________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [चतुर्थः सर्गः तुष्यन्ति मोहान्मृगलोचनाभिर्नेत्रत्रिभागैरिह वीक्ष्यमाणाः / हृष्यन्ति तद्वाक्यरसैर्विचित्रैर्दन्तानहेतोः परिपीडयन्ति // 619 // कुर्वन्ति तासां बहुचाटुकर्म पादप्रहारान् बहुशः सहन्ते / श्लेष्माश्रितं तन्मुखदत्तमद्यगण्डूषमास्वाद्य सुखं लभन्ते / / 620 // प्रियावियोगादुपयान्ति तापं रटन्ति खिद्यन्ति वशाऽवधूताः / परेषु रक्तामुपलभ्य नारी मज्जन्ति दुःखाम्बुनिधावपारे // 621 // वशीकृताः स्वीयबलेन रल्या विडम्बना कामिह नाप्नुवन्ति / प्रेत्यापि संसारसमुद्रमध्ये परिभ्रमन्तः स्मरदेवदासाः // 622 // पृष्ठेऽस्य यन्मानुषपञ्चकं च हासाभिधोऽत्र प्रथमो मनुष्यः / / अयं भृशं रोदयतीह लोकं विश्वासघाती विनियोज्य हास्ये // 623 // उल्लासयत्येनमृतेऽपि हेतोः प्रसह्य भार्याऽस्य च तुच्छताख्या / अतुच्छचित्तो महतोऽपि हेतोः सोल्लासमास्यं तनुते न हास्यम् // 624 // शङ्कापदं याति जनोऽत्र हास्याद् भूतोपघाती वितनोति वैरम् / विगोपकत्वप्रथया स्वकीत्तौ दत्ते मषीहस्तकमस्तबुद्धिः // 625 // या च द्वितीया घनकृष्णवर्णा बीभत्सरूपा परिदृश्यते स्त्री। कुतोऽपि हेतोर्विहिताधिवृद्धिमिमां प्रगल्भामरतिं प्रतीहि // 626 // अयं भयाख्यः पुरुषस्तृतीयो यतो नरैः सप्तभिरात्मरूपैः / करोति सर्व जनमैहिकादिभयेन बाढं परिवेपमानम् // 627 // अयं स्वभार्यां खलु हीनसत्त्वतां कदापि रागी हृदयान्न मुञ्चति / . इमां(इमान् हि दारांस्त्यजतोऽस्य जीवितं न कर्दमस्याप इवावतिष्ठते // 628 // चतुर्थमेनं स्मरसीह शोकं निवेदकं यं प्रकृतप्रवृत्तेः / / तस्मिन् पुरे द्रक्ष्यसि सोऽयमत्र समागतस्तूर्णमनीकमध्ये // 629 // अस्याऽऽज्ञया शोचति नीयमानं स्वकर्मणाऽन्तं स्वजनं मनुष्यः / न नेष्यमाणं त्वनुशोचति स्वं हिताऽहितोपायविवेकशून्यः // 630 // . अस्याऽपि भार्याऽस्ति विवर्धमानाऽशुभाशया विह्वलताभिधाना / प्राप्नोति सौख्यं विरहय्य नैनां दोषाकरो यामवतीमिवाऽयम् // 631 // इयं मृगाक्षी ननु पञ्चमी च नीचाकृतिः कुञ्चितनाशिकाग्रा / श्यामा जुगुप्सा गदिता प्रणीतव्यलीकभावा जगतीजनानाम् // 632 // छायामपीच्छन्ति जडाः परेषां शौचप्रियाः स्प्रष्टुंमतिस्मयाद्यत् / स्पष्टेऽप्यहो वर्त्मनि चेलमात्रे क्रुद्धाः पुनर्यच्च जले पतन्ति // 633 // 1. 'च्छन्ति न यत् परेषा // 2. ट्रमतीव मूढाः / स //