________________ सो० 748-785 ] वैराग्यरतिः। कान्तारदेशाः कुसुमोच्चयेच्छुकान्तापदालक्तकरक्तभासः / सङ्क्रान्तमन्तःकुसुमेषु रागं बहिर्नयन्तीव बलादमीति // 762 // निरीक्ष्य दोलासु विलोलनेत्रा विस्तारिहाराः परिवृत्तिभाजः / / स्मरोऽपि भूयो लयघूर्णमानभोगीन्द्रभृच्छम्भुधिया बिभेति // 763 // सुवासितं सन्मणिभाजनस्थं जना घनाम्भोरुहसौरभेण / प्रियाधरास्वादसुधानवधं पिबन्ति हृधाम्रवनेषु मद्यम् // 764 // गायन्ति गीतानि हसन्ति मत्ताश्चुम्बन्ति कान्तावदनाम्बुजानि / वदन्ति गुह्यानि सहस्ततालमापानके के न सुरामदेन ? // 765 // चित्तादिवाकृष्य सुरामदेन नेत्रेषु रागो निहितः प्रियाणाम् / चकास्ति विस्तारितदीप्तिरुच्चैरम्भोधिमध्योद्धृतरत्नबन्धुः / / 766 // विपूर्णमानानि मुखानि मद्यान्मृगेक्षणानामधुनाऽरुणानि / नवार्ककान्तिच्छुरितोर्मिनृत्यत्सराजलक्ष्मी प्रविडम्बयन्ति // 767 / / वदत्येव विमर्शेऽदो मधुमासदिदृक्षया / नगरान्निगतो राजा पौरराजकसेवितः // 768 // स विमर्श-प्रकर्षाभ्यां दृष्टोऽब्धिरिव फेनवान् / सितातपत्रस्फीतश्रीर्वश्रीव विबुधाश्रितः 769 // उद्यानमथ सम्प्राप्तो रेजे राजकमध्यगः / शङ्खषु दक्षिणावर्त इव विस्तृतदीधितिः // 770 // मृदङ्गाः प्रहतास्तूर्णं वादिता वेणवस्तदा / ययौ तालारवो वृद्धि प्रवृत्ता जनकेलयः // 771 // केचिन्नत्यन्ति वल्गन्ति केऽपि धावन्ति किश्चन / केचित्कलकलायन्ते हसन्न्यपि च केचन // 772 // केचिद् गायन्ति गीतानि केऽप्युःकृष्टीवितन्वते / शङ्गैः सिञ्चन्ति सौवर्णैः केऽपि कश्मीरजद्रवैः // 773 // विलासमीदृशं प्रेक्ष्य विमर्शेनेति चिन्तितम् / अहो ! काऽपि महामोहशक्तिविश्वप्रमाथिनी // 774 // अहो ! सर्वंकषं वीर्य रागकेसरिभूपतेः / अहो ! प्रतापो विषयाभिलाषस्य प्रसृत्वरः / / 775 // अहो ! कामस्य वामत्वमहो ! रतिविजृम्मितम् / अहो! हासभटोल्लासो विभ्रमः कोऽप्यहो ! दृढः // 776 // अहो ! अदीर्घदर्शित्वमहो! विक्षिप्तचित्तता ! अहो। तृष्णानिमग्नत्वमहो ! श्रोतोऽनुगामिता // 777 // ततः प्रकर्षोऽभिदधे पश्यंस्तत्तेन चेष्टितम् / भद्र ! तेऽमी जना बाह्या ये मोहादिवशाः स्मृताः // 778 // प्रकर्षः प्राह चेष्टन्ते कस्यैवं धामतो जनाः / विमर्शः प्राह यो दृष्टो महाविष्टरसंस्थितः // 779 // तृष्णाख्यायां वेदिकायां भूपतिर्मकरध्वजः / तस्य प्रियवयस्योऽयं वसन्तः शिशिरात्यये // 780 // गतस्तदन्तिके कालपरिणत्येकसेवकः / आज्ञारहस्यं तस्मै च स्वामिन्यास्तेन भाषितम् // 781 // गन्तव्यं भवचक्रे मे मानवावासपत्तने / वियोगभीरुस्तदहं दर्शनाय तवागतः // 782 // मकरध्वजभूपोऽथ प्राह किं न स्मरस्यदः ! / वर्षेऽतीते मया तत्र सहैव विलसिष्यसि // 783 // गन्तुं दत्ते पुरे तत्र स्वामिन्याज्ञां यदा तव / महामोहनृपो दत्ते ममाऽप्याज्ञां तदा ध्रुवम् // 784 // वियोगभीर्न तत्कार्या गन्तव्यं भवताऽधुना / अहमप्यनुगच्छामि त्वामादेशान्महीपतेः // 785 //