________________ श्लो० 458-515 ] वैराग्यरतिः। नद्यादिवस्तुभेदार्थ प्रोक्ता ते तदियं कथा / पृथुभावमिह ज्ञात्वा तत्र संयोजयोचितम् // 487 // यस्ते वेल्लहलः प्रोक्तः स हि जीवः सकर्मकः / अनादिसंस्थितिसुतः सञ्जातो भवनोदरे / / 488 // मनुष्यभावमापन्नः कथ्यतेऽसौ नृपाङ्गजः / चित्तवृत्तौ विवर्त्तन्ते महामोहादयो भटाः // 489 // अज्ञानमात्मनो यावद् मिथ्यासृष्टौ प्रवर्तते / महानद्यादिवस्तूनि तावत् तस्यां भवन्ति हि // 490 // आत्मज्ञाने तु नश्यन्ति मोहाद्या रज्जुसर्पवत् / महानद्यादितल्लीलास्थाननाशस्तदा ध्रुवः // 491 // तत्त्वे ह्येवं स्थिते भद्रे ! महामोहेऽटवीस्थिते / महानद्यांदिवीर्येण यज्जातं योज्यतेऽत्र यत् // 492 // यदाहारातिलाम्पटयं राजसूनोर्निवेदितम् / जीवस्य विषयेच्छा सा धर्ममार्गपराङ्मुखी // 493 // तस्य जातं यथाऽजीर्णं भूरिभक्षणतस्ततः / जीवस्याऽपि महाभोगात् पापाज्ञानात्मकर्मणाम् // 494 // अन्तर्लीनज्वरस्थाने दोषा रागादयो मताः / तथास्थस्याऽपि भोज्येच्छा भोगेच्छाऽजीर्णकर्मणः // 495 // कर्माजीणं च रागादिकोपं(?प)चित्तज्वरावहम् / जनो हिताशया जानन हितार्थे प्रवर्त्तते // 496 // मद्यं निद्रां च विकथाः कषायान् विषयानपि / ततोऽसौ सेवते सेयं नदी पूर्णा प्रमत्तता // 497 // धनान्युपार्जयाम्युच्चैः करोम्यन्तःपुरं वरम् / कारयामि महावासान् भुञ्जे वैषयिकं सुखम् // 498 // तिष्ठामि सततानन्दो नान्यद् मानुष्यके फलम् / ईदृग्विकल्पकल्लोला जायन्ते ये क्षणे क्षणे // 499 // सेयमुद्यानिकाकाला ततो यो द्रव्यसञ्चय / अन्तःपुरादिलाभश्च भवेद् दैववशेन यः // 50 // कारणं तत् सुभोज्यानां तल्लवानां च भक्षणम् / ततो विलाससङ्गीतद्यतदलितप्रियः // 501 // याति दुःशीलतोद्याने यन्मार्गनगराद् बहिः / एतदुद्यानगमनं ज्ञेयं वेल्लहलस्य वै // 502 // स तत्र विपुले मिथ्याभिनिवेशासने स्थितः / पश्यन् प्रमादभोज्यानि कर्मानीतानि सर्वतः // 503 / / लब्धास्वादो विशेषेण सुन्दरत्वेनं मन्यते / प्रेमत्ततामहानद्याः पुलिनं तन्मनोहरम् / / 504 // वायुस्पर्शादिना वृद्धस्ततो योऽजीर्णजो ज्वरः / वृद्धः प्रमादतः सोऽयं कर्माजीगारतिज्वरः // 505 // समयज्ञेन तद्वृद्धि ज्ञात्वा यद् वारणं कृतम् / धर्माचार्याः प्रकुर्वन्ति तद् भव्यहितकाम्यया // 506 // मानुष्यमतिदुष्प्रापं प्राप्य राज्यमिवोत्तमम् / कार्षीः प्रमादं माऽद्यापि कर्माजीर्णज्वरातुरः // 507 // त्यजैनं विषयाहारं व्रजाऽपवरके धृतौ / तिष्ठाविकल्पनिर्वाते कथिताम्बु तपः पिब / / 508 // लवनानि कुरु स्वान्तज्वरशान्त्यै व्रतादरान् / कुरु दर्शन-चारित्र-ज्ञानरूपां प्रतिक्रियाम् // 509 // करिष्यस्यथ नैवं चेद् दशां शोच्यां प्रयास्यसि / सन्निपाते महामोहे मग्नो भ्रष्टमतिस्तदा // 510 // पिशाचकीव तद्वाक्यं जीवो यन्नैव मन्यते / चेष्टते विपरीतं च महापापपरायणः // 511 // सोऽयं महानदीकूले चित्तविक्षेपमण्डपः / शोचते विषयान् लौल्याजराजीर्णोऽक्षमोऽपि यत् // 512 // भुङ्क्ते प्रमादभोज्यानि वार्यमाणोऽपि पण्डितैः / अगच्छतोऽपि कण्ठे तद् गमनं नृपजन्मनः // 513 // अर्थस्य बहुयत्नेन रक्षितस्यापि वार्धके / बलेन हरणं वान्ति लज्वलनतस्करैः // 514 // जीवः कलमलाक्रान्तो वमन्नारटति स्फुटम् / भातीयं वेदिका तृष्णा चित्तविक्षेपमण्डपे // 515 // 1. तत् प्रमादविलासाख्यं नद्याः पुलिनमुच्यते // 504 //