________________ महोपाध्यायश्रीयशोविजयमणिविरचिता [ चतुर्थः समः हसन्निवोद्यत्कुसुमाट्टहासैः पठन् शुकानामिव जल्पितेन / रज्यन्निवाशोकलताविलासैनमन्निवालोलतरूत्तमाङ्गैः / / 748 // वपुर्भृतां शापमिव प्रयच्छन् प्रवृद्धताम्राक्षकुहूरवेण / विलोलचूतद्रुममञ्जरीभिराकारयन् 'विश्वमिवोत्करानः / / 749 // रुदन्निव प्रत्युतसिन्दुवारपुष्पालिदम्भाद्गलिताश्रुधारम् / क्रन्दन्निवच्छन्ननिकुञ्जगुञ्जत्कपोतहुङ्कारपरंपराभिः / / 750 // रजोऽभिवर्षन्निव विप्रकीर्णामोदैः प्रियालदममञ्जरीणाम् / प्रदर्शयन् वह्निमिव ज्वलन्तं समुल्लसत्किंशुककैतवेन // 751 // धावन्निवोन्मत्तमृगवजाणामुत्प्लुत्य यातैर्ललनान्वितानां / दिवाऽभिवल्गन्निव माधवीनां परागहस्तैर्विततैरुदस्तैः // 752 / / बद्धाञ्जलिः कोरकितैर्दुमौधैर्लताप्रतिक्षिप्तमिलिन्ददृष्टिः / उदीतनव्याङ्कुरकण्टकश्रीर्मूच्छी गतः पञ्चममूर्च्छनाभिः // 753 // तैस्तैर्विलासैरनवग्रहोऽपि नवग्रहावेशविकारदर्शी / अपत्रपः सद्दलरक्षकोऽपि कृतोदयोऽप्युत्कलिकालसत्तः // 754 // // अष्टभिः कुलकम् // ततो विमर्शो न्यवदत् प्रकर्ष काले तवेच्छा भवचक्रदृष्टेः / अस्याऽधुना सुन्दरता हि गुर्वी पीयूषरश्मेरिव पूर्णिमायाम् // 755 // धावन्ति लोका बकुलद्रुमेषु धृति प्रयान्ति स्मितमाधवीषु / लुभ्यन्ति पश्याऽरुणपल्लवेषु तृप्यन्ति नोच्चैः सहकारवृक्षे // 756 / / लताः सुभुक्ता मधुपैरतुच्छगुच्छश्रियः पाटलपल्लवाग्राः / . इमाः स्वतुल्याः कुलटाः श्रयन्ति लसत्कराः पीनकुचाभिरामाः // 757 // समुद्यतानां कुसुमोच्चयाय स्त्रीणां कुचस्पर्शमवाप्य मत्ताः / स्वेदं सुमौर्धर्मरुता च कम्पं किं सात्त्विकं न स्फुटयन्ति वृक्षाः // 758|| पश्यैष चित्तेषु वियोगिनीनां द्विजोऽग्निहोत्राय पिकः प्रवृत्तः / पाठः श्रुतेरस्य निशम्यतेऽसौ नादो नु साक्षीकृतकामदेवः // 759 // उच्चस्थितं लातुमपारयन्तीं प्रियां प्रियोऽत्र स्तनभारनम्राम् / दत्ते लतापुष्पमुदितमोहो मुहुर्मुहुश्चुम्बननिष्क्रयेण // 760 // लतानिकुञ्जषु लसन्ति यूनां बन्धैर्विचित्रैरिह मैथुनानि / / तैरेव पुष्पैः स्मरमल्लयुद्धावलोकनानन्दिभिरचितानि // 761 // 1. विश्वमिवालीभिः / / 747 //