________________ महोपाध्यायश्रीयशोषिजयमणिविरचिता [चतुर्थः सर्गः संहृता नृ-पशु-पक्षिगणेभ्यस्तामसी दिनकृतोदयभाजा / एकतामुपगतो खल निद्रा कौशिकालिनयनेषु निलीना // 995 / / यद्गृहेऽन्धतमसाभिधचौरः स्थास्यतीह स भविष्यति दण्ड्यः / डिण्डिमध्वनिरभूदिति भानोश्चारुकाकुकृकवाकुकुटुम्बात् // 996 // गाढगात्रपरिरम्भविजृम्भत्सम्मदोदलितरात्रिवियोगम् / चक्रवाकयुवसङ्गमुदब्जं पश्यति स्म न सरोऽपि दृशा किम् // 997 / / इत्थं सूर्योदये जाते विमर्शः प्राह वत्स ! ते / भवचक्रदिदृक्षायां महदस्ति कुतूहलम् // 998 // न शक्यतेऽतिविस्तीर्णं तदेकैकाश्रयेक्षणात् / द्रष्टुं कात्स्न्येन तेनाऽयं चारुरारुह्यतां नगः // 999 // महाप्रभावो विस्तीर्णो विवेकाख्योऽतिनिर्मलः / भवचक्रस्थितिः सर्वा समारूढैरिहेक्ष्यते // 1000 // यच्च न ज्ञायते पृष्ट्वा तदुत्कण्ठा प्रपूर्यताम् / एवमस्त्विति तेनोक्ते समारूढावुभौ नगे // 1001 // प्रकर्षः प्राह सकलं भवचक्रमिहेक्ष्यते / दीनो देवकुले नग्नः कः पुनर्मातुलास्त्ययम् // 1002 // . ... नंष्टुकामो दिगालोकी क्षुत्क्षामो वेष्टितो नरैः / विमर्शः प्राह पुत्रोऽयं कुबेरस्य श्रियां निधेः // 1003 // कपोतो गौणनाम्नाऽभूद् मुख्यनाम्ना धनेश्वरः / द्यूतव्यसनिनाऽनेन पितृवित्तं विनाशितम् // 1004 // निष्ठापिते धने स्वीये चौर्य द्यूताय सोऽकरोत् / कदर्थितश्च तत्कारी राज्ञा किन्तु न नाशितः // 1005 // अखिलं हारितं रात्रौ कर्पटादिकमद्य च / कृतो व्यसनलुप्तेन मस्तकेन पणस्ततः // 1006 // एतैश्च कितवैधूर्तेः शिरोऽप्यस्य जिघृक्षुभिः / जितोऽयं नाट्यते ह्येवं नंष्टुं शक्नोति न क्वचित् // 1007 // : प्रकर्षः प्राह किं ज्ञाता नानेन द्यूतविक्रिया ? / द्यूतं हि धनकक्षाग्निर्मृत्योर्मित्रं गुणाऽऽमयः // 1008 // विमर्शः प्राह किं कुर्याद् ? महामोहवशो ह्ययम् / द्यूते रसात् प्रवर्तन्ते तद्वशा हि नराधमाः // 1009 / / उल्लापो भवति व्यक्तो यावदेवं तयोर्द्वयोः / मस्तकं कितवैस्तावत् त्रोटितं तस्य वृन्तवत् // 1010 // तद् दृष्ट्वाऽमन्यत द्यूतं महानर्थविधायकम् / प्रकर्षोऽथ वने तस्य दृग् नीलाञ्जनिभाऽपतत् // 1011 // कृत्वा तत्सम्मुग्वं हस्तं ततः स प्राह मातुलम् / क एष तुरगारूढः प्रधावत्यनुजम्बुकम् / / 1012 // उद्गीर्णास्त्रः स्वयं दुःखी दुःखदश्चान्यदेहिनाम् / मध्याहेऽपि क्षुधा क्षामः पिपासाशोषिताननः / / 1013 // विमर्शः प्राह ललिते पुरेऽयं ललनो नृपः / मृगयानिरतोऽरण्ये तिष्ठत्येव दिवानिशम् // 1014 // मन्त्रिभिर्वार्यमाणोऽपि मित्रैश्च न निवर्त्तते / राज्यकार्येषु सीदत्सु चिन्तितं राज्यचिन्तकैः // 1015 / / हंसस्थाने यथा काको नासौ राज्ये तथोचितः / ततो बहिरकार्पस्तं पुत्रं राज्ये निधाय ते // 1016 // तिष्ठत्येष तथाऽप्येको वनेऽसौ मृगयारतः / मांसलुब्धो न दुःखं स्वं जानाति विषकीटवत् / / 1017 // परतः प्राप्तमपि यो मांसं खादति सोऽधमः / हत्वा भक्षयतस्तच्च स्वयं जीवान् किमुच्यताम् // 1018 // भुञ्जानो मांसमशुचि बीभत्सं कृमिसङ्कुलम् / राक्षसश्वशगालादेविशिष्येत कथं नरः // 1019 / / विमर्शेऽदो वदत्येव प्रधावन्ननुजम्बुकम् / अधोमुखो महागर्ते पतितो ललनो मृतः / / 1020 // - 1. ‘ता च निमीला कौ // 2. विजृम्भन्मर्दनोद //