________________ 128 महोपाध्यायश्रीयशोविजयगणिविरचिता [ पञ्चमः सर्गः आहादाय यथा चन्द्रो जीविताय यथाऽमृतम् / तथा लोके स्वभावेन परार्थः साधुसङ्गमः // 337 // तदेष वैक्रिय रूपं विधाय भगवानयम् / इहायातो महाभागो बन्धून् बोधयितुं मम // 338 // अयं सन्दिष्टवान् रत्नचूडद्वारा हि मे पुरा / भिन्नरूपोऽहमेष्यामि व्यक्तं वन्यस्त्वया च न // 339 // दुःखितान्वेषणं कार्य केवलं स्वार्थसिद्धये / इति संस्मृत्य विमलो मनसा तं नमोऽकरोत् // 340 // दत्तस्तेनापि मनसा धर्मलाभः सुखावहः / अन्तःशीतगृहं सोऽथ राजमृत्यैः प्रवेशितः // 341 // द्राकृत्य स निषण्णोऽथ भूतले खेदनिस्सहः / गलावलम्बितश्वासः प्रवृत्तः प्रचलायितुम् // 342 // हसन्ति तादृशं प्रेक्ष्य जनाः केचन तं ततः / शोचन्ति केऽपि निन्दन्ति केऽप्येवं ब्रवते मिथः // 343 / / दुःखी दीनस्तथा श्रान्तस्तृषितश्च बुभुक्षितः / स्थितोऽयमत्र किं वेति न किञ्चित् प्रचलायते // 344 // तदाकर्ण्य वचस्तेन क्रुद्धेन बुधसूरिणा / भाषितं भास्वरौ कृत्वा दीपवन्नेत्रगोलकौ // 345 // युष्मत्तोऽपि विरूपोऽहमाः पापा ! दुःखितोऽथवा / मां दुःखितं विरूपं च यद् दृष्ट्वा हसताधमाः ! // 346 // क्षुधितास्तृषिताः कृष्णाः कुष्ठिनः खेदविह्वलाः / ज्वरशूलजराग्रस्ताः सोन्मादास्तापपीडिताः // 347 // . यूयमेव परायत्ता विकलाक्षा ऋणार्दिताः / यूयं च प्रपलायध्वं नाहं भो बालिशा जनाः ! // 348 // यूयं प्रविष्टा निःशङ्क भोः पापाः ! कालगहरे / येऽधुना हसतवं मां मुनिमुद्रीक्ष्य दुर्बलम् // 349 // दृष्ट्वा तौ भास्कराकारौ ज्वलन्तावक्षिगोलको / विद्युदामां च रसनां श्रुत्वा च क्षोभिकां गिरम् / / 350 // हनूमत्कोपनिर्दधलङ्कादुर्गस्थरक्षसाम् ! अवस्थां ययुरास्थानस्थिताः प्रक्षुभिता नराः // 351 // बभापे धवलो राजा तदेदं विमलं प्रति / कुमार ! मर्त्यमात्रोऽयं नास्ति दुर्लक्षलक्षणः / / 352 // मलाविलं गलत्कान्ति प्रागभूदस्य लोचनम् / मूषोत्तप्तसुवर्णाभमधुना तु विजृम्भते // 353 // राहुग्रस्तेन्दुजातीयं दृष्टमस्य पुराऽऽननम् / देदीप्यतेऽधुना त्वेतत् तेजसा विश्वदाहिना // 354 / / भारती पुष्करावर्तगर्जितप्रतिपन्थिनीम् / रणधीरमपि स्वान्तं श्रुत्वाऽस्य मम कम्पते // 355 // तच्छन्नो मुनिवेषेण देवोऽयं कोऽपि लक्ष्यते / क्रुद्धं प्रसादयाम्येनं यथा भस्मौकरोति नः // 356 // जगाद विमलः सत्यं चारु तातेन निश्चितम् / भक्तिग्राह्यः प्रसाधोऽयं प्रणत्या विषमो भृशम् // 357 / / तच्छ्रुत्वा लोलकोटीरो विलसत्करकुड्मलः / प्रणनाम मुनि राजा समाजश्चाखिलस्ततः // 358 // जगौ भूपः सहस्वतज्जनानां बालचापलम् / कृत्वा प्रसादं प्रहस्य देहि मे दिव्यदर्शनम् // 359 / / इति विज्ञप्य तं राजा यावद् भूयः समीक्षते / तावत् स ददृशे दीप्तः साक्षादिव दिवाकरः // 360 // निविष्टः स्वर्णकमले विनिद्रकमलेक्षणः / आस्येनोल्लसता भासा पूर्णिमेन्दं विडम्बयन् // 361 // वीक्ष्य तं तादृशं सर्वे विस्मिताः सनृपा जनाः / परस्परमभाषन्त भृशमुत्फुल्ललोचनाः // 362 // निस्तेजाः प्रागभूदेष साम्प्रतं महसां निधिः / जगच्चमत्कारकरी दैवीयं कामरूपता // 363 // पप्रच्छाथ नृपो भालविन्यस्तकरकुइमलः / ब्राहि मे भगवन् ! कैस्त्वं ! देवो वा दानवोऽथवा // 36 // . मुनिः प्राह न देवोऽहं नापि पार्थिव ! दानवः / यतिरस्मि यतित्वं हि लिङ्गेनैवावगम्यते // 365 // 1. कृष्णाः क्षुधापिपासार्ताः // 2. कस्त्वं कि देवोऽस्युत दानवः // 36 //