________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [चतुर्थः सर्गः जलशौचमनिन्धं हि कचिद् देवादिपूजने / कस्यचिद् भक्तिहेतुत्वान्मोहस्तत्राग्रहः परम् // 697 // आद्रियन्ते हि ते भावशौचं भावस्तवोद्यताः / मन्यन्ते द्रव्यपूजाङ्गं द्रव्यशौचं तु गेहिनाम् // 698 // तेषां नार्तिकरौ ज्ञान-दर्शनावरणौ नृपौ / सर्वज्ञसमयाभ्यासवासनालुप्तपाप्मनाम् // 699 // सर्वथैव निरीहाणां धीराणां धर्मदायिनाम् / वक्रीकत्तुं न रोमापि तेषां विघ्ननृपः क्षमः // 700 // तेषां भूपाः शुभाय स्युश्चत्वारः सप्तमध्यगाः / समुद्रा इव मेघानामन्येषां भीतिदा अपि // 701 // दुःखोत्पत्तिः कुतस्तेषां निर्द्वन्द्वसुखशालिनाम् / अतिस्तोकाः परं तेऽत्र तेनेदं गीयते जने // 702 // "शैले शैले न माणिक्यं मौक्तिकं न गजे गजे / साधवो न हि सर्वत्र चन्दनं न वने वने" // 703 / / प्रकर्षः प्राह तिष्ठन्ति देहिनो मातुल ! क ते ? / विमर्शः प्राह तैर्भाव्यं भवचक्राभिधे पुरे / / 704 // अवान्तरपुरैनैकैः पाटकैश्च तदन्वितम् / असंख्या जातयस्तत्र तत् तेषामपि सम्भवः // 705 // . प्रकर्षः प्राह किं बाह्यमान्तरं वा तदिष्यते ? / विमर्शः प्राह तज्जात्यन्तरमेकाविवेचनात् // 706 // बहिरङ्गा जनास्तत्र सन्ति संख्यातिगा यथा / अन्तरङ्गास्तथैतेऽपि सर्वे सन्ति महाभटाः // 707 // .. सन्तोषः श्रूयते तत्र यतोऽमीषां महारिपुः / नगरं तदतोऽमीभिरनुविद्धं जिगीषुभिः // 708 // स्थितिरत्र सतां तेषां कथं तत्रेति संशयः / योगशक्त्या समाधानादनुस्थानहतोऽस्तु ते // 709 // तस्मादुभयरूपं तन्नगरं प्रतिपद्यताम् / सन्ध्येव दिनरात्रिभ्यामशक्त्या भेत्तुमुच्चकैः / / 710 // प्रकर्षः प्राह यद्येयं द्रष्टव्यं तत्पुरं तदा / गच्छावस्तत्र नगरे कौतुकं महदत्र मे // 711 // विमर्शः प्राह विषयाभिलाषस्यैव दर्शनात् / अस्माकमीहितं सिद्धं रसनामूलनिश्चयात् // 712 // राजशासननिर्वाहात् तद् गन्तुं स्वाश्रयेऽधुना / युक्तं नोऽन्यत्र गमनं भाति नातिप्रयोजनम् // 713 // प्रकर्षः प्राह शिष्टानां दर्शनादधिकं दृशोः / जन्मनो न फलं मन्ये तत्र गन्तव्यमेव तत् / / 714 // न ते मातुल ! योग्योऽहमेतदर्शनवश्चने / चकोराणां सुधापानं न कारयति किं विधुः ? // 715 // संवत्सरावधिदत्तो नाधुनाऽयेति चावयोः / ऋतुद्वयमतिक्रान्तं शिशिरस्तत्र जृम्भते // 716 // तथाहि स्फूर्जत्प्रियङ्गुलतिकाकलितं प्रफुल्लत् कुन्दद्रुमं वनमिदं नभसो बिभर्ति / शोभां दिनात्ययविवृद्धनिशाविलासविस्तारिचारुरुचितारकमण्डलस्य // 717|| शिशिरममलपुष्पैर्मण्डनैः क्लृप्तशोभास्वदयितमभिसतुं विस्फुरत्पत्रवल्लिः / स्फुटतिलकविलासा रोधराजीविकासात् , स्मितमिव तनुतेऽसौ हर्षपूर्णा वनश्रीः // 718 // मधुपैनितान्तपरिभुक्ततया विगलत्तनुर्वहति कण्टकिनी / निपतत्तुषारकणकैतवतः सुरतश्रमाम्भ इव पङ्कजिनी // 719 // विमुदिता श्रीर्मधुपप्रसङ्गात् सरोरुहाणां द्विजनायकेन / तत्प्रत्यवायप्रलयाय तानि हिमोच्चये किं शिशिरे म्रियन्ते / / / 720 // .