________________ ग्लो० 619-648) वैराग्यरतिः। उन्मत्तरूपा अपि केचिदन्तःशङ्कापिशाचीनिहता भवन्ति / अस्या महामुद्गरपातनर्ममर्मप्रहारस्य विजृम्भितं तत् // 634 // आरक्तकृष्णानि च यानि डिम्भरूपाण्यहो पश्यसि षोडश त्वम् / सामान्यतस्ते गदिताः कषाया विशिष्य भेदं कथयामि तेषाम् // 635 // चत्वारि रौद्राणि यदत्र बाढं संयोजनाख्यानि वदन्ति तानि / भक्तानि मिथ्यात्वमहत्तमस्य तेनाऽऽमबुद्धया परिपालितानि // 636 // मिथ्यात्वमोहस्य चतुर्भिरेभिः पातालकुम्भैरिव वारिराशेः / क्षुब्धैः प्रवृद्धिर्भवतीह वेलामिषाज्जगद्धन्तुमुदस्तहस्ताः // 637 // चत्वारि रूपाणि लघूनि चैभ्यः सर्वात्मनैव व्रतधातकानि / नाम्नाऽव्रतान्येव वदन्ति तद्ज्ञाः(तज्ज्ञाः)प्रसर्पदातुर्यगुणस्थितीनि // 638 // लघूनि तेभ्योऽपि पुरः स्फुरन्ति धीमन् ! विरल्यावरणानि विद्धि / * वल्गत्सु तेषु क्षमते न कोऽपि किञ्चिद्वतस्थोऽपि महाव्रताय // 639 // लधूनि तेभ्योऽपि च चञ्चलानि जगुर्बुधाः संज्वलनाभिधानि / कुर्वन्ति यानि प्रसभं व्रतेषु म्लानि मुनिरप्यतिचारलेशात् // 640 // द्वेषद्विपेन्द्रस्य किलाष्ट रागसिंहस्य जातानि तथाष्ट चैषु / पौत्राणि मोहक्षितिपस्य गर्वाद् वितन्वते दुर्ललितं न कुत्र // 641 // कुटुम्बकं वर्णितमङ्गभूतमिदं महामोहनरेश्वरस्य / ये वेदिकाभ्यर्णगताः क्षितीशाः पदातयस्तेऽस्य निजाङ्गभूताः // 642 // इह रागकेसरिनृपस्य पुरो हरिदश्ववत्कमलयुक्तकरः / प्रसरत्प्रतापभवनं भुवनं परितापयन् श्रयति यः सुषमाम् // 643 // तमवेहि मोहितसमस्तनरं विषयाभिलाषसचिवप्रवरम् / वयमागता इह यदीयमुखप्रविलोकनाय पवनाभजवाः // 644 // किमु मानुषाणि ननु तानि पुरा कलितानि नास्य समतां दधते ? / इति तानि हेतुगुणतो जगतां प्रभवन्ति किं न हितघातविधौ ? // 645 / / रसनानिदानमयमेव ततः परिनिश्चितोऽस्य हि धिया निहतः / परिचेष्टते विशदधर्मपथाद् बहिरिस्वरेषु विषयेषु जडः // 646 // परचित्तभित् पटुरुपायविधौ निजनीतिमार्गविततोरुमतिः / अयमेव वर्धयति राज्यरमामिह रागकेसरिनृपस्य पराम् // 647 // पार्श्वेऽस्य भार्याऽस्ति च भोगतृष्णा कृष्णाहिवद्वक्रगतिः प्रतीता / दष्टोऽनया नैव जनः कदाचिदम्भोऽपि पातुं श्रयते विलम्बम् // 648 //