________________ 50 महोपाध्यायश्रीयशोविजयगणिविरचिता [ तृतीयः सर्गः निषेद्धं स्वजना लग्नास्तद्घातायोद्यतं च माम् / तान् सर्वानपि निम्नश्च गतोऽहं कियती भुवम् / / 579 // .. गृहीतो भूरिभिर्लोकैः पातयित्वा श्रमे ततः / प्रोदामो वन्यहस्तीवोद्दालितश्च करादसिः / / 580 // बद्ध्वा क्षिप्तोऽपवरके कपाटपुटसङ्कटे / मस्तकं स्फोटयंस्तत्र स्थितः क्षामो बुभुक्षया // 581 // / दन्दह्यमानस्तापेन निद्रामप्राप्नुवन् निशि / मासमात्रं स्थितः कालं नारकोपमवेदनः / / 582 / / निद्रा समागता काचिदर्धरात्रे ममाऽन्यदा / मूषकैबन्धनं छिन्नं जातोऽहं मुत्कलस्तदा // 583 // सुप्तं राजकुलं दृष्टं निर्गतेन बहिर्मया / वैरीदं सर्वमेवेति हिंसा-वैश्वानरेरितः / / 584 / / अग्निकुण्डाद् गृहित्वाऽग्निं ततः प्रक्षिप्य सर्वतः / कथञ्चिद् दह्यमानोऽपि भयकम्प्रः पलायितः // 585 // पतितोऽथ महारण्ये विद्धः कीलक-कण्टकैः / पतितोऽधोमुखो निम्नप्रदेशे चूर्णिताङ्गकः // 586 // चौरैस्तत्रागतैर्दष्टस्तैरुक्तं गृह्यतामयम् | महाकायादितो लाभः परकूले भविष्यति // 587 // . तदाकर्ण्य ममोद्भूतो लीनो वैश्वानरो हृदि / विरूपं मां ततो ज्ञात्वा बबन्धुस्तस्करा द्रुतम् // 588 // पल्लीमथोपकनकपुर भीमनिकेतनाम् / नीतश्च रणधीराय तत्पतेश्च प्रदर्शितः // 589 / / बभाषे सोऽथ विक्रेतुमेनं पोषयताऽधुना / ततो नीतोऽस्मि चौरेण स्वधामैकेन दुष्टधीः // 590 // गालीस्तेन ददानोऽथ हतो दण्डादिभिर्भृशम् / दापितं तुच्छमशनं व्यतीयुः केऽपि वासराः // 591 // पृष्टोऽसौ रणधीरेण स पुमान् कीदृशोऽजनि / स जगौ न श्रयत्योजस्तत्रैव निहितस्ततः / / 592 // कनकाख्यपुराद् दण्डश्चौरेषूपस्थितोऽन्यदा / नष्टाश्चौरा हता पल्ली बन्यो नीता सहस्रशः // 593 / / गतोऽहमपि तन्मध्ये बन्यो राज्ञेऽथ दर्शिताः / विभाकराय मां प्रेक्ष्य स तत्र हृदि विस्मितः // 594 // दग्धस्थाणुसमोऽप्येष दृश्यते नन्दिवर्धनः / आकृत्याऽत्र कुतो वाऽसौ ? विचित्रा वा विधेर्गतिः // 595 / / इत्थं चिरं विमृश्याऽसौ प्रत्यभिज्ञाय मां स्फुटम् / सिंहासनात् समुत्थाय हर्षेण परिषस्वजे बा५९६॥ तदा किमेतदित्युच्चैर्विस्मितं राजमण्डलम् / पप्रच्छोदन्तमखिलं निवेश्याऽर्धासने स माम् // 597 / / मयाऽपि चरिते स्वीये प्रोक्ते प्राह विभाकरः / त्वया नानुष्ठितं सुष्टु हा ! कष्टं कर्म निघृणम् / / 598 // पश्य पुष्पममुष्यैव क्लेशमत्रैव जन्मनि / अमुत्र लप्स्यते चास्य फलं नरकवेदनाम् // 599 // हिंसा-वैश्वानरालर्कविकारो मेऽजनि स्फुटः / तदाऽसौ वैरिवद् बुद्धः स्फुरितं तज्जिघांसया // 600 // हतो न देहदौर्बल्यात् कृतं तु श्याममाननम् / तेन मद्भाववह्निं च धूमेनानुमियाय सः // 601 // ततोऽहं रक्षितस्तेन छन्नो माध्यस्थ्यभस्मना / अन्तः प्रज्वलितुं लग्नो हन्म्येनमिति सर्वदा // 602 // मम नोपशमायासन् स्नान-मानादिसत्क्रियाः / तत्कृता वारिधेरापो वडवाग्नेरिवाऽखिलाः // 603 // स्थितेष्वास्थानशालायामस्मासु मतिशेखरः / एकदा प्राह स ययौ दिवं देवः प्रभाकरः // 604 // परं दुःखं ततः प्राप्तः साश्रुनेत्रो विभाकरः / अथ मां प्राह सौहार्दाद् भुव राज्यमिदं पितुः // 605 // वैश्वानरविकारेण स्थितोऽहं मौनवांस्तदा / स्नेहादेकत्र शय्यायां निशि सुप्तो मयाऽथ सः // 606 // विश्रब्धोऽप्यतिदुष्टेन मयोत्थाय निपातितः / पलायितोऽहं त्वरया परिधानद्वितीयकः // 607 // क्लेशात् प्राप्तः कुशावर्त विश्रान्तः कानने बहिः / ज्ञात्वा कनकचूडश्चाऽऽगतः कनकशेखरः // 608 //