________________ 104 महोपाध्यायश्रीयशोषिजयगणिविरचिता [चतुर्थः सर्गः दृष्टान्तो निश्चयस्थानं सिद्धान्तोऽर्थः प्रतिष्ठितः / आनुमानिकवाक्यस्य देशानवयवान् जगुः // 1170 // . तर्को व्याप्यसमारोपे व्यापकस्य प्रसञ्जनम् / अवधारणरूपं च ज्ञानं निर्णय उच्यते // 1171 // बुभुत्सया कथा वादो जल्पश्च विजिगीषया / स्वपक्षस्थापनाहीना वितण्डा परिकीर्तिता // 1172 // हेत्वाभासा असिद्धाद्याश्छलमाकूतदूषणम् / असद्भूतोत्तरं जातिः सा चोत्कर्षसमादिका // 1173 // पराजयस्य हेतुश्च निग्रहस्थानमिष्यते / नैयायिकपदार्थानां समासोऽयं प्रकीर्तितः / / 1174 / / द्वव्यं गुणस्तथा कर्म सामान्यं च विशेषयुक् / समवायश्च षड् भावा वैशेषिकनये स्मृताः // 1175 // भूरापोऽग्निर्मरुद्व्योम कालो दिगसुमान्मनः / नव द्रव्याण्यमून्याहुगुणा रूपं रसस्तथा // 1176 // गन्धः स्पर्शश्च संख्या च परिमाणं पृथक्त्वयुग् / संयोगश्च विभागश्च परत्वं चापरत्वयुग् // 1177 // संस्कार-धर्मा-धर्मेच्छा-सुख-यत्नाक-बुद्धयः / द्वेषो गुरुत्व-द्रवत्वे स्नेहः शब्दश्चतुर्प्रषट् // 1178 // .. उत्क्षेपणं तथाऽवक्षेपणमाकुञ्चनं तथा / प्रसारणं च गमनं पञ्च कर्माण्यकीर्तयन् // 1179 // सामान्य द्विविधं प्रोक्तं परमेकं तथाऽपरम् / द्रव्यत्वाद्यपरं व्याप्यं सत्तादि व्यापकं परम् // 1180 // .. विशेषोऽन्यः स्मृतो नित्यद्रव्यव्यावृत्तिकारणम् / सम्बन्धोऽयुतसिद्धानां समवायः प्रकीर्तितः / / 1181 // द्वे प्रमाणे मते ह्यस्य प्रत्यक्षं लैङ्गिकं तथा / वैशेषिकमतस्यायं समासार्थः प्रकाशितः // 1182 // सांख्याः प्राहुः शिवं गच्छेत् पञ्चविंशतितत्त्ववित् / सत्त्वं रजस्तमश्चेति गुणास्तत्र त्रयः स्मृताः // 1183 // . प्रसाद लाघवा-द्वेषा-सङ्ग-प्रसव-सम्मदाः / सत्त्वकार्याणि सन्ताप-स्तम्भोद्वेगा विशोषणम् // 1184 // अपद्वेषश्च भेदश्च कर्माणि रजसो जगुः / तमःकार्याणि रौद्रत्वं सादनं दैन्यगौरवे / / 1185 // प्रकृतिः समतावस्था प्रोक्तैतेषां ततो महान् / तां गुणाष्टकसम्पन्नां बुद्धिमप्यभ्यकीर्तयन् // 1186 // अहंकारो भवत्यस्मात् स्वप्ने व्याघ्रादिभानकृत् / एकादशेन्द्रियाण्यस्मान्मनोधीकर्मभेदतः // 1187 / / त्वग्-जिह्वा-घाण-दृक्-श्रोत्राण्याहुर्बुद्धीन्द्रियाणि वै / वाक्याणिपायूपस्थांहीन् पञ्च कर्मेन्द्रियाणि च // 1188 / / स्युस्तन्मात्राणि पञ्चैव तत एव तमोघनात् / स्पर्शो रसश्च रूपं च गन्धः शब्दस्तथा तनुः // 1189 // तेभ्यश्च पश्च भूतानि प्रपञ्चः प्राकृतो ह्ययम् / चतुर्विशति तत्त्वात्मा पुमानन्यो निरञ्जनः / / 1190 // भोगार्थ प्रकृतेः पुंसां योगं पङ्ग्वन्धयोरिव / विनोपमानं त्रीण्येव प्रमाणानि च ते जगुः // 1191 // साङ्ख्यदर्शनसंक्षेपः प्रोक्तोऽयमथ वर्ण्यते / बौद्धानां दर्शनं प्रोचुादशायतनान्यमी // 1192 // पञ्चेद्रियाणि शब्दाद्याः पञ्च स्वान्तं सुखादयः / धर्माश्चेति प्रमाणे द्वे प्रत्यक्षं लैङ्गिक तथा // 1193 // वैभाषिक-सौत्रान्तिक-योगाचाराश्च माध्यमिकनामा / बौद्धाश्चतुर्विधाः स्युः प्राहुर्वैभाषिकास्तत्र / / 1194 // क्षणिकं हि वस्तु जातिर्जनयति तत्स्थापिका स्थितिर्भवति / जर्जरयति च जरा तन्नाशो नाशयति पुद्गलकम् // 1195 // सौत्रान्तिकैर्न चाऽऽमाऽभिमताः परलोकगामिनः स्कन्धाः / विज्ञानरूपसंज्ञाः संस्कारो वेदना चेति // 1196 // क्षणिकः संसारगणः स्वलक्षणं पारमार्थिक तेषाम् / शब्दार्थोऽन्यापोहो मोक्षः सन्तानविच्छेदः // 1197|| योगाचारमते खलु भुवनं विज्ञानविलसितं सर्वम् / बाह्योऽर्थः सांवृतिकः प्रकाशते वासनाजालात् // 1198 //