________________ प्रलो० 1452-1492] वैराग्यरतिः। गाढपार्णिप्रहारैर्मी निघ्नन्तो रासकुण्डके / निन्युश्चक्रिसभां रासं ददानास्ते त्रितालकम् / / 1481 // विशिष्य नाटयामासुर्बुवकोच्चारपूर्वकम् / पादेषु पातयन्तो मां सर्वेषां तत्र ते मुहुः // 1482 // जातं प्रहसनं भूरि प्राप्तुं योग्योऽयमीदृशीम् / दशामिति प्रवृत्तश्च जनवादः पदे पदे // 1483 // ततोऽहं नाटितो बाढं प्रणमन्नन्त्यजानपि / उन्मादादवशो जातस्तपनेन च भूभुजा // 1484 // राज्ये मे स्थापितो भ्राता कनिष्ठः कुलभूषणः / गाढपार्णिप्रहारश्चापतद् रक्तं ममोदरे // 1485 // जीर्णकभववेद्याऽथ गुटिकाऽन्या ममाऽर्पिता / भवितव्यतया नीतः सप्तमं नरकं ततः // 1486 // त्रयस्त्रिंशत्सागरायुस्रोटितौ वज्रकण्टकैः / सोढदुःखस्ततो नीतः पञ्चाक्षपशुपत्तने // 1487 / / सप्तापि पाटकानेवं भ्रामितो व्यवहारतः / नरके विकलैकाक्षनृगतिष्वप्यनन्तशः // 1488 // सर्वस्थानेषु हीनाऽभूजाति, निन्दितं कुलम् / अलाभमूर्खतादौःस्थ्यसन्तापैश्च कदर्थितः / / 1489 // अन्यदा भवचक्रेऽहं भवितव्यतया कृतः / मनुष्यो मध्यमगुणस्तुष्टा चेयं ममोपरि // 1490 // आविर्भाव्य पुनः पुण्योदयमित्रमियं जगी / गच्छाऽऽर्यपुत्र युक्तस्त्वं वर्धमानपुरेऽमुना // 1491 // परिविगलितां दृष्ट्वा प्राच्या गुटी भववासिकामियमथ ददावन्यां धन्याशयास्य तपस्विनः / असुखजलधि तीर्खा यस्याः स्फुटादनुभावतः, कुशलकलितामेष प्रौढां यश:श्रियमाप्स्यति // 1492 // // इति वैराग्यरतौ चतुर्थः सर्गः / /