________________ ग्लो० 649-696 ] वैराग्यरतिः। यदाऽहं नायकान् प्रेक्षे कीर्त्यमानेषु राजसु / परिवारं न पश्यामि तदा भानीव वासरे // 666 // परिवारं यदा प्रेक्षे न तदा नायकानहम् / वितताक्षोऽपि पश्यामि यामिन्यामिव भास्करम् // 667 // परिवारयुता प्रोक्ता नायका भवता पुनः / दृष्टष्टार्थविसंवादस्तदयं बाधते मनः // 668 // विमर्शः प्राह किं चित्रं स्वभावावगताविह / नैकदोभयवेत्ता यत् स्वभावादेव कश्चन // 669 // सामान्यरूपा राजानस्तद्विशेषाः परिच्छदाः / क्रमिकज्ञानवेद्यत्वं प्रकृतिश्च मता तयोः // 670 // देश-काल-स्वभावैश्च भेदोऽप्येषां न विद्यते / धवाद्या न तरोभिन्ना धवादिभ्यस्तरुश्च न // 671 // केवलं यौगपद्येन न दृष्टौ तावितीयता / नादृष्टावेव तावेकोपयोगेन क्रमेक्षणात् // 672 // तरुरेवेक्ष्यते दूराल्लक्ष्यन्ते न धवादयः / सन्निधौ तेऽपि दृश्यन्ते दृश्यते न तरुः पृथक् // 673 // तथापि तद् द्वयं दृष्टं कालभेदेन कीर्त्यते / एकोपयोगदृष्टत्वाद् घटरूपादिवद् बुधैः // 674 // स्वभावाद्यैरभेदेऽपि न सामान्य-विशेषयोः / संख्यादिभिः कृतो भेदव्यवहारोऽपि च दुष्यति // 675 / / संख्ययैकस्तरुर्जात्या भूयांसः खदिरादयः / संज्ञाऽपि तरुरित्येका भेदिन्यश्च धवादिकाः // 676 // अनुवृत्तिस्तरोस्तेषु लक्षणं वीक्ष्यते पृथक् / धवाऽश्वत्थादिभेदानां व्यावृत्तिश्च परस्परम् / / 677|| कार्यं च तरुमात्रस्य छायाधं पृथगेव हि / विशिष्टफलपुष्पाद्यमाम्रादेरन्यदेव च // 678 // व्यवहारोऽपि सामान्ये श्रुतस्कन्धेऽन्य एव हि / अन्य एव च दृष्टस्तद्भेदेष्वध्ययनादिषु // 679 // "तस्माद् भेदं पुरस्कृत्य मया प्रोक्ताः पृथक् पृथक् / राजानः परिवाराश्च न भिन्नास्तत्त्वतस्तु ते // 680 / / अंशांशिनोः पृथग् वृत्तिर्भिन्नाऽभिन्ने च वस्तुनि / अवग्रहादेर्जिज्ञासावशाद् वा विस्मयोऽत्र कः ? // 681 // प्रकर्षः प्राह नष्टेयं शङ्का मे मातुलाऽधुना / एतज्जैत्राः परं सन्ति नेति वा संशयोऽस्ति मे // 682 // विमर्शोऽथाऽब्रवीदेतद्वीर्यनिर्मूलनोद्यताः / सन्त्येव बहिरङ्गेषु देशेषु विरलाः परम् // 683 // धृतात्मध्यानकवचा येऽप्रमादपराः सदा / गुप्ताः समाधिमन्त्रेण मोहादीनां वशा न ते // 684 // दुःखो दुःखानुबन्धोऽयं दुस्तरो भववारिधिः / राधावेधोपमे लोके मानुष्यमतिदुर्लभम् // 685 / / तरङ्गतरला लक्ष्मीरायुर्वायुवदस्थिरम् / भोगाः स्वप्नार्थवच्छून्या वपुर्भङ्गुरमभ्रवत् // 686 // मृत्युश्छायेव पृष्ठस्थो जरा शिरसि तिष्ठति / तत्कोऽयं साध्वसस्थाने देहिनां सुखसंभ्रमः // 687 / / सृष्टिवैकल्पिकी ह्येषा दृष्टनष्टेन्द्रजालवत् / स्वर्णघीरिह मृत्स्नायां मिथ्याज्ञानहतात्मनाम् // 688 // विकल्पचषकैरात्मा पीतमोहासवो ह्ययम् / भवोच्चतालमुत्तालप्रपञ्चमधितिष्ठति // 689 // साक्षीभूय स्थितस्यैव पश्यतो भवनाटकम् / स्वभावसुखसंवित्तिः कर्तृभावे तु सङ्गरः // 690 // परभावास्ततस्त्याज्या ग्राह्याः स्वाभाविका गुणाः / स्वभावसुखमग्नस्य संसारः किं करिष्यति ? // 691 // इत्याद्यनेकसद्भावभावनाभावितात्मसु / न मोहः सपरीवारः क्षोभायादिष्विवानिलः // 692 // कुचाभ्यामङ्गना येषां फलिताः स्मितपुष्पिताः / विषवल्लय इवाभान्ति तेषां कामः क बाधकः ? // 693 / / शरीरं यैर्विनिर्णीतमशुच्यशुचिसम्भवम् / न जुगुप्सा न वा शौचाग्रहस्तेषां महात्मनाम् // 694 // तदेव शौचं तैतिं यद् भूतानुपघातकम् / नान्तरं हि मलं वारि क्षालयत्युच्यते यतः // 695 // "चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्धयति / शतशोऽपि हि तद्धौतं सुराभाण्डमिवाशुचि" // 696 //