________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ चतुर्थः सर्गः अत्रोपविष्टं प्रबलप्रतापमेनं महामोहनृपं प्रतीहि / अमुष्य जीर्णा जरसाऽप्यविद्या वीर्यैकपात्रं ननु गात्रयष्टिः // 409 // जगत्यनित्याशुचिदुःखरूपे नित्यत्वपूतत्वसुखप्रतीतिः / अस्याः प्रभाम्भितमात्मभावबुद्धिः प्रपञ्चेषु च पुद्गलानाम् // 410 // स्वतेजसैतदृढगात्रयष्टिर्न मुच्यतेऽसौ जरसाऽपि जीर्णः / अनाविलस्वर्णशिलाविलासः परिज्वलन् मेरुरिवौषधीभिः // 411 // उत्पत्तिहेतुर्जगतोऽप्ययं यत् पितामहत्वं प्रथितं तदस्य / न लङ्घयन्त्येव निदेशमस्य नागेन्द्र-विद्याधर-चन्द्र-रुद्राः // 412 // असौ जगच्चक्रपरिभ्रमैकव्यापारविस्फारितवीर्यदण्डः / कुलालवत् कानि न चित्रकार्यभाण्डानि लीलाकलितस्तनोति ? // 413 // समुद्रकाश्चीमपि दण्डवद् यः प्रोल्लालयत्यात्मकरे निधाय / न सोऽपि कोपारुणयाऽस्य दृष्टया पतन्तमात्मानमलं विधर्तुम् // 414 // अधिज्यधन्वा यदि बाणमेकं प्रहर्तुमुज्झत्ययमिद्धकोपः / त्राणं तदा वज्रभृतोऽप्यसूनां न पनराद् वज्रमयादपि स्यात् // 415 / / बिभर्ति कुत्रापि महाबलस्य न कश्चिदस्य प्रतिमल्लभावम् / चिक्षेप सम्भावितमेष शत्रुमसम्मितावर्तविवर्त्तगर्ते // 416 // एवं महामोहनृपो वर्णितः पुरतस्तव / अधुना वर्णयाम्यस्य परिवारं शृणु स्फुटम् // 417 // परं वदन्तमित्थं मां निश्चलाक्षो निरीक्षसे / बोधचिहं स्फुटं फिश्चिन्न धत्से किं न बुध्यसे ? // 418 // प्रकर्षः प्राह मा वादीरित्थं मातुल ! मां प्रति / तन्नास्ति यत्प्रसादात् ते न बुद्धयेऽहं परिस्फुटम् // 419 // जगौ विमर्शो जानामि स्फुटं त्वं बुध्यसेऽखिलम् / हासस्त्वयं विनोदार्थ तव भद्र ! मया कृतः // 420 // जानताऽपि त्वया किं च मम हर्षप्रवृद्धये / विचारपूर्वकः कार्यः प्रश्नः प्रस्तुतवस्तुनि // 421 // श्रुतमात्रेण जिज्ञासा पूरणीया च न त्वया / ऐदम्पर्यन्तु बोद्धव्यं मा भूद् भौतकथाऽन्यथा // 422 // प्रकर्षः प्राह सा भौतकथा कथय कीदृशी ? / हृयभोज्ये प्रबन्धेऽस्मिन् मध्ये तं शाकमर्पय // 423 // विर्मशः प्राह तां भद्र ! समाकर्णय साम्प्रतम् / बधिरोऽस्ति कचिद् भौताचार्यों नाम्ना सदाशिवः // 424 // केनचिज्जरसा जीर्णः प्रोक्तोऽसौ हस्तसंज्ञया / धूर्तेन हासशीलेन नोपेक्यो व्याधिरेष ते // 425 // यन्नीतिः"विषं गोष्ठी दरिद्रस्य जन्तोः पापरतिर्विषम् / विष परे रता भार्या विर्ष व्याधिरुपेक्षितः" // 426 // आग्रहोऽयं महाँस्तस्याऽमिनिविष्टो मनस्यथ / ततः शान्तिशिवं प्राह निजशिष्यमसौ स्फुटम् // 427 / गच्छ त्वं वैद्यभवने मद्व्याधिय॑स्य भेषजम् / गृहीत्वा तूर्णमागच्छ मा भूद् वृद्धिविलम्बतः // 428 // गतोऽसो वैद्यभवने गुर्वा कवशंवदः / दृष्टो वैद्यः स च तदा स्वपुत्रं शिक्षयन् स्थितः // 429 //