________________ महोपाध्यायधीयशोविजयगणिविरचिता [ चतुर्थः सर्गः "मार्गलोपमतनाम" विशालं साध्वसाधुसमतोल्लसदोष्ठम् / योगसङ्ग्रहविपर्ययदन्तैर्दीप्तिमन्मुखममुष्य विभाति // 590 // अस्य दृग्युगमहंत्वममत्वे नासिका च नियतिस्थितिनिष्ठा / सम्मदाय जगतामपि जीवा-जीवसंशयमयश्रुतियुग्मम् // 591 // भालमस्य भजते "भवनन्दि"र्भाग्यसूचनकलापटुधाम / क्लेशकेशकलितोऽपि च मौलिर्दुर्विगाहगहनः परिणामः // 592 // दीपयत्यतुलराज्यविलासं गुर्वनादरकिरीटममुष्य / कर्णयोरपि च कुण्डलयुग्मं निर्भयत्वनिरनुग्रहनाम // 593 // समुचितरचनाविभक्तशक्तित्रयमुपधाय जयाय बद्धयत्नः / अयमतिशयमाबिभर्ति दृप्तस्त्रिभुवनमाकलयंस्तृणार्धतुल्यम् // 594 // संक्लिष्टपुण्यप्रभवेषु शक्तिं भोगेषु सक्लेशनिबन्धनेषु / संक्लिष्टरूपेषु च मानवानां ददात्यसौ हन्त कृतप्रसादः // 595 // एतस्य पार्श्वे पुरुषत्रयं च स्निग्धारुणाभं परिवीक्षसे यत् / त्रयोऽपि तेऽस्यैव मता वयस्याः स्वतुल्यवीर्याः प्रथितप्रभावाः // 596 // एतेष्वतत्त्वाभिनिवेशनामा नाम्ना द्वितीयेन च दृष्टिरागः / आद्यः पुमान् स्वस्वमतेषु पुंसां कदाग्रहं हन्त तनोत्यभेद्यम् // 597 // स्नेहापराख्यो भवपातनामा बलाद्वितीयः पुरुषो द्वितीयः / मूर्छातिरेकं वितनोति पुंसां द्रव्यात्मजन्मस्वजनत्रजेषु // 598 // . उद्दामधामा किल कामरागाभिष्वङ्गनामा पुरुषस्तृतीयः / उत्पादयन् मज्जयतीन्द्रियार्थे लौल्यं प्रियास्वद्भुतविभ्रमासु // 599 // आक्रान्तमेव त्रिभिरेभिरुग्रैर्गङ्गाप्रवाहैरिव विश्वमेतत् / / सुखं ततस्तिष्ठति रागसिंहः सन्मार्गमत्तद्विपकुम्भभेदी // 600 // अस्यैव तुङ्गमधितिष्ठति विष्टरं या सा मूढतेति विदिता दयिताऽस्य हृया / धत्ते प्रभां मणिरिवायमिमां निजाङ्गे स्वीयप्रचारपरिमुद्रितबाह्यभावाम् // 601 // अन्योऽन्यभेदविरहादनयोर्वपुभ्यां नोच्चैर्गुणा अपि मिथो दधते विभेदम् / ज्वालानलाविव जगज्जनदाहकार्ये तो द्वावपीह विधिना मिलितौ नियुक्तौ // 602 // अस्यैव यश्च परितिष्ठति वामपार्श्वे द्वेषद्विपेन्द्रमिममाहुरनन्तवीर्यम् / विश्रान्तमेव हृदयं स्वगुणैर्गृहीतमत्रापि मोहनृपतेः प्रविभज्य रज्यत् / / 603 // प्रौढो द्वेषद्विपेन्द्रो लघुरपि बलतो जन्मना रागसिंहात् , स्नेहाणामपि द्राग् निखिलतनुभृतां चित्तविश्लेषकारी / उत्साहं नो लभन्ते भ्रमति मदभृते चित्तवृत्तावटव्यामेतस्मिन् स्थातुमुच्चैः शुभनयकलभा भीतिकृद्दृष्टिपाते॥६०४॥