________________ ग्लो० 1111-1169 ] वैराग्यरतिः। एकमत्र पुरं तावन्नैयायिकमितीरितम् / नैयायिकाश्च गीयन्ते ते जना येऽत्र संस्थिताः // 1141 / / अन्यद् वैशेषिकं नाम पुरमत्राभिधीयते / जना वैशेषिकास्तेऽमी येऽस्य मध्ये व्यवस्थिताः // 1142 // तथा परं बुधैः सख्यं पुरमत्र प्रकाशितम् / ये चैतदघितिष्ठन्ति लोकास्ते सांख्यसंज्ञकाः // 1143 // इहापरं पुनबौद्धं पुरं सङ्गीयते बुधैः / प्रसिद्धा बौद्धसंज्ञास्ते जना मध्येऽस्य ये स्थिताः // 1144 // मीमांसकाभिधं चान्यत् पुरं प्राज्ञैः प्रदर्शितम् / मीमांसकाश्च गीयन्ते लोकास्ते येऽत्र संस्थिताः / / 1145 // लोकायतमिति प्रोक्तं पुरमत्रापरं बुधैः / ये वास्तव्या इह ख्याता बार्हस्पत्याश्च ते जनाः // 1146 // तदेतेषु पुरेपूच्चैर्ये लोकाः परिदर्शिताः / ते मिथ्यादर्शनस्याज्ञां पालयन्ति विशेषतः // 1147 // विमर्शः प्राह षड् यानि श्रूयन्ते लोकवार्त्तया / दर्शनानि किमेतानि तान्युक्तानि त्वया मम // 1148 // विमर्शः प्राह तान्येव पञ्च मीमांसकं विना / पुराण्येतानि षट्स्वेतन्नेष्टं मीमांसकं पुरम् // 1149 // जैम(मि)निर्वेदरक्षार्थं दोषजातोदिधीर्षया / चकार येन मीमांसां दृष्ट्वा तौर्थिकविप्लवम् // 1150 // तस्मादेतानि पञ्चैव पुरं मीमांसकं विना / लोकैर्दर्शनसंख्यायां गण्यन्ते नात्र संशयः / / 1151 // प्रकर्षः प्राह ययेवं ततः पष्ठं क वर्त्तते / विमर्शः प्राह यदिदं विवेकाद्रौ निरीक्ष्यते // 1152 // अप्रमत्तत्वशिखरं तुझं तत्र निवेशितम् / पुरं यद् विततं षष्ठं तज्जैनमभिधीयते // 1153 // अत्र स्थितानां लोकानां न मिथ्यादर्शनाभिधः / बाधकः स्यात् प्रकृत्यैव महामोहमहत्तमः / / 1154 // प्रकर्षः प्राह बाध्यन्ते यदनेन स्थिता अधः / शिखरस्था न बाध्यन्ते को हेतुस्तत्र मातुल ! // 1155 // विमर्शः प्राह पुर्यस्ति महामोहादिभूभुजाम् / मुक्तिर्मुक्तेरतिक्रान्ता निर्द्वन्द्वानन्दशालिनी // 1156 // सर्वेऽपि गन्तुमिच्छन्ति तामधःपुरवासिनः / मुक्त्वा लोकायतं स्वैः स्वैर्मियो मार्गविरोधिभिः / / 1157|| न मुक्तेः प्रापका युक्ताः पन्थानस्ते च कल्पिताः / विवेकशिखरस्थैस्तु दृष्टः पन्थास्तदाप्तिकृत् / / 1158 // त्यक्तमार्गाः कुमार्ग च संश्रितास्तदधः स्थिताः / मिथ्यादर्शनलुप्ताशा गिरिस्थास्तु महाधियः // 1159|| प्रकर्षः प्राह येडमीभिः पन्थानः परिकल्पिताः प्रत्येकं तानहं श्रोतुमिच्छाम्युत्पन्नकौतुकः // 1160 // विमर्शः प्राह ययेवं समाधाय ततो मनः / शृणु मार्गान् मया वत्स ! वक्ष्यमाणान् परिस्फुटम् // 1161 // तत्त्वज्ञानाद् भवेद् मुक्तिरिति सर्वैर्विनिश्चितम् / तानि नैयायिकानां च प्रमाणादीनि षोडश // 1162 // प्रमायाः करणं तत्र प्रमाणं तच्चतुर्विधम् / प्रत्यक्षमनुमानं चोपमानं शब्द एव च // 1163 // ज्ञानं प्रत्यक्षमक्षार्थयोगजं व्यभिचारि न / तत्पूर्वं त्रिविधं प्राहुरनुमानं विशारदाः / / 1164 // पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा / हेतोः कार्यस्य कार्याच्च हेतोस्तच्च तदन्यतः // 1165 / / मेघोन्नतेभविष्यन्ती यद् वृष्टिरनुमीयते / विशिष्टपूरात् सा जाताऽन्यदिक्प्राप्तर्गती रवौ // 1166 // उपमानं स्मृतं संज्ञासंज्ञिसम्बन्धसङ्गतिः / आप्तोपदेशः शब्दश्च मानमेतच्चतुर्विधम् // 1167 // आत्मा-झा-उक्षा-र्थ-धी-चित्त-प्रवृत्तिो(दो)ष एव च / प्रेत्यभावः फलं दुःखं प्रमेयं मुक्तिरेव च // 1168 // संशयः कीर्तितं ज्ञानं विरुद्धोभयकोटिकम् / येन प्रयुक्तः पुरुषश्चेष्टते तत् प्रयोजनम् // 1169 / / .. 1. °ऽमीभिर्मुकिमार्गाः प्रकल्पिताः / // 2. आत्मदेहेन्द्रियस्वान्तधीदोषार्थप्रवृत्तयः / प्रेत्य //