________________ श्लो० 900-941 ] वैराग्यरतिः। पार्वतीप्रणतशङ्करचूलानिर्गलस्सुरनदीजलरम्याः / धौतविश्ववलयाः प्रसरन्तो रेजिरे तुहिनरश्मिमयूखाः // 914 // इत्थं चन्द्रोदये जाते जनानन्दविधायिनि / दृष्टो निजापणद्वारे ताभ्यां कश्चिन्महेश्वरः // 915|| युतो नैकैर्वणिक्पुत्रैर्निविष्टस्तुगविष्टरे / मणिभिः पद्मरागाद्यैः प्रहृष्यन्निहितैः पुरः // 916 // राजतैः काञ्चनैः स्तोमैरुद्भर्वहृदयो भृशम् / अलङ्कारैश्च वस्त्रैश्च विचित्रैश्चित्रमाप्नुवन् // 917 // प्रकर्षः प्राह लक्ष्मीवान् मातुलाऽयं किमीदृशः / तिरश्चीनापतदृष्टिः सरलं नेक्षते जनम् // 918 // नाकर्णयति किं वाक्यं दत्ते किं नोचितोत्तरम् ? / प्राञ्जलीनपि सन्नम्रान् मन्यते तृणवत् कथम् // 919 // रत्नादीनि मुहुः पश्यन् किं निजाङ्गानि खादति ? / किं स्वलीलामनुस्मृत्य निमीलयति लोचने ? // 920 // विमर्शः प्राह भद्रेह शृणु हेतुं समाहितः / अस्ति मिथ्याभिमानस्य धनगर्वाभिधः सुहृत् // 921 // तेन हृत्वाऽऽत्मसाम्राज्यं वराकोऽयमधिष्ठितः / जानाति धन्यमात्मानं कृत्रिमैः कनकादिभिः // 922 // परस्वत्वकृतोन्माथस्तत्स्वरूपं न पश्यति / श्रद्धत्ते न हितं मागं नालोचयति चाऽऽयतिम् // 923 // अपूर्णोऽप्यनुकम्प्योऽपि पूर्णतां स्वस्य वेत्ति यत् / जगदुन्माथि तदिदं धनगर्वस्य चेष्टितम् // 924 // र्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता / पूर्णानन्दसुधास्निग्धा दृष्टिरेषा मनीषिणाम् // 925 // अतात्विकी विकल्पैः स्यात् पूर्णताऽब्वेरिवोर्मिभिः / पूर्णानन्दस्तु भगवांस्तिमितोदधिसन्निभः / / 926 // अपूर्णः पूर्णतामेति पूर्यमाणस्तु हीयते / पूर्णानन्दस्वभावोऽयं जगदद्भुतदायकः // 927 // वदत्येवं विमर्शेऽथ भुजङ्गस्तत्र कश्चन / राजकीयं धनं हत्वा कान्दिशीकः समागतः // 928 // भुजङ्गं प्रत्यभिज्ञाय स वाणिजभुजङ्गमः / किश्चिद् मूल्यं प्रदायास्य तद् जग्राहाखिलं धनम् // 929 // प्रणष्टोऽथ भुजङ्गोऽसावागतं नृपतेर्बलम् / कुतश्चिद् विक्रयोदन्तं श्रुत्वा तत्रातिभीषणम् // 930 / / सलोप्नं वणिज बवा निन्युभूपभटास्ततः / लुण्टितं भवनं तस्य विलुप्ता रत्नराशयः // 931 // किङ्कराश्च वणिक्पुत्रा बान्धवाश्च पलायिताः / इंसे श्येनेन साक्रन्दं गृहीत इव पक्षिणः // 932 // ततो विगतसर्वस्वो बन्धुभिः परिवर्जितः / रासभारोपितः कण्ठबद्धलोनोऽतिविहलः // 933 // नीयमानो नृपजनैर्निन्धमानः पृथग्जनैः / विद्राणवदनो दृष्टः स ताभ्यां वाणिजस्तदा // 934 // प्रकर्षो विस्मितः प्राह मातुलेदं किमद्भुतम् ? / किं स्वप्नोऽयं ? भ्रमः किं वा ? माया वा काऽपि मोहनी ? // 935 // यदस्य दृश्यते लीला न सा तद् न च गौरवम् / न तद्धाम न गर्वोऽसौ दृग्विलासा न तेऽधुना // 936 // विमर्शः प्राह सत्योऽसौ वृत्तान्तो नात्र विभ्रमः / " अत एव महाप्राज्ञा धनगवं न कुर्वते " // 937 // सन्ध्याभ्ररागवल्लोके धनं हि क्षणनश्वरम् / विस्तारिमारुतधुतध्वजाञ्चलचलाचलम् // 938 // अस्य वाणिजकस्येव धनं गर्वोष्मदूषितम् / ज्वलदुल्मुकसङ्काशं महानाय जायते // 939 // अर्जितं क्लेशकोटीभिस्तथाऽऽयुरिव पालितम् / नश्यद्धनं क्षणेनैव नेदयते खरशृङ्गवत् // 940 // अलीकधनगāण विह्वलीभूतचेतसा / इहामुत्र च दुःखौघमानं कत्तुं न शक्यते // 941 //