________________ प्रलो० 942-994 ] वैराग्यरतिः। इतो दुष्यति दुर्गन्धाच्छपे तुभ्यं शिरो मम / तदस्या दूरतः स्थित्वा पश्यावो यद् भवेदिह // 971 // प्रकर्षोऽपि जगौ युक्तमुक्तं मातुल ! मे त्वया / ममाऽप्यशुचिगन्धेन महार्त्तिरिह जायते // 972 // अपसृत्य ततो दूरे स्थितौ तौ रमणो युवा / आगतोऽत्रान्तरे पश्चात् सभयो मकरध्वजः // 973 // दृष्ट्वाऽथ कुन्दकलिकां ममज्ज रमणोऽमृते / असौ मदनमञ्जर्या संज्ञिता चकमे च तम् / / 974 // आकर्णाऽऽकृष्टबाणस्तं जधान मकरध्वजः / अभ्यन्तरे प्रविश्याऽथ तस्याः स प्रददौ धनम् // 975 // तद् गृहीत्वा समीपस्था जगौ मदनमञ्जरी / वत्स ! त्वया कृतं सम्यग् वत्सा त्वयि समुत्सुका // 976 // इहाऽऽनिगमिषुः किन्तु चण्डाऽऽख्योऽस्ति नृपात्मजः / तत् तावत् तिष्ठ लोनस्त्वं पश्चाद् भोगांश्च भोदयसे // 977 // रमणोऽभूदिति श्रुत्वा भयाधिष्ठितविग्रहः / चण्डोऽथाभ्यागतो द्वारे भूयान् कोलाहलोऽजनि // 978 // चण्डस्तूर्णं प्रविष्टोऽथ रमणं च ददर्श सः / असिपुत्र्या च तं हन्तुं क्रोधाध्मातः प्रचक्रमे // 979 / / भयक्लीबोऽथ रमणो मुखक्षिप्तदशाङ्गुलिः / न मारितो' दयालेशाच्छिन्ना तेनास्य नासिका // 980 // लुप्तौ कौँ चक्षुरेकं कष्टं विदलितो दन्ताः / दत्तः पार्णिप्रहारोऽथ हसितं गणिकाद्वयम् / / 981 // कृतस्ताभ्यां हृतस्वान्तश्चण्डः पेशलभाषितैः / राजलोकैर्हतो निर्यन् मुक्तश्च रमणोऽसुभिः // 982 // दध्यौ प्रकर्षः कामस्य भयस्य च विचेष्टितम् / कुट्टन्याश्वातिगहनं साक्षात् प्रेक्षणकोपमम् // 983 // विमर्शः प्राह येऽप्यन्ये भवन्ति गणिकारताः / तेषामीदृशमेव स्यान्नाटकं विस्मयावहम् // 984 // वेश्यामि तसर्वस्वा भवन्ति कुलदूषणाः / न च मूढा विरज्यन्ते शोच्यामपि गता दशाम् // 985 / / सपिण्य इव विश्वास्या नान्या अपि हि योषितः / दृगविषाहिसमानासु वेश्यासु प्रश्न एव कः ? // 986 / / कुष्ठिनोऽपि हि पश्यन्ति स्मराभान् धनदायिनः / निर्लाक्षालक्तकप्रायान् वेश्या मुञ्चन्ति निर्धनान् // 987|| प्रकर्षेणोदितं सत्यमेतद् नास्त्यत्र संशयः / ततो निर्वाहितस्ताभ्यां रात्रिशेषः क्वचिद् गृहे // 988 / / आलिलिङ्ग रजनीविरहा? द्यां ससम्भ्रममथाम्बुजपाणिः / तद्वशेन निपपात मणीनां हारयष्टिरिव तारकराजी // 989 / / वासवस्य निधिनाऽजनि भासां गर्भिणीव परिपाण्डुमुखी दिग् / ध्वान्तशान्तिशुचिदोहदपूर्तेरुच्छ्वसत्तनुरनूनविनोदा // 990 / / ध्वान्तधूलिरखिलाऽपि निरस्ता शोधिता भगणकर्करवीथी / अंशककमरसैः स्नपितं खं भास्करेण नववासरराज्ये // 991 // यद्भिया दिवमगात् पितुरङ्क द्राग् विहाय परिशङ्कय तमिन्दुः / ज्वालजालजटिलं वडवाग्निं भानुमुत्थितमयाच्चरमाशाम् // 992 // आगते न पिदधे किमु पत्यौ द्यौस्त्यजन्त्युपपतिं हिमभासम् / औषसारुणिमकुङ्कुमलेपे तारकामिषनखत्रणपङ्क्तिम् // 993 // किं पुनः स्पृशसि यः परकूले मामपश्रियमपोह्य गतोऽसि / साञ्जनाश्रुततिमित्यभि भानु पमिनी मधुकरैः किरति स्म // 994 // 1. 'तो परं क्रोधाच्छिन्ना // 2. ता रदाः / द॥ 3. गतोऽभूः / सा //