________________ प्रलो० 1-50] वैराग्यरतिः। अद्राक्षमस्मिन्नतुलप्रतापमुत्पत्तिभूमि बहुदूषणानाम् / निबद्धवैः सह बोधराज्ञा पत्येव राहुग्रहमौषधीनाम् // 25 // क्लिष्टाशयं नाम नृपं प्रमादप्रपञ्चसंसूत्रणसूत्रधारम् / सद्भूतवादद्विपपश्चवक्त्रं विघ्नं च वेतालमिवेष्टसिद्धेः // 26 // ___ प्रिया मया तस्य च तुच्छताख्या दृष्टा निकृष्टाशयवर्गसेव्या / प्रवर्तिका निन्द्यतरक्रियाणां तमोमयी कालनिशेव साक्षात् // 27 // तयोर्मुषावाद इति प्रसिद्धः सद्बोधशैले दृढवज्रपातः। स्नेहद्रुमोच्छेदकुठारकल्पः सङ्कल्पवल्लीवनवारिवाहः // 28 // सुतः समस्ताङ्गिहितोपलोपी कुतश्चिदप्यक्षतबाहुवीर्यः। अनायि नेत्राऽतिथितां कुमार्गोपदेशदक्षः कृतमोहपक्षः॥२९॥ मया महामोहविमोहितेन न लक्षितं किञ्चन तत्स्वरूपम् / दृष्ट्वा मृषावादमहं स्वबन्धुधिया परं स्वीकृतवांस्तदैव // 30 // स्वस्थानमानीय मया शरीरादभिन्नरूपोऽभिमतः स बन्धुः / सर्वत्र कार्येऽधिकृतश्च गूढं स्थितं न नौ किञ्चन रागभाजोः // 31 // असच्च सद्भूतमसत् सदेव कृतं मयाऽध्यक्षमपि प्रसह्य / तस्य प्रसादान्न ममापराधगन्धोऽपि लग्नो निहितः परेषु // 32 // जातस्ततोऽहतशैलराज-महामृषावाददृढप्रसङ्गः / भयङ्करोऽम्भोधिरिव प्रनृत्यत्तिमिङ्गिलो भीमभुजङ्गराजः // 33 // शैलराज-मृषावादसङ्गाद् दोषा भवन्ति ये / पुण्योदयप्रभावेन प्रलीयन्ते च तेऽखिलाः // 34 // स्वप्नेऽपि न मया ज्ञातमेतत् तस्य विजम्भितम् / शैलराज-मृषावादौ परं ज्ञातौ गुणावही // 35 // कलाग्रहणकालेऽथ तातेन ज्ञापितं मम विद्यार्थिना प्रणम्योऽयं विनयेन गुरुस्त्वया // 36 // मयोक्तं किं विजानीते नूनमेष ममाऽग्रतः / तवाऽनुरोधाद् गृह्णामि कलाः कुर्वे नतिं तु न // 37 // ततस्तातो मयि स्नेहात् कलाचार्य रहो जगौ / नोद्वेगोऽस्य विधातव्योऽविनयं प्रेक्ष्य मानिनः // 38 // तद्वचोऽसौ प्रतिश्रुत्य दध्यौ बाल्यविजृम्भितम् / मानोऽस्य शास्त्रबोधे तु स्वयं नम्रो भविष्यति // 39 // ततोऽसौ सर्वयत्नेन प्रवृत्तो मम पाठने / पठन्ति तत्र चान्येऽपि विनीता राजदारकाः // 40 // शैलराजः प्रवृध्यः स्यादादरेणाऽपि मे गुरोः / ततो जात्यादिनाऽऽचार्य हीलयामि प्रतिक्षणम् // 41 // दध्यौ तदा कलाचार्यों नास्य शास्त्रश्रमाद् गुणः / अम्लस्य भोजनं क्षीणतनोः श्वयथुवर्धनम् // 42 // ज्ञानदानमपात्रस्य कन्यादानमिवाहितम् / त्यक्तस्तेनेत्यहंभावाद् बहिद्वेषो न दर्शितः // 43 // राजडिम्भा अपि प्रेक्ष्य मां मृषावादमानिनम् / विरक्ताः केवलं पुण्यान्न पराभवितुं क्षमाः // 44 // बहिर्गतेऽन्यदाऽऽचार्ये वेत्रासनमधिष्ठितम् / हीणा नोचितमित्यूचुदृष्ट्वा मां राजदारकाः // 45 // गुर्वासने निविष्टानां मालिन्यं स्यात् कलङ्कतः / वर्धते चाऽयशःपापे क्षरणं चायुषो भवेत् // 46 // मयोक्तं शिक्षणार्थोऽहं बालिशाः ! किं भवादृशाम् ? / यात स्वकुलशिक्षायै तेऽपि तूष्णीं स्थितास्ततः // 47 // कलाचार्याय तत् प्रोक्तं चरित्रं राजदारकैः / क्रुद्धेन तेन पृष्टोऽहं सासूयं भाषितं मया // 48 // अहोऽविमृश्यभाषित्वमहो ! ते शास्त्रकौशलम् / असत्यवादिभिर्वृषे मामेवं यत् प्रतारितः // 49 // ततो महामतिर्दध्यौ न मृषा राजदारकाः / ब्रुवतेऽयं परं पापस्तद् दृष्ट्वा शिक्षयाम्यहम् // 50 // 1. पत्येव सिंहीसुतमौ //