________________ 121 ग्लो० 118-175 ] वैराग्यरतिः। अधुना तु समासाद्य सन्मार्ग परितुष्यसि / तदसि श्रेयसां पात्रं नारोप्यो गरिमा मयि // 147 / / स्वयम्बुद्धेन भवता लोकान्तिकसुरोपमः / द्रष्टव्योऽहं जिनाभेन न तु धार्या गुरुत्वधीः / / 148 // विमलः प्राह मा वादीरिमां वाचं महाशय ! / लोकान्तिका जिनज्ञाने न हि यान्ति निमित्तताम् / / 149 // व्यापृतस्त्वं तु मत्कार्ये गतो व्यक्तं निमित्तताम् / युक्तस्ते विनयः कत्तुं गुरुत्वं पारमार्थिकः // 15 // रत्नचूडोऽवदत् पूज्यो गुणैस्त्वं घुसदामपि / त्वय्येव गुरुता युक्ता रत्नश्रीरिव रोहणे // 151 // विमलः प्राह सा ज्ञेया गुणवत्ता मनीषिणाम् / न पन्ते यया कत्तुं गुरूणां प्रेष्यतामपि // 152 // तेन दुष्प्रतिकारस्त्वं पूज्योऽसि मम धर्मदः / अन्यच्चेदं त्वया सार्धं पर्यालोध्यमिदं मया // 153 // भववासादहं भीतो मया पीतं शमामृतम् / ग्राह्या भागवती दीक्षा न स्थेयं गृहपञ्जरे // 154 // ज्ञातयः सन्ति ताताद्याः केवलं बहवो मम / तेषां चेत् प्रतिबोधः स्यात् तदाऽऽनृण्यं भवेन्मम // 155 / / रन्नचूडो जगौ सुरिर्बुधनामाऽस्ति भूरिधीः / यद्यागच्छेत् कश्चित् स ज्ञातींस्ते प्रतिबोधयेत् / / 156 // स चित्तज्ञोऽतिशयवानब्धिलब्धिवजस्य च / वाचामगोचरस्तस्य महिमा धूतपाप्मनः // 157 // विमलोऽवक् क दृष्टोऽसौ बुधाचार्यस्त्वयानध ? / रत्नचूडोऽवदत् क्रीडानन्दनेऽत्रैव सुन्दरे // 158 // आयातोऽहं गताष्टम्यामहद्दिम्बार्चनं चिकीः / दृष्टं च भवनद्वारि भूभागे मुनिमण्डलम् // 159 // तस्य मध्ये स्थितः कृष्णो दृष्टो बीभत्सदर्शनः / त्रिकोणशीर्षश्चिपिटवाणो वक्रशिरोधरः // 16 // लम्बोदरः कुरूपश्च करालदशनवजः / केवलं स्निग्धगम्भीरध्वनिना हृदयं हरन् / / 161 // प्रेक्य तं तादृशं ध्यातं मया नास्य महामुनेः / रूपं गुणोचितं चैत्ये प्रविष्टोऽहं ततो मुदा // 162 // विधाय विधिवत्पूजामथ चैत्याद् विनिर्गतः / आयातो वन्दितुं साधन स दृष्टः साधुमध्यगः // 163 / / तपस्वी स्वर्णपद्मस्थः सत्कार्तस्वरभास्वरः / कूर्मोन्नतपदो गूढशिरोजाल: सुलक्षणः / / 164|| दधत्करिकराकारमुरुजई झषोदरः / विशालवक्षा लम्बोरुभुजः करजिताम्बुजः / / 165 // विधुजैत्रमुखस्तुङ्गनाशावंशस्ततेक्षणः / प्रलम्बकर्णयुगल: कान्तिमहन्तपद्धतिः // 166 / / अष्टमीन्दुलसद्भाल'छत्राकारोत्तमाङ्गभृत् / अनन्योपमसौभाग्यभाग्यलावण्यभाजनम् // 167 // ध्वनिना प्रत्यभिज्ञाते तस्मिन्मेऽजनि विस्मयः / इदानीं कथमीदृक्षः स एवायं तपोनिधिः // 168 // अथवाऽत्र किमाश्चर्य ? चन्दनेनोदितं हि मे / लब्धिपात्राणि मुनयः कामरूपा भवन्ति हि // 169 / / जायन्ते तेऽणुवत्सूक्ष्मा गुरवोऽपि च शैलवत् / पूरयन्ति स्वदेहस्य विस्तारेणाऽखिलं जगत् // 17 // तूलवल्लघवोऽपि स्युः कुर्युर्देवांश्च किङ्करान् / घटाद् घटशतं कुर्युर्मजेयुश्च शिलातले // 171 // आकर्णयन्ति सर्वाङ्गैः स्पर्शाद रोगान् हरन्ति च / वायुवद् गगने यान्ति कापि नैव स्खलन्ति ते // 172 // अतोऽयं यः कुरूपः प्राग् दृष्टः सम्प्रति चेक्ष्यते / सुन्दराङ्गस्ततः पात्रं लब्धीनां परिभाव्यते // 173 // मया प्रदृष्टचित्तेन वन्दितो भगवांस्ततः / अन्ये च मुनयस्तैश्च दत्ताऽऽशीः पुरतः स्थितः // 17 // श्रुता पीयूषतुल्यागीवितोऽहं च तद्गुणैः / पृष्टं चैकस्य साधोः कः कुत्रत्यत्रैष सूरिराट् ? // 175 // 1. गश:स्थितिः / /