________________ लो० 1345-1392 ] वैराग्वरतिः। तथापि वस्तुमिच्छामि कतिचिद् वासरानिह / जैने पुरे धियो वृद्धयै वासोऽयं मे भविष्यति // 1375|| प्रपन्ने मातुले वाक्यमिदं तौ मुदितौ स्थितौ / तत्र मासद्वयं यावद् वसन्तो लकृितस्तदा // 1376 // इतश्च मानवावासे भीष्मो ग्रीष्म उपस्थितः / तृषितो यः सरोवृन्दं निपीयापि न तृप्यति // 1377 // असितगगनलोष्टुकोष्ठमध्ये स्वरपवनेन तपतुलोहकारः / स्फुटवनकुसुमश्रमोदबिन्दुस्तिमिररिपुं धमतीव लोहगोलम् // 1378 // शिशिरकिसलयप्रणीतशय्याकरपरिवीजिततालवृन्तराजिः / कथमपि जनता तपर्तुतापं लघयति हर्म्यतले स्थितिं विधाय // 1379 // विदलितसितमल्लिकावितानविकसितपाटलपाटलासमूहैः / वनमसित(ते)तरैः शिरीषपुष्पैर्बहुरुचितां विवृणोत्यहो ! तदानीम् // 1380 / / कथयति हिततां जलाशयानां सुभगयतीन्दुरुचिं तमोऽनुविद्धाम् / प्रकटयति तृषां तपर्तुधूत्र्तो विफलितशीतलवारिपानलीलाम् // 1381 // परिकलितपटीरसङ्गरङ्गश्च्युतततकञ्चुकतुल्यपुष्पराजिः / . इह तपसमयः सलूतवातैस्तरुगहनेषु फणीव फूत्करोति / / 1382 // अतुहिनमहसः प्रतापतुष्टा किमु न विवृद्धिमगात् तदा दिनश्रीः / गलितवसनतां च पत्रशाटैः सुभगसमागमसोन्मदा वनश्रीः / / 1383 // एवंविधे ग्रीष्मकाले प्रकर्ष मातुलोऽब्रवीत् / गमनं साम्प्रतं वत्स ! गृहे साम्प्रतमावयोः // 1384 / / प्रकर्षः प्राह न ग्रीष्मे गमनावसरोऽधुना / कालोऽयं दहनोऽत्रैव तिष्ठ मासद्वयं ततः // 1385 // वचनं भागिनेयस्य स्थितः स्वीकृत्य मातुलः / घनाडम्बरिणी प्रावृडायाता तिष्ठतोस्तयोः // 1386 // गर्जन्तः शिखिसम्मदध्वनिभरैः सम्पातिशम्पाङ्कुशा, वेगापातिमिथोमिलधनघटासङ्घघण्टारवाः / मूलोन्मूलितमानिनीजनमनोमानद्रुमश्रेणयो, वाताः शीकरिणः स्फुरन्ति परितः च्योतन्मदा वारणाः // 1387 // चक्षुर्विक्षिपति क्षणं यदि तदा नृत्यकलापीक्षणाद् न प्राप्नोति वने घृति विरहिणी नेत्रे पिधत्ते ततः / तन्नादैश्चकिता श्रुती स्थगयति घ्राणं लतासौरमैमूर्छामृच्छति संवरीतुमसहा झञ्झानिलस्पर्शनम् // 1388 // आक्रन्दन् घनगर्जितेन नितमां धूमायितो दुर्दिनैर्विधुत्पित्तनिबद्धकण्ठकुहरे मूर्च्छन्नभःकर्दमे / अम्भोवाहनिशाचरः परिमिलसन्ध्याभ्ररागच्छलात् , पीतं लोहितमुद्रमत्यतिबहु प्रेयोवियोगस्पृशाम् // 1389 / / प्रोद्यत्प्रौढकदम्बधूलिपटलं चश्चबलाकाध्वजं, प्रच्छन्नेन्दुरवि प्रनर्तिततडित्कुन्तोच्चयं सर्वतः / आबद्धस्फुटगर्जितोरुपटहध्वानं निहन्तुं जगत् , प्रावृट्कालमिषात् तनोति मदनः प्रस्थानलीलोत्सवम् // 1390 // मत्तेव प्रमदा नदी रसभृता च्योतन्महानिर्झरास्तन्यन्ते च कटप्रभेदसुभगाः शैला द्विपेन्द्रा इव / भास्वत्कान्तिभिरिन्द्रगोपपटलैः क्लुप्ताङ्गरागेव भूयॊमात्रैश्च घनागमेन किमहो कस्तूरिकापकिलम् // 1391 // तादृशीं प्रावृषं वीक्ष्य प्रकर्षो मातुलं जगौ / गम्यतामधुना तातसन्निधौ मातुल ! द्रुतम् // 1392 / / . 1. स्फुटगिरिकु // 2. उन्मत्ता इव योषितो रखमृता नवः सनिझरा / /