________________ ग्लो० 590-618] वैराग्यरतिः। युद्धक्रुद्धस्य नास्य ध्वनितविलसितं के समाकर्ण्य भीताः, कल्पान्तभ्रान्तवातक्षुभितघनघटागर्जितारम्भजैत्रम् / लीयन्ते कन्दरायां ननु धरणिभृतां यान्ति कान्तारदेशान् , गाहन्ते मध्यमब्धेरपि च कृतमहायानपात्रावताराः // 605 / / लग्नः प्रत्यर्थिनारीविपुलकुचतटीकुङ्कुमश्रीहृतेः किं, स्फुर्जत्यस्य प्रतापे ज्वलदनलनिभे शोभते शोणभावः / तन्नेत्रोरुप्रणालाविरलपरिगलद्वारिभिः क्षालितोऽपि, क्षीणो यत्नैष 'चित्रं तदिदमतिततं कस्य मन्नं न चित्ते ! // 606 / / या त्वस्य भार्या प्रथिताऽविवेकिता तस्याः प्रवृत्तिः परिकीर्तितैव ते / शोकेन पृष्टेन तमःपुरस्थितिं तत्साऽस्य पार्श्वे न निरीक्ष्यतेऽधुना // 607 / / यो विष्टरेऽस्यैव नृपस्य पृष्ठे तुङ्गे निविष्टो घनशोणवर्णः / तूणीरयुक् पञ्चशरः सचापस्त्रिभिर्नरैश्च प्रियया च युक्तः // 608 // जगत्प्रसिद्धो मकरध्वजोऽसौ जगत्त्रयी धैर्यभुजङ्गतार्यः / विनिर्जितोऽनेन पितामहोऽपि गौरीविवाहेऽकृत बालचेष्टाम् // 609 // समाः सहस्रं च स एव दिव्यं रतेऽधृतोऽनेन विसर्पितृष्णः / / अन्येऽपि दैत्यर्षिसुराः समना अनेन नूनं न वशीकृताः के ! // 610 // जनार्दनोऽस्य प्रबलप्रतापासहिष्णुरेवाम्बुनिधावुवास / महेश्वरी मूर्ध्नि बभार गङ्गां प्रजापतिः पद्ममशिश्रयच्च // 611 // विवेकचन्द्रं परिभ्य सर्वथा कुहूचकारायमिहाखिलांस्तिथीन् / अतोऽस्य मत्तो विपिनेषु कोकिलो मुहुः कुहूं गायति कीर्तिगायनः // 612 // . असौ नृशंसः कुसुमैः शरैरपि क्षिणोति धैर्य बत वज्रिणामपि / न शस्त्रजातिनियता धनुष्मतां ततः स्ववीर्यानुगता मता बुधैः // 613 // नृसिंहमानी कुसुमाहतो मया द्विधाऽपमानान्निहतो भविष्यति / इतीव पुष्पेषुरभूदसौ प्रभुर्विनाऽपि शस्त्रं त्रिजगज्जये स्वयम् // 614 // अस्यात्मभूतं पुरुषत्रयं यत् पुंवेदनामा प्रथमोऽयमस्मिन् / कुर्वन्त्यनेनैव विलुप्तधैर्या मन्दाः पुमांसः किल पारदार्यम् // 615 // स्त्रीवेदनामा कथितो द्वितीयो विश्वोदरच्छेदनिबद्धकक्षः / अस्यैव धाम्ना वनिता विलज्जा रागं परे पुंसि भृशं वहन्ते // 616 // प्रोक्तस्तृतीयस्त्विह षण्ढक्दो विगुप्यते येन नपुंसकौघः / नरत्रयस्यास्य बलेन कामो जगजये श्राम्यति नातिवामः // 617 // पार्श्वे च यास्याऽस्ति विशालनेत्रा रतिं जमुस्तां विरतिप्रतिष्ठाः / अस्याः प्रभावात् प्रथते जनानां दुःखात्मभोगेषु सुखाभिमानः // 618 // 1. चित्रं विततमिह मनः कस्य नाकामतीदम् // 606 // 2. ऽनेन महेश्वरोऽपि //