________________ 129 ग्लो० 337-395 ] वैराग्यरतिः / भूमीन्द्रः प्राह यद्यवं त्वया किमिति तत्कृतम् / इदानीमीदृशं रूपं पूर्वं बीभत्सदर्शनम् ? // 366 // स्वदेहवर्तिनो दोषा भवता केन हेतुना / प्रदर्शिताः कथं चाभूः क्षणाद् दिव्याकृतिः पुनः ! // 367 // मुनिराह महाराज ! मया पूर्व प्रदर्शितम् / बीभत्सरूपं जीवानां बोधाय भववर्तिनाम् // 368 / / सर्वेऽपि तादृशा जीवाः संसारोदरवर्तिनः / स्वस्वरूपं न जानन्ति तथापि हतबुद्धयः // 369 // अतस्तत्प्रतिबोधाय तादृग् रूपं मया कृतम् / मुनिवेषधरं यच्च कृतं तत्कारणं शृणु // 370|| मुनयो धूतपापा ये ते कृष्णास्तृट्क्षुधार्दिताः / कुष्ठिनोऽपि बहिर्जेयास्तत्वतो भूप ! सुन्दराः // 371 // ये तु सद्धर्मविमुखा गृहस्था भोगगृध्नवः / सुखिनोऽपि हि ते ज्ञेया दुःखिनो रोगपीडिताः // 372 // गृहिणां कृष्णवर्णाद्या दोषाः सन्ति यथाऽखिलाः / साधूनां च न सन्त्येते तदिदं कीर्तयामि ते // 373 // उत्तप्तस्वर्णवर्णोऽपि बहिर्बुद्धिधनैर्जनः / पातकध्वान्तलिप्तोऽन्तः कृष्णवों निगद्यते // 374 // बहिरञ्जनवर्णोऽपि स्वान्ते स्फटिकनिर्मलः / न कृष्णः प्रोच्यते प्राज्ञैर्गौर एवाऽभिधीयते // 375 // साधुस्तत्कृष्णवर्णोऽपि गौराङ्गो धर्मबद्धधीः / गृहस्थः स्वर्णवर्णोऽपि कृष्णः पापपरायणः // 376 / / इममर्थमभिप्रेत्य मयोक्तं शत्रुशातन ! / मूढा ! न कृष्णवर्णोऽहं यूयमेव तथाविधाः // 377 // सा बुभुक्षा न विषयैस्तृप्तियोऽधिगतैरपि / तया बुभुक्षिताः सर्वे भवचक्रनिवासिनः // 378 // ते हि यद्यपि दृश्यन्ते तृप्तिभाजो भृतोदराः / ज्ञेयास्तथाऽपि तुच्छाऽऽशा बुभुक्षाक्षामकुक्षयः // 379 // साधवस्तु सदा तृप्ताः प्रशमोद्गारमोदिताः / रिक्तोदरा अपि ज्ञेया मुक्ता भावबुभुक्षया // 380 // धृत्वा हेतुमिमं चित्ते बुभुक्षापीडिता मया / प्रोक्ताः सर्वे जना राजस्तृप्तश्चात्मा प्रदर्शितः // 381 // पिपासाऽनागतेष्विच्छा भोगेषु नरनायक ! / स्तम्भनी ज्ञानजिह्वायाः शमकण्ठस्य शोषणी // 382 // पिबन्तोऽप्युदकं स्वादु तया सर्वे पिपासिताः / जैनधर्मबहिर्भूता जना भवविवर्तिनः // 383 // मुनयो भाविभोगेषु निष्पिपासाः सदैव हि / तेनोक्तं निष्पिपासोऽहं यूयं सर्वे तृषाऽर्दिताः // 384 // कुष्ठं मिथ्यात्वमुर्वीश ! कुतर्ककृमिजन्मभूः / गलदास्तिक्य जम्बालमबालमतयो विदुः // 385 / / मार्गानुसारिणी बुद्धिं नासिकां नाशयत्यदः / कुरुते घर्घराव्यक्तघोषं जात्यादिमानतः // 386 // शम-संवेग-निवेद-कारुण्यानि च देहिनाम् / हस्त-पादसमान्येतच्छाटयत्यनिवारितम् // 387 / / जैनो धर्मो न यैः स्पृष्टो भावतस्ते हि जन्तवः / सर्वे मिथ्यात्वकुष्ठेन नष्टाङ्गास्तेन सर्वथा // 388 // दृश्यन्ते मन्मथाकारास्ते यद्यपि बहिर्दशा / क्षताङ्गाः कृमिजालेन तथापि परमार्थतः // 389 // कुष्ठमेतन्मुनीनां तु नास्ति सर्वाङ्गसुन्दराः / तेन ते कर्मदोषेण बहिः कुष्ठान्विता अपि // 39 // प्रोक्तं मयेदमालोच्य यूयं भोः कुष्ठिनो जनाः ! / सम्यक्त्वेन गरिष्ठात्मा नाहं कुष्ठी कदाचन // 391 // दुःवधूलिभृतो दी| विषमो दोषतस्करैः / करालविषयव्यालो विच्छिन्नप्रशमोदकः // 392 // ज्ञानच्छायोज्झितो व्याप्तः कामैः कण्टकिभिर्दुमैः / क्रोधभूधरभूभग्नपान्थपुण्यपराक्रमः // 393 // खेदहेतुर्जिनदृष्टो भवोऽध्वा भावचक्षुषा / वहन्त्यत्र सदा जीवा गृहीत्वा कर्मशम्बलम् // 394 // कदापि धर्मरहिता न कुर्वन्त्युत्प्रयाणकम् / तेन संसारिणो जीवा विज्ञेयाः खेदविहलाः // 395 //