________________ प्रसी०५६-११७ ] वैराग्यरतिः। प्राप्तोऽहमिममुद्देशं दृष्टा प्रियतमा ततः / उल्ललास मनश्चिन्ता गता रोमाञ्चितं(ता) तनुः // 88 // माहात्म्यं मे सवृत्तान्तं कथितं चानया तव / रक्षितं जीवितं तन्मे रक्षता मत्प्रियां त्वया // 89 // तद्दीयतां ममादेशो विधायानुग्रहं मयि / येनायं कुरुते दासो यथाशक्ति प्रियं तव // 9 // विमलः प्राह हे धीर ! कृतज्ञजनशेखर ! / सम्भ्रमेणालमधिकं न मे त्वदर्शनात् प्रियम् // 91|| दर्शनादेव सुहृदामुद्गिरन्ति मुदं बुधाः / कुमुदा-ब्धि-चकोराणां किमन्यत् कुरुते विधुः // 92 // विमलोक्तमिति श्रुत्वा रत्नचूडो व्यचिन्तयत् / अर्थदेषु हि नार्थित्वं सत्सु कल्पद्रुमेष्विव // 93 // विना प्रत्युपकारं च नास्य मे चित्तनिर्वृतिः / धत्ते तापं रसं दातुं द्रुमेष्वात्तरसो रविः // 94 // रत्नं करतले तेन मत्वेति प्रकटीकृतम् / निर्मलं वर्णसङ्कीर्णं नीलाद्यप्रविभागतः // 95 // बद्धेन्द्रकार्मुकं दिक्षु प्रभाजालैः प्रसृत्वरैः / अखिलग्रहधामेव पिण्डितं सर्वकार्यकृत् // 96 // प्रदर्शयित्वा(?) तद् रत्नचूडोऽथ विमलं जगौ। कुमार ! सर्वरोगन्नमिदं दारिद्रयनाशनम् // 9 // दत्तं तुष्टेन देवेन मम चिन्तामणिप्रभम् / अनुग्रहं कुरु व्यक्तं तदस्य ग्रहणेन मे // 98 // विमलः प्राह पूतात्मन! न कार्योऽत्राग्रहस्त्वया / हन्यतां चेतसो दन्यं मुच्यतां मतिसम्भ्रमः // 19 // शोभतेऽदस्तवाभ्यणे केशवस्येव कौस्तुभः / अतः सङ्गोप्यतां सम्यग् भावतो दत्तमेव ते / / 100 // तदोक्तं चूतमञ्जर्या तृष्णाहीनोऽपि नार्हसि / कर्तुमस्यार्थनाभङ्गं मयूरस्येव वारिदः // 101 // यावत् किमुत्तरामीति धत्तेऽथ विमलो हृदि / तावद् वस्त्राञ्चले बद्धं रत्नचूडेन तस्य तत् // 102 // शुशुभे तच्च तादृक्षं प्राचीगर्भस्थभानुवत् / बहिः प्रसृत्वरज्योतिः प्रच्छन्नमपि भास्वरम् // 103 / / तन्मनस्तरलं नाभूद् रत्नं लब्ध्वाऽपि तादृशम् / शशाङ्करत्नमासाद्य व्योम क्षुभ्यति नाब्धिवत् // 104 // दृष्ट्वाऽथ हर्षनिर्मुक्तं विमलं विगतस्पृहम् / तद्गुणैर्भावितश्चित्ते रत्नचूडो व्यचिन्तयत् // 105 // अहो ! माहात्म्यमस्योचैरहो ! निःस्पृहताऽतुला / स्यादीदृशे मनोरल्ने रत्नैरन्यैः किमस्य वा ? // 106 // सखायमस्य पृच्छामि तत् कत्योऽयं कुमारकः ? / किमस्य नाम गोत्रं च ? किमुद्दिश्येह चाऽऽगतः ? // 107 // पृष्टोऽहं रत्नचूडेन धृत्वैकान्तेऽखिलं ततः / " मयोक्तं धवलस्यायं वर्धमानपुरेशितुः // 108 / / भूपतेर्विमलः पुत्रः क्रीडानन्दनमुच्चकैः / सुरम्यं जनवादेन श्रुत्वा द्रष्टुमिहागतः // 109 // शुश्राव युवयोः शब्दं मित्रेणाऽत्र मया युतः / भूभागमागतेनाग्रे दृष्टा च पदपद्धतिः // 110 // तया नृमिथुनं ज्ञातं युवां दृष्टौ लतागृहे / अवदानं तवाप्यस्य ततो व्यक्तमनन्तरम् // 111 // आह्वादकोऽयं बन्धूनां रुच्योऽयं सर्वदेहिनाम् / स्पृहणीयोऽपि शमिनां श्लाध्यश्च विदुषामपि // 112 // नानेन प्रतिपन्नं च किंचनाद्यापि दर्शनम् / तच्छ्रुत्वा रत्नचूडेन चिन्तितं शुद्धचेतसा // 113 // प्रदर्शयामि भगवद्विम्बमस्य मनोहरम् / कृतः प्रत्युपकारः स्यादित्थमस्य मयोचितः // 114 // अथासौ विमलं प्रोचे कुमारेह पि(मा)तामहः / मणिप्रभो ममायातस्तस्येदं रुचितं वनम् // 115 // समागमकृते विद्याभूतामिह पुनः पुनः / बिम्बं युगादिनाथस्य कृत्वा चैत्यं प्रतिष्ठितम् // 116 // प्रणामार्थमतस्तस्य बहुशोऽहमिहागतः / तद् द्रष्टुमर्हति भवान् ममाऽनुग्रह कृत् ततः // 117 //