________________ 126 महोपाध्यायश्रीयशोविजयगणिविरचिता [ पञ्चमः सर्गः उक्तो हेममयो बन्धः पुण्यं पुण्यानुबन्ध्यपि / विद्याभृच्चक्रवर्तित्वमुक्तं मे चन्दनेन च // 279 // तन्मे का गतिरित्येवं भृशं भावयतस्तनौ / विद्याः प्रविष्टा राज्ये चाभिषिक्तोऽहं नृपवजैः // 28 // नवराज्योचितं कृत्यं कुर्वतो मे कियत्स्वपि / ततो दिनेष्वतीतेषु त्वदादेशो हृदि स्मृतः // 281 // चिन्तितं च मया सूरिन बुधाख्यो गवेषितः / न नीतो विमलाभ्यणं प्रमत्तत्वमहो ! मम // 282 // भ्रान्तो भूमण्डलं भूरि ततोऽहं तं गवेषयन् / दृष्टश्चकत्र नगरे त्वद्वार्ता च निवेदिता // 283 / / तेनोक्तं भद्र ! गच्छ त्वं वदेदं विमलाय च / पश्चादेष्याम्यहमयं हेतुस्तद्वन्धुबोधने / / 284 // प्रच्छन्नो रत्नचूडेन विमलायोदितस्ततः / बुधाचार्यस्य सन्देशः स तु नाऽऽकर्णितो मया // 285 / / रत्नचूडो जगावेवं विलम्बोऽभूद् ममाऽधुना / नाऽऽनीतो बुधसूरिश्च विमल: प्राह शोभनम् // 286 // ततः प्रविष्टाः सर्वेऽपि नगरे मोदपूरिताः / स्वस्थानं रत्नचूडोऽगात् स्थित्वा द्वित्रांश्च वासरान् // 287 / / विमलस्तत आरभ्य मुक्तेरासनभावतः / राज्यश्रियं नाद्रियते संस्करोति वपुश्च न // 288 // वन्धुरमामधर्मस्य न च गन्धमपीच्छति / कालं नयति सद्ध्यानाद् विरक्तो भवचारकात् // 289 // तं तथाविधमालोक्य पित्रोश्चिन्तोदपद्यत / यदयं यौवनस्थोऽपि विषयेषु न लीयते // 290 // तदेतदस्य चरितं लोकातीतं विजृम्भते / वर्तमानेऽत्र मुनिवद् राज्यं निष्फलमावयोः // 29 // विषयेषु कुमारोऽयं तत् प्रवर्तिष्यते कथम् / स्वयमभ्यर्थनीयोऽयं दाक्षिण्याद् मन्यते यथा // 292 // इति सिद्धान्तयित्वा तौ गतौ विमलसन्निधौ / ऊचतुश्च सुताऽसि त्वं राज्यधुर्धरणक्षमः // 293 // कृतार्ययसि तारुण्यं किं न तदारसङ्ग्रहैः / मुझे न विषयान् किं वा न वर्धयसि सन्ततिम् // 29 // व्यचिन्ति विमलेनेदं सूक्तमाभ्यां किलानयोः / उपायः प्रतिबोधस्य भविष्यत्ययमेव हि // 295|| ततो बभाषे विमलः प्रमाणं पितृगीमम / किन्त्वेष मदभिप्रायः पितृभ्यामवधार्यताम् // 396 // सुखं सम्पाद्य सर्वेषां हृत्वा दुःखं च दुःखिनाम् / सुन्दरं यत् स्वयं राज्यप्रभुत्वमनुभूयते // 297 / / निराकुलः सुखं भुङ्क्ते यस्तु लोकेषु दुःखिषु / प्रभुता तस्य का नाम ? स हि कुक्षिम्भरिर्मतः // 298 // दाहदीक्षागुरौ भीष्मे तद् ग्रीष्मसमयेऽधुना / कुर्वन् ताताऽम्बयोराज्ञां बन्धुवर्गेण संयुतः // 299 // समित्रः सदनारामे मनोनन्दननामके / करोम्यहं राजलीलां विलासरुचितोचितैः // 30 // नियुज्यतां च पुरुषा दुःखितानां गवेषकाः / समाय मया सार्धं तेषां शर्मानुभाव्यताम् // 301 // इमां पुत्रगिरं श्रुत्वा मुदितौ पितरौ हृदि / ऊचतुश्च त्वया वत्स ! साधूक्तं गुरुवत्सल ! // 302 // अथ शीतगृहं राजा स्फीतं सज्जमकारयत् / दलैरुपवनेऽब्जिन्याश्छन्नं धर्मदलैरिव // 303 // अभितः कदलीकृप्तशैत्यलीलोरुविभ्रमम् / वेष्टितं गृहनद्योधैीष्मपिण्डद्रवैरिव // 30 // लिसं चन्दन-कर्पूरक्षोदैमोदैरिवाऽऽद्वतैः / हृतधर्मयशोवल्लिमृणालोशीरराजितम् // 305 // कृतानि तत्र शिशिरैः शयनीयानि पल्लवैः / मृदूनि सुखदान्युचैः कल्पितान्यासनानि च // 3.6 // कुमारो विमलस्तत्र सह लोकैः प्रवेशितः / स्थितोऽसौ तत्र लिप्साङ्गः सरसैश्चन्दनद्रवैः // 307 // पाटलादामकलितो गुण्डितश्चन्द्ररेणुना / मुक्तादामाभिरामश्रीमल्लिकापुष्पराजितः // 308 / /