________________ प्रलो० 84-899 ] वैराग्यरतिः। "प्रतिष्ठां वेत्ति विष्ठावच्छमाग्नेर्भस्मसम्पदम् / जागर्ति ज्ञानवानन्तर्बहिः शेते तु सर्वदा" // 872 // शत्रुमिथ्याभिमानोऽयं यैः क्षिप्तः पार्श्वयोर्द्वयोः / ते धन्यास्ते महात्मानस्ते च मध्यस्थदेहिनः / / 873 // जितमिथ्याभिमानानामखण्डज्ञानसम्पदाम् / साधूनां नोपमा लोके सदेव-मनुजा-सुरे // 874 // यावच प्रवदत्येवं विमर्शः प्रथमानधीः / आगतौ भूपभवनद्वारे तावदुभौ नरौ // 875 // प्रकर्षः प्राह दृश्येते नरौ मातुल ! काविमौ ? / स प्राह मतिमोहश्च शोक'चेह समागतौ // 876 // पूत्कारोऽत्रान्तरे प्रौढः प्रवृद्धः सूतिकागृहे / दासचेट्यो गता राजाभिमुखं शोकनिर्भराः // 877 // कातरोऽभूत् किमित्येतद् ? भूपः पृच्छन् पुनः पुनः / ताः प्राहुः कण्ठलग्नासुर्बालोऽभूद् भग्नलोचनः // 878 // गतोऽथ सूतिकागेहे दाखवजाहतो नृपः / दृष्टश्च दारकः किञ्जिच्छेषायुष्कः सुलक्षणः // 879|| समाहूता महावैद्याः पृष्टं च किमभूदिदम् ? / ते प्राहुरयमातङ्कः सद्योघाती महाबलः // 880 // नृपः प्राह स्वशक्त्या यः प्रोजीवयति दारकम् / तस्मै राज्यं प्रयच्छामि स्यां तस्यानुचरोऽप्यहम् // 881 // तदाकर्ण्य जनाश्चक्रुर्मन्त्रयन्त्रादिकाः क्रियाः / पश्यतामेव तेषां च पञ्चत्वं प्राप दारकः / / 882 // शोकश्च मतिमोहश्च राज-राज्ञीशरीरयोः / अत्रान्तरे प्रविष्टौ तौ वेतालौ कामरूपिणौ // 883 // ताभ्यां हाहारवश्चक्रे करुणाक्रन्दभैरवः / राज्ञी निपतिता भूमौ राजा प्राणैरमुच्यत // 884 // ततो भूमिलुलत्केशं दलितोरुविभूषणम् / वियोगसर्पनिर्मोकलालाक्लिन्नास्यकोटरम् / / 885 / / उरस्ताडनसम्मिश्रं निर्भग्नवलयावलि / बृहदाक्रन्दनं जातं रिपुकम्पनयोषिताम् // 886 // सर्वतः करुणाध्वानपरं पश्यन् जनं ततः / विस्मयप्रेरितो बुद्धेस्तनयो मातुलं जगौ // 887 // किमेतत् ? क्षणमात्रेण हित्वा प्राचीननर्त्तनम् / नर्तनान्तरमारब्धं लोकैभङ्गयन्तरादिदम् // 888 // विमर्शः प्राह यौ दृष्टौ प्रविशन्तौ नरौ त्वया / ताभ्यामित्थं विनाट्यन्ते लोकाः स्वातन्त्र्यवर्जिताः // 889 // यथा मिथ्याभिमानेन तादृशं नाटिताः पुरा / तथैतादृशमेताभ्यां नाट्यन्तेऽमी तपस्विनः / / 890|| शोको वा मतिमोहो वा तेषामेवं न बाधकः / पश्यन्ति ज्ञानदृष्ट्या ये समग्रं क्षणभङ्गुरम् // 891 // मिथ्याज्ञानवतां शोकः स्यान्नष्टैरिष्टसङ्गमैः / तत्त्वज्ञानं तु वैराग्यशत्रमुत्तेजितं भवेत् / / 892 // आदावेव हि निर्णीतेऽनित्यभावे व शोचनम् ? / नित्यभावे तु निर्गीते ध्रुवः शोको यदुच्यते / / 893 // अनित्यताकृतबुद्धिानमाल्यो न शोचति / नित्यताकृतबुद्धिस्तु भग्नभाण्डोऽपि शोचति // 894 // गाढप्रेमवशादेष मतिमोहान्मृतो नृपः / प्रलापं कारयत्येवं शोकस्तु करुणं जनैः // 895|| प्रकर्षः प्राह किं भूपगेहेऽस्मिन्नेव मातुल ! / इदमीदृशमापन्नं किं वाऽन्यत्रापि जायते ! // 896 // विमर्शः प्राह नैतादृग् भवचक्रेऽतिदुर्लभम् / भावै कैर्मृतं ह्येतत् परस्परविरोधिभिः / / 897 // अम्बरभ्रमणजश्रमतप्तो ध्वान्तपङ्कहरणाशुचिगात्रः / स्नातुमिच्छुरिव तिग्ममरीचिर्वारिधेरथ जगाम समीपम् / / 898 // एकतामुपगता बभुरुचैराकुलाश्च निलयाश्रयणाय / स्वीयचारविषयाद् विनिवृत्ता भास्करस्य च जनस्य च गावः // 899 //