्रवदन्तु तथा धर्म यथा भोगान् लभामहे // 416 // इत्थं विचेष्टमाना हि सर्वे संसारवर्तिनः / सोन्मादा नायमुन्मादः साधूनां भूप ! विद्यते / / 417 // इदं कारणमाश्रित्य मया पूर्व निवेदितम् / सोन्मादा भो जना ! यूयं नाहमुन्मादबाधितः // 418 // कषायाख्यः सदा तापो घोरः संसारवर्तिनाम् / धृतिहन्ता च्युतशमस्वेदश्लेदभयङ्करः // 419 // दन्दान्ते हि ते तेन लिप्ताङ्गाश्चन्दनैरपि / साधवस्तु सदा शान्ता निस्तापास्तापसूदनाः // 420 // बाह्यस्तापोऽपि नो तेषां शमिनामुपतापकृत् / तत्तापपीडिता यूयं प्रोक्ता नाहं तु तादृशः // 421 // इदं पुत्र-कलत्रादि निर्मितं भिन्नकर्मभिः / कुटुम्बमेकवृक्षस्थपक्षिसङ्घातसन्निभम् // 422 // 1. "प!। मुनिनां तु न गन्धोऽपि रागस्य हृदि वर्तते // 4.1 // ' अत्र पाठभेदे ‘मुनीनां तु न' स्थाने 'महात्मनां न' इत्यप्यधिकं पाठान्तरं प्रन्थकृतव लिखितम् // 2. नेतेविवेकतारुण्य दीक्षाभोगोचितंतम 10