________________ 198 महोपाध्यायश्रीयशोविजयगणिविरचिता महोपाध्यायश्रीयशाव [पञ्चमः सर्गः तत्राऽभूदरिवक्त्राब्जचन्द्रो भूपो मणिप्रमः / तस्य देवी च केनकशिखा सद्गुणशालिनी // 58 // तस्याः पुत्रोऽभवद् भूरिभाग्यभृद् रत्नशेखरः / पुत्र्यौ पुण्यान्विते रत्नशिखा-मणिशिखे तथा // 59 / / तत्र रत्नशिखा दत्ता मेघनादस्य भूभुजः / सितप्रभस्य च मणिशिखा लावण्यदीर्घिका // 60 // जातो रत्नशिखा-मेघनादयोरहमङ्गमः / रत्नचूड इतीदं मे नाम रम्यं प्रतिष्ठितम् // 61 // जातावुभौ मणिशिखा-सितप्रभसुतौ पुनः / अचलश्चपलश्चेति रसिकान्ताह्वया तथा // 62 / / रत्नशेखरभार्याऽभूत् तत्पुत्री चूतमञ्जरी / चक्रुः सर्वाण्यपि क्रीडां बाल्येऽमूनि सहाद्भुताम् // 63 / / कुमारभावं प्राप्तानि गृहीताः सकला: कलाः / इतश्च चन्दनो नाम प्रसिद्धः सिद्धपुत्रकः // 64 // बालमित्रं दधद् रत्नशेखरस्याऽस्ति कौशलम् / जैनागमे निमित्ते च ज्योतिषे मन्त्रलक्षणे // 65 // जैनधर्मरतः सङ्गात् सस्याऽभूद् रत्नशेखरः / धर्म सोऽपि पितुर्मेऽद्राद् भगिन्योर्मह्यमेव च // 66 // इतश्च चन्दनेनाऽहं निर्दिष्टः प्रेक्ष्य लक्षणम् / यदयं दारको बिद्याचक्रवर्ती भविष्यति // 67 // ततः साधर्मिकोऽयं सल्लक्षणश्चेति मातुल: / ममेमां प्रददौ चूतमनरी रत्नशेखरः // 68 // ततो नितान्तमचल चपलौ कुपितौ मयि / न शक्नुतोऽभिभवितुं छिद्राणि मम पश्यतः // 6 // .. मया तस्य बलं ज्ञातुं प्रयुक्तो मुखरश्वरः / आगत्याऽऽहं स लब्धाऽऽभ्यां काली विद्या कुतश्चम / / 70 // गतौ तत्साधनार्थं तो कुत्रचित् विधितत्परौ / मयोक्तं तौ यदाऽऽयातो वक्तव्यं भवता सदा // 71 // तेनाऽद्य प्रातरुक्तं तौ सिद्धविधौ समागतौ / दुष्टथीमन्त्रयन्नेवमचलश्चपलं जगौ // 72 // योद्धव्यं रत्नचूडेन साई सत्ववता मया / भवता हरणीया च तरसा रत्न(धूत)मञ्जरी // 73 // श्रुत्वेदं च मया ध्यातं निराकार्याविमौ मया / सविद्यौ न पुनर्मातुःष्वसुः पुत्रौ वधोचितौ / / 74 // दुःशीलश्चपलश्चायं गृहीत्वा चूतमञ्जरीम् / विनाशयेद् यदि तदा ध्रुवं स्याल्लाघवं मम // 7 // न चान्योऽस्ति सहायो यस्त्रायते चूतमञ्जरीम् / ततोऽपक्रमणं श्रेय इति निर्गत्य मन्दिरात् / / 76 // क्रीडानन्दनमायातो गृहीत्वा चूतमञ्जरीम् / मयेदं बहुशो दृष्टं तल्लीनोऽत्र लतागृहे / / 17 / / तावदेवानुमार्गेण तावायातो दुराशयो / अचलेनाहमाहूतः स च युद्धे मया जितः / / 78 // स मयोत्तेजितो वाक्यैः खरैर्नष्टोऽनुगच्छता / वलित्वा सम्मुखं लग्नो योद्धं बद्धो मया बलात् // 79 // आस्फोटितस्ततः प्राप चूर्णिताङ्गः कदर्थनाम् / गलितं पौरुषं दैन्यं जातं विद्या ययुर्लयम् // 8 // मया ध्यातं तथा जातं यथा न पुनरेत्यसौ / हतं मुष्टया परं व्योम कण्डिताश्च तुषा मया // 81 // अस्याहं पृष्ठतो लग्नो यत् त्यक्त्वा चूतमञ्जरीम् / मरिष्यति भियैवैषा चपलो वा हनिष्यति // 82 // यद् वा हृत्वैव तां बालां गतो दुष्टः स कुत्रचित् / ततोऽधुना क यातीति विचिन्त्य वलितो द्रुतम् // 83 // दृष्टः सम्मुखमागच्छंश्चपलश्चिन्तितं मया / आगतः किमयं किं सा न दृष्ठा चूतमञ्जरी // 84 // किं वा रतममिच्छन्ती रुषाऽनेन निपातिता ? / जोवस्यां स्वबशायां वा तस्यां मास्याऽऽगतिर्भवेत् // 85 / / यावच्च चिन्तयाम्येवं चपलस्तावदागतः / लग्नं युद्धं मया सोऽपि बवैवाऽऽस्फोटितो भुवि // 86 // ततः किं सा मृता किं वा नष्टा लीनाऽथवा क्वचित् / किं वाऽन्यवशतां प्राप्त्यनेककुविकल्पभाग-॥४७॥