________________ श्लो० 697-747 ] वैराग्यरतिः। आबिभर्ति विततां हिमकन्यां शीतभीत इव यच्छिशिरोऽपि / तत्प्रचाररचना कथमुच्चैरुच्यतां बत तदन्यजनेषु // 721 // उष्मणः कुचतटी पदमेकं विद्यते हिमहतस्य वधूनाम् / भोगिनस्त्वरयति स्मरविद्धास्तद्रहस्यविदतः खलु तत्र // 722 // वैतालेन हिमेन पङ्कजवनं लोलूयते सर्वतः / पान्थः शीतनिपीडितः प्रियतमाध्यानेन दोदूयते / हृद्देशार्पितजानुदुर्गतकुलं रात्रौ च रोरूयते, संश्लिष्टाङ्गनिलीनवक्त्रकुहरः कोकूयते जम्बुकः // 723 // वर्त्तते लचितप्रायः साम्प्रतं शिशिरो ह्ययम् / ततः षड्मासशेषेऽपि किमुत्ताम्यति मातुलः // 724 // ततस्तदाग्रहं ज्ञात्वा विमों गन्तुमुद्यतः / गच्छतस्तत्पुरं शीघ्रं तुष्टौ स्वस्रीय-मातुलौ // 725 // गच्छन्नाह प्रकर्षोऽथ मार्गश्रान्तिनिवृत्तये / मातुल ! श्रूयते लोके यः कर्मपरिणामराट् // 726 // चक्रवर्ती प्रतापोग्रस्तदाज्ञां मोहभूपतिः / किमेष कुरुते किं वा नेत्यस्ति मम संशयः // 727 // विमर्शः प्राह नैवाऽस्ति भद्रं ! भेदो मिथोऽनयोः / स हि ज्येष्ठः कनिष्ठोऽयं भ्राताऽटव्यां स्थितः पुनः // 728 // चरटोऽयं महामोहो भूपा येऽस्य पदातयः / ते तस्याऽपि हि विज्ञेयाः समचित्तानुयायिनः // 729 / / कार्याण्यसुन्दराण्येव महामोहः करोति हि / प्रकृत्याऽन्यश्च निर्माति सुन्दराणीतराणि च // 730 // विजिगीषुरयं भूपः स राजा नाटकप्रियः / सेवन्तेऽमुं महामोहमतो धीरा रणे नृपाः // 731 // स कर्मपरिणामाख्यो भ्राताऽस्याऽपि महत्तमः / कुर्वन्त्यतस्तदग्रेऽपि नाटकं ते प्रसत्तये // 732 // महामोहादिकैः सर्वैर्भूपालैर्भवनाटके / तैस्तत्र हेतुतां प्राप्तैः सपत्नीकः स तुष्यति // 733 // आ(अ)न्तरङ्गेषु सर्वेषु निर्वृत्तिं नगरीं विना / नगरेषु स हि स्वामी बहिरङ्गेषु भावतः // 734 // महामोहस्त्वयं स्वामी दृष्टानां भूभुजां त्वया / तदादेशेन यत्किञ्चिद्धनमर्जयति स्वयम् // 735 // निःशेषं नतमौलिस्तत् तस्याऽर्पयति भक्तिमान् / स सुन्दरेतरार्थेषु कुरुते तन्नियोजनम् // 736 // अयं हि विग्रहारूढः स तु भोगपरो नृपः / भटभुक्त्या पुरा दृष्टं दत्तमस्य पुरद्वयम् // 737 // अतः पुरद्वये तत्र सैन्यमस्त्यस्य भक्तिमत् / चित्तवृत्तिमहाटव्यामपि विग्रहतत्परम् // 738 // प्रकर्षः प्राह किं राज्यं क्रमाभ्यागतमेतयोः / किं वाऽन्यदीयमेवेतं गृहीतं बलवत्तया ? // 739 // प्रकर्षः(विर्मशः)प्राह वत्सेदं न क्रमागतमेतयोः / परकीयमिदं राज्यं प्रसह्याभ्यां वशीकृतम् // 740 // सकर्मकस्य जीवस्य संसारीत्यभिधाभृतः / स्वीकृताऽऽभ्यां स्ववीर्येण चित्तवृत्तिमहाटवी // 741 / / प्रकर्षः प्राह तद्राज्यग्रहे कालः कियानभूत् ? / विमर्शः प्राह नैवादिं जाने नान्येऽपि जानते // 742 // परमार्थस्त्वयं वत्स ! कथ्यते तव साम्प्रतम् / स कर्मपरिणामाख्यो गरिष्ठो विष्टराधिपः // 743 // अयं पुनर्महामोहस्तस्यादेशविधायकः / तन्नियुक्तभटासेव्यस्तत्कोशस्य च वृद्धिकृत् // 744 / / ईदृशानल्पसजल्पकल्पनेनाल्पितश्रमौ / तावतीत्य दिनैर्मागं भवचक्रपुरं गतौ // 745 // इतश्च शिशिरोऽतीतो वनकौमारसन्निभः / तत्तारुण्यमिवोन्मादी जजम्भे मधुरुद्धतः // 746 / / लताकरैर्नृत्यमिव प्रकुर्वन् कृतान्तकाष्ठागतवातधूतैः / मृष्टः स ताभ्यामथ काननेषु मत्तालिरावैरिव चारु गायन् // 717 //