________________ महोपाध्यायश्रीवशोषिजयगणिविरचिता (सबुधः सर्गः प्रकर्षः प्राह येन स्याद्धनं मातुल ! निश्चलम् / शुभावहविपाकं च हेतुस्तत्राऽस्ति नैब वा ? // 942 // .. विमर्शः प्राह वत्सेदृग् नासम्भवि धनं भुवि / विरलानां तु तद्वेतुसंयोगः स्याद् महात्मनाम् / / 943 // पुण्यं पुण्यानुबन्ध्येव निश्चलं कुरुते धनम् / वृद्धिं नयति च स्तोकाः परं तत्कर्तुमीशते // 944 // गुरु-देवादिशुश्रूषा वैराग्यं प्राणिनां दया / पुण्यं पुण्यानुबन्ध्येतच्छीलवृत्तिश्च निर्मला // 945 // सन्ताप-शान्तिरन्येषां विश्वानुग्रह एव च / दमनं च स्वचित्तस्य पुण्यं पुण्यानुबन्ध्यदः // 946 // प्राच्ये वाऽस्मिन् भवे प्राप्तं पुण्यं पुण्यानुबन्धि यैः / गुणराशिनिबढेव तेभ्यः श्रीर्याति न कचित् / / 947 / / ते हि तत्र धने मूर्छा न कुर्वन्ति महाशयाः / क्षेत्रेषु योनयन्त्युच्चैः स्वयं च परिभुञ्जते // 948 // एवं च श्रीविकीर्णाऽपि नैर्मल्यायैव जायते / जहाति न स्वपाच च विधोरिव महाप्रभा // 949 // कीर्णा कपुरधारा श्रीः कपिकच्छू ता हृदि / दानभोगावतः कार्यो मूगिर्वा न धीमता // 950 // लक्ष्मीर्दासीकृता नित्यं स्वामीयत्येव देहिनाम् / दासीयति विपर्यस्तस्वभावा स्वामिनी कृता // 951 // वर्जनीयः प्रयत्नेन चौर्यगन्धोऽपि जानता / अस्य वाणिजकस्येव महानर्थोऽन्यथा भवेत् // 952 // .. विमर्शेऽदो वदत्येव युवा कश्चिद् वणिक्पथे / दुर्बलो मलिनः क्षामोऽवतीर्णो जीर्णवस्त्रभृत् // 953 // आपणे निहितग्रन्थिदृष्टस्ताभ्यां स लोलधीः / गृहीता मोदकास्तेन रूपकैश्चित्तमोदकाः // 954 // स्रजः पर्णानि गन्धांश्च क्रीत्वा वस्त्रयुगं तथा / गत्वोपवापि भुक्त्वा च भोजनं तृप्तिमाप सः // 955 // ततस्ताम्बूलमास्वाद्य धृत्वा पुष्पस्रजं हृदि / सौरभाड्यः स्फुरवस्त्रः प्रस्थितो नृपलीलया // 956 // पुनः पुनः स्फुरत्कान्ति प्रेक्षते मुकुरे मुखम् / मोदते गन्धमाघ्राय गर्वेण नरिनर्ति च // 957 // प्रकर्षों विस्मितः प्रोचे युवाऽसौ को नु ? मातुल ! / क प्रस्थितः किमुद्दिश्य ? किं विकारैश्च भज्यते ! // 958 // विमर्शः प्राह गणिकाव्यसनी रमणो ह्ययम् / सामुद्रदत्तिरत्रैव वास्तव्यः पत्तने युवा // 959 / / अनेनाऽल्पैर्दिनरेवं शोषितं पापबुद्धिना / धनं समुद्रदत्तस्य ग्रीष्मार्केण सरो यथा // 960 // जातोऽयमधुनेदृक्षो निर्धनः परकर्मकृत् / परकर्मकरत्वेन कतिचित् प्राप रूपकान् // 961 // नाटितो व्यसनेनाऽथ कुरुते यत् तदीयते / अस्ति ह्यत्र पुरे ख्याता वेश्या मदनमञ्जरी // 962 // तस्याश्च कुन्दकलिका पुत्री लावण्यवाहिनी / तस्यामासक्तचित्तेन धनमेतेन नाशितम् // 963 // गेहानिस्सारितश्चायं धनहीनस्तया रयात् / प्रस्थितोऽद्य गृहं तस्याः किश्चित् प्राप्य धनं ततः // 964 // अत्रान्तरे प्रकर्षेण दृष्टः सानुचरो नरः / सतूणीरः शराकृष्टिधृष्टः पृष्टश्च मातुलः // 965 // कोऽयं ? माम निहन्त्येनं स प्राह मकरध्वजः / चर्यया निर्गतो रात्रौ भयेनाऽयं समन्वितः // 966 // रमणोऽयमनेनैव प्रेरितो याति तद्गृहे / अतः परं च यद् भावि तन्निभालय कौतुकम् // 967 / / एवमस्त्विति तेनोक्ते गतौ तौ गणिकागृहे / दृष्टा च कुन्दकलिका वेश्मद्वारे विभूषिता // 968 // वालिता कन्धरा नासा विमर्शेनाथ कुश्चिता / प्रकर्षः प्राह हेतुस्ते को व्यलीकस्य मातुल ! // 969 // स प्राह पुष्पवसनालङ्कारपिहितामिमाम् / नवश्रोतश्रु(ख)तां विष्ठाकोष्ठिकां किं न पश्यसि ? // 970 // 1. सतूणीरः समाकृष्टशरः पृष्ट //