________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ चतुर्थः सर्गः ततः पुरे वसन्तोऽत्र समायातो विलासवान् / अन्वागतश्च मन्त्र्यादीन् विज्ञप्य मकरध्वजः // 786 // महामोहेन तद्राज्ये स्थापितो मकरध्वजः / दत्ताश्चान्येऽपि भूपालास्तस्य निर्देशवर्तिनः // 787 / / महत्त्वं स्वयमप्यस्य विदधे रागकेसरी / प्रतिपन्नं स्थितिर्हि सा तथा नु प्रमुखैरपि // 788 // महामोहवदेवैनं सेवन्ते तन्महाभटाः / लोलाक्षो मानवावासे योऽप्ययं बाह्यभूपतिः // 789 // सोऽपि वीर्येण निर्जित्याऽनेन निःसारितो बहिः / न च तज्जितमात्मानं मायामूढः स मन्यते // 790 // भूयांसो येऽप्यमी लोकाश्चेष्टन्तेऽनेन निर्जिताः / नात्मानं तेऽपि जानन्ति तादृशं पातिताश्छले // 791 // ततो व्यतिकरादस्मान्मकरध्वजधामतः / एवं लोका विचेष्टन्ते वसन्तोन्मानसादराः // 792 // प्रकर्षः प्राह कुत्राऽसौ वर्त्तते मकरध्वजः ? / विमर्शः प्राह नन्वेष सन्निधौ नाटयत्यमून् // 793 // प्रकर्षेण ततः प्रोक्तं कुतोऽसौ नोपलभ्यते ? / विमर्शः प्राह दृश्यन्ते नान्तराश्चर्मचक्षुषा // 794 // यदि तदर्शनाकाङ्क्षा बाघते तव मानसम् / गृहाण विमलालोकं तद् मदीयं दृगञ्जनम् // 795 // दीयतां तदिति व्यक्तं वदतोऽस्य दृशोर्युगम् / अञ्जितं तेन विमलालोकेनामलतेजसा // 796 // / ' करामलकवत् तेन दृष्टस्तस्य प्रभावतः / हृदयेषु मनुष्याणां ससैन्यो मकरध्वजः // 797 // एष सिंहासनस्थोऽपि विध्यत्येतान् शिलीमुखैः / जनान् तान् क्रन्दतो दृष्ट्वा करतालं ददात्यसौ // 798 // सुहतं सुहतं देव ! त्वयेति स्फुटभाषिणः / उल्लासं वर्धयन्त्यस्य किङ्कराः पुरतः स्थिताः // 799 // दृष्ट्वा प्राह प्रकर्षोऽथ राज्यं तद् माकरध्वजम् / दृश्यन्तेऽत्र सपत्नीका महामोहादयो भटाः // 800 // दृश्यन्ते नारति-द्वेष-गजेन्द्राद्याः कथं पुनः ? / विमर्शः प्राह तेऽप्यत्र सन्त्येव हि तिरोहिताः // 801 // अपेक्षन्ते परं सेवाऽवसरं निभृताशयाः / राज्येऽस्य यावदाभाव्यं प्रगल्भन्ते महाभटाः // 802 // लोलाक्षो यज्जितोऽनेन मन्यतेऽस्यैव बन्धुताम् / महामोहाधिकारोऽयं दृष्यन्त्येते जनास्तु यत् / / 803 // वल्गन्ति च तदाभाव्यं रागकेसस्भूिपतेः / लुभ्यन्ति यच्च विषयाभिलाषस्येदमूर्जितम् // 804 // हासस्येवाधिकारोऽयं दीर्घहासैर्हसन्ति यत् / अभ्यूह्यश्चैवमन्येषां व्यापारो नियतः पृथक् / / 805|| भुञ्जते यत् पुनर्भोगान् चुम्बन्त्येते प्रियाननम् / कुचोपपीडं वनितामालिङ्गन्ति प्रमोदतः / / 806 / / तज्जातीयेषु कार्येषु भूपतिर्मकरध्वजः / स्वयं व्याप्रियतेऽन्यस्य नियोगं न ददाति च // 807 // तदेवमत्र विद्यन्तेऽरतिद्वेषादयोऽप्यहो ! / स्वनियोगानवसरान्नाविर्भावं तु बिभ्रति / / 808 // प्रकर्षः प्राह हृवृत्तौ तत् किं शून्यः स मण्डपः ? / विमर्शः प्राह नह्येवं यदमी कामरूपिणः // 809 // एतैः पूर्ण तदास्थानं तदत्राभ्यागतैरपि / आकल्पस्थायि तद्राज्यमिदमित्वरकालिकम् // 810 // चिरन्तनस्थितेरेवाऽभिषिच्य मकरध्वजम् / राज्ये भृत्यं महामोहस्तिष्ठत्यग्रेऽस्य भृत्यवत् // 811 // अत्रस्थैरपि मोहाद्यैरशून्यो मोहमण्डपः / रवेद्यों द्योतयन्त्येव स्पृशन्तोऽपि भुवं कराः // 812 // अत्रान्तरे स लोलाक्षः प्रविष्टश्चण्डिकागृहे / सम्पूज्य तां सुरां पातुमुपविष्टः पुरः स्थले // 813 // बद्धमापानकं तत्र भाजनेषु धृताः सुराः / अर्पिताः स्वर्णचषकाः पीयते मंधमुद्यतैः // 814 // 1. मद्यमुद्धतैः //