________________ 125 पलो० 235-278 ] वैराग्यरतिः। त्वं निघृणः कर्मचमूविनाशे न मोहबन्धुः परवत् कदापि / त्वद्भक्तमच्चित्तविनाशिभूरिभावारिघाते किमुपेक्षसे तत् // 256 // सिक्तोऽस्मि सद्दर्शनतस्त्वयाऽहं द्रुमो विवेकैरपि पुष्पितोऽस्मि / गुणाश्रयैः पल्लवितोऽस्मि रागैः कर्मक्षयात् तत् फलितं कुरुष्व // 257 / / नरेन्द्र-देवेन्द्रविभूतयो यास्तवाहिभक्तेरनुषङ्गलभ्याः / / न तासु लुब्धं मम चित्तमुच्चैर्मुख्ये फले धावति मोक्ष एव // 258 // कथं समर्थोऽपि कषायलुप्तं मां वीक्ष्य चित्ते करुणां न धत्से / अमी कषायाः स्फुटपौरुषस्य हुङ्कारमात्रेण तव म्रियन्ते / / 259 / / किं कृत्रिमोऽस्ति त्वयि मेऽनुरागो नाहं कृपायास्तव भाजनं यत् / निरीक्षितोऽहं कृपया त्वया तु पिबामि कुम्भोद्भववद्भवाब्धिम् // 26 // कायः प्रणामैकरतस्तवायं स्तोत्री गुणानां तव भारती मे / त्वय्येव लीनं हृदयं सदेति स्वकिङ्करे किं कुरुपे न तोषम् // 261 // माता पिता त्वं मम नायकश्चानौपाधिकस्त्वं जिन ! बान्धवो मे / 'फलं ततो भक्त्युचितं प्रदेहि किमालजालमम विप्रलापैः // 262 // इत्येवं विमलः स्तुत्वा जिनं यावद् महाशयः / पञ्चाङ्गप्रणति चक्रे ब्रह्माद्वैतानुभूतिभाक् // 263 // तावत् प्रादुरभूद् रत्नचूडः खेचरसंयुतः / स्तवनं वीतरागस्य कृतं साध्विति कीर्तयन् // 26 // धन्यस्त्वं कृतपुण्यस्त्वं भक्तिर्यस्येदृशी जिने / भवात् त्वं मुक्त एवासि निर्लेपः पद्मपत्रवत् // 265 // अभिनन्धेति विमलं वन्दित्वा भक्तितो जिनम् / निषण्णो विमलाभ्यणे विधिवच्छुद्धभूतले // 266 // विधायोचितकर्त्तव्यं निषण्णा चूतमञ्जरी / विद्याधरनरेन्द्राश्च निषण्णा नतमौलयः // 267|| अथ पृष्टसुखोदन्तौ संलापं तो प्रचक्रतुः / रत्नचूडो जगौ कालविलम्बो यदभूद् मम // 268 // बुधाचार्यश्च नानीतस्तत्राऽऽकर्णय कारणम् / इतो गतोऽहं वैताढ्ये दृष्टा माता शुचाऽदिता // 269 // पिता च मद्वियोगेन मया सन्धीरिताविमौ / गते दिने प्रमोदाऽऽढये शष्यायां निश्यहं स्थितः // 27 // ध्यायतः परमात्मानं क्षीणकर्मसमुच्चयम् / आगता द्रव्यतो निद्रा भावतो जागरस्य मे // 271 // उत्तिष्ठ कृतपुण्येति गिरं शृण्वन्नहं ततः / विबुद्धः पुरतोऽद्राक्षं देवता भास्वरत्विषः // 272 // ताः प्राहुः पूजनीयोऽसि जैने धर्मे स्थिरोऽसि यत् / रोहिण्याद्या वयं विधाः पुण्याऽऽकृष्टास्तवाऽऽगताः // 27 // सर्वाः पश्चनमस्कारमन्त्रमाहात्म्ययन्त्रिताः / प्रवेशं ते करिष्यामः शरीरे पुण्यपावने // 274 // भाव्यं चास्मत्प्रवेशेन भवता चक्रवर्त्तिना / इदं विद्याधरबलं द्वारि तिष्ठति मृत्यवत् // 275 // ततः प्रविश्य चक्रे तत्प्रणति तूर्यनिस्वनः / सह वैतालिकानां च प्रसृता मधुरा गिरः // 276 // तदाऽचिन्ति मया नूनमिदं धर्मस्य पाटवम् / अतर्कितोपनम्रा यद् विद्याः सिद्धा ममाऽखिलाः // 277 // हर्षस्थानं न चेदं मे यद् विघ्नोऽयमुपस्थितः / विमलेन समं दीक्षाग्रहणं न भविष्यति // 278 //