________________ श्लो० 695-734] वैराग्यरतिः। त्रिदुःखौ त्र्यर्णवायुष्कौ द्वितीये पाटके ततः / भ्रान्तोऽहमेवमन्याऽन्यान्तरस्थानेष्वनन्तशः // 725 / / संसारिजन्ताविति भाषमाणे प्रज्ञाविशाला विदधे विचारम् / अहो ! दुरन्तौ विषमौ च हिंसा-वैश्वानरौ यत् फलमेतदस्य // 726 // अहह ! कुमतिरादावेव वैश्वानरोग्रस्तदनु विहितहिंसोद्वाहसञ्जातदर्पः / नर इह नरिनर्ति व्यक्तकापेयलीलः, कपिरिव कपिकच्छूवल्लिसंश्लिष्टगात्रः // 727 / / उग्रौ मूर्छा-ज्वरौ वा सममथ मिलितौ शाकिनी-भूतदोषौ,हालाहालाहले वा ग्रहविषमदशादुर्निमित्तागमौ वा / कण्ठोष्ठाशोषितृष्णातपतपनकरव्यापतापोद्भवौ वा, हिंसा-वैश्वानरौ द्वौ जगति तनुभृतां द्विघ्नदोषावही स्तः // 728 // हिंसा-वैश्वानराभ्यां निबिडजडधियः कुर्वते सङ्गतिं ये, पीनप्रौढप्रभावौ हृदयगतदया-शान्तभावौ विहाय / हास्यास्ते कस्य न स्युर्जगति सुरगवी-कामकुम्भौ त्यजन्तस्तन्मूल्येनानयन्तः सपदि निजगृहे रासभी-भश्मपात्रे // 729 स वह्निरन्यो गलितंप्रतापः स्थले प्रविध्यायति पिच्छले यः / अयं तु वैश्वानरनामधेयः स्निग्धेऽपि रूक्षेऽपि समप्रवृत्तिः // 730 // हहा ! न वैश्वानर-हिंसयोर्गतिं विदन्त्यपि स्वानुभवाधिरोपिताम् / इमेऽपि यास्यन्ति दशां तमोमयीं जडो यथाऽयं ननु नन्दिवर्धनः // 731 // भवजन्तुरथ प्राह नीतः श्वेतपुरे ततः / कृतश्चाभीररूपोऽहं भवितव्यतया तया // 732 // तद्रूपस्य सतो गतो मम शमं वैश्वानरः किञ्चन, छन्ना निघृणता मतिः प्रववृते दाने न यादृच्छिकी / नाभ्यस्तं तु विशिष्टशीलमधिको धर्मश्च नासेवितो, जातो मध्यगुणस्तदा भवसरित्सङ्घघृष्टो दृषत् // 733 // मामालोक्य तथाविधं मयि मनाग् जातेश्वरानुग्रहे, साता भवितव्यता शुचिफलासन्नप्रसन्नाशया / ऊचे साम्प्रतमार्यपुत्र ! सुयशःश्रीसिद्धिशर्माशया, त्वं सिद्धार्थपुरे व्रज प्रकटितः पुण्योदयस्ते सखा // 734 // // इति वैराग्यरतो तृतीयः सर्गः // - 1. वाश्रितां जनाः / इमे //