________________ प्रलो. 279-336 ] वैराग्यरतिः। 127 वीज्यमानस्तालवृन्तैः सूक्ष्मकोमलवस्त्रभृत् / हारविभ्राजितश्चारुताम्बूलारुणिताधरः // 309 / / मोदितः काकलीगीतैः स्फीतैर्नृत्यैः कृतोत्सवैः / ललनाविभ्रमोद्वेलरतिसागरमध्यगः // 31 // प्रमोदमर्पयन् पित्रोर्बन्धून् सिञ्चन्निवामृतैः / नेत्रयोर्जनयन् सर्वलोकानां कौमुदीमुदम् // 311 / / नियुक्तपुरुषा दुःखदौर्गत्योपहतान् जनान् / प्रवेशयन्ति तत्रोच्चैस्तेषां दुःखं प्रणुद्यते // 312 / / इत्थं राज्ञि समाजे च स्थिते सम्मदमेदुरे / केचिनियुक्तपुरुषाः प्रविष्टाः शीतमन्दिरे // 313 // नैरं संस्थाप्य तैरेका दत्ता जवनिकाऽन्तरा / व्यजिज्ञपन् प्रणम्यैवं देवादेशवशंवदैः // 314 // विचरद्भिर्महादुःखी दृष्टोऽस्माभिरयं नरः / अत्राऽऽनीतोऽतिबीभत्स इति च स्थापितोऽन्तरे / / 315|| श्रुत्वेति धवलोवीशः प्राइ युष्माभिरीक्षितः / काऽयं कथं महादुःखी ? तेष्वेकः प्राह चारुगीः // 316 / / देवादेशाद् वयमितो गता दुःखिदिदृक्षवः / नगरं सततानन्दं दृष्ट्वा प्राप्ता महाटवीम् / / 317 // दूरात् तेत्र नरो दृष्टो मध्याह्नार्कार्चिषाऽग्निना / भूतले तप्तलोहाभे पादत्राणोजितो व्रजन् // 318 // दूरादुञ्चैरभिहितस्तिष्ठ भदेति तिष्ठत / यूयं स्थितोऽहमित्युक्त्वा गन्तुं प्रववृते च सः // 319 // आनौतस्तरमूलेऽसौ बलाद् गत्वा मया ततः / दवदग्ध इव स्थाणुर्दृष्टः सर्वैः कृशोऽसितः // 320 // क्षुधितस्तापवान् खिन्नः पिपासाशोषिताधरः / क्षरत्स्वेदो गलत्कुष्ठलुल कृमिकुलाकुलः // 321 // शूलभृन्मुखभनेन दीर्घश्वासाज्ज्वरार्दितः / भग्ननेत्रो जराजीर्णः शीर्णनासाकरक्रमः // 322 // चीवरैर्जीर्णमलिनैरलाबुयुगलेन च / कम्बलेन सदण्डेन युतो दारिद्रयभाजनम् // 323 // प्रत्यक्षनारको ज्ञातः सोऽस्माभिभूरिदुःखभः / उक्तश्च भद्र ! मध्याहे बम्भ्रमीषि किमीदृशम् ! // 324 // आश्रित्य शीतलच्छायां न तिष्ठसि सुखेन किम् / स प्राह गुरुनिर्देशाद् भ्रमामि स्ववशोऽस्मि न // 325 / / तदा चिन्तितमस्माभिरहो ! कष्टं महतरम् / इमां दशां गतस्याऽपि पराधीनत्वमस्य यत् // 326 // पुनः प्रोक्तं ततोऽस्माभिर्गुरुः किं ते करिष्यति / स प्राह ऋगिकाः सन्ति ममाष्टौ यमसन्निभाः // 327 // ग्रन्थदानेन तेभ्यो मां गुरुमें मोचयिष्यति / विचिन्तितं तदाऽस्माभिरिदं कष्टं महत्तमम् // 328 // यदीदृशदशस्यापि दानिग्रहकदर्थना / तन्मोचनदुराशा चेत्यतो दुःखी परोऽस्तु कः ? // 329 // तं प्रत्युक्तं ततोऽस्माभिरेहि राजकुलेऽनध ! / क्षणमोक्षो यथा ते स्याद् दारिद्रयं च विलीयते / / 330 // स प्राह भवतां भद्राः ! कृतं मच्चिन्तयाऽनया / कदापि नैव मुच्येऽहं मोचितो हि भवादृशैः // 331 // इत्युक्त्वा स द्रुतं गच्छन्नीतोऽस्माभिर्बलादिह / सोन्मादोऽयमिति ज्ञात्वा राजशासनकारिभिः // 332 // ततो बभाषे धवलक्षितीशो मेऽतिकौतुकम् / पश्याम्येनं जवनिका तरीकुरुत द्रुतम् // 333 // ततो जवनिकां ते द्रागपनिन्युनिरीक्ष्य तम् / यथोक्तरूपं नृपतिः ससमाजो विसिमिये // 334 // विमलस्तु सुधीर्दध्यौ बुधाचार्यः स एष हि / अहो भगवतो लन्धिः करुणाऽहो ! ममोपरि // 335 // अहो ! स्वसुखवैमुख्यमहो ! स्वार्थानपेक्षता / अहो ! सौजन्यनिष्ठत्वमहो / निर्व्याजबन्धुता // 336 // 1. वः / अवगाढप्रियालीलोद्वेलशृङ्गारसागरः // 310 // 2. संस्थाध्य तेऽथ पुरुषमेकं जवनिकान्तरे / नजि //