________________ प्रलो० 424-483 ) वैराग्यरतिः। तनये मम वर्तते जीवितादपि वल्लभे / ज्येष्ठभ्रात्रेऽस्य दत्तैव तत्रेयं मणिमञ्जरी // 454 // दीयतामधुना चेयमस्मै कनकमञ्जरी। चारुमन्त्रितमित्याह स्फुटं कनकशेखरः / / 455 / / सिद्धान्तितमिदं श्रुत्वा ततश्चाहमिहागता / सुललिष्यावहे साधू भगिन्याविति मे मुदः // 456 // तदा मलयमञ्जर्या प्रोक्तं पश्य कपिञ्जले ! / स्फुटं निमित्तसंवादं मयोक्तं वागियं सुरी // 457 / / धैर्यमापादिता किञ्चित् ततः कनकमञ्जरी / पतिभक्तकथालापै रजनी चातिवाहिता // 458 // अस्याः स्मरकृतस्तापो न चाद्याऽप्युपशाम्यति / कुमारदर्शनं शक्यो विना शामयितुं च न // 459 // अतो विज्ञपयामि त्वां कुमारस्याऽतिवल्लभम् / त्रायस्व तां कुमारस्य दर्शनेन प्रसेदुषः // 460 // मयोक्तं ननु यद्येवं तदा विज्ञपयाम्यहम् / स्थातव्यं भवतीभ्यां तद् रति-मन्मथकानने // 461 // वदतस्तेतलेरित्थं हारो वक्षसि रोपितः / महता परितोषेण प्रतिपत्तिः कृतोचिता // 462 // . तेतलिप्रेरितस्तूर्णं ततोऽहं तद्वनं गतः / भ्रमताऽपि न दृष्टा च नानास्थानेषु तत्र सा // 463 // अत्रान्तरे लताकु) श्रुतः सन्नू पुरध्वनिः / गहनं तेतले: पार्शदपसृत्य तदीक्षितम् // 464 // प्रतीतमेतद् युष्माकं शृण्वन्तु वनदेवता / अत्र तेतलिना तस्याऽऽनयनं प्रत्यपद्यत // 465 // प्रतार्य तेतलिर्यातो न चासो दृश्यते जनः / अन्वेषयामि तमिति गता धूर्ता कपिञ्जला // 466 // तदलं जीवितव्येन प्रसादाद् वः स एव तु / भर्ता जन्मान्तरे भूयादित्युक्त्वा तत्र दुःखिता // 467 // तमालतरुशाखायां बवा पाशे शिरोधराम् / मोक्तुं शरीरमुधुक्ता दृष्टा कनकमञ्जरी // 468 // प्राप्तस्तदाऽतिवेगोऽहं मा साहसमिति ब्रुवन् / धृता सा पाशकं छित्त्वा शीतैराश्वासिताऽनिलैः / / 469 // उक्तं च देवि ! किमिदमारब्धमसमञ्जसम् ? / विषादो युज्यते नेयान् स्वाधीने मयि किङ्करे // 470 // मद्दर्शनेन जाताऽसावनेकरसनिर्भरा / विलिखन्ती भुवं तस्थौ विलसद्दशनद्युतिः // 471 // क्रीतः सद्भावमूल्येन दासोऽहं तव वल्लभे ! / कठोरो नास्म्यहं वेधाः कठोरस्तु विलम्बकृत् // 472 / / इदं मम वचः श्रुत्वा सुधासिक्तेव साऽभवत् / इतश्च तेतलिं प्राप्ता पर्यटन्ती कपिञ्जला // 473 // साऽब्रवीत् क कुमारोऽस्ति तेनोक्तं गहने पुरः / आवयोमिथुनं ताभ्यां चलिताभ्यामवेक्षितम् // 474 // जातस्तयोर्महान् हर्षो योग्ययोगनिरीक्षणात् / यौगन्धरस्तदाऽऽयातः कन्याऽन्तःपुरकञ्चुकी // 475|| तेनोक्तमाह्वयत्येनां पिता कनकमञ्जरीम् / अपट्वङ्गी श्रुता रात्रावित्यस्याः सुखमिच्छति // 476 // प्रस्थिता साऽथ कनकमञ्जरी सकपिञ्जला / पुनः पुनः स्मरन्नेतामहं स्वभवनं गतः // 477 // अपराह्ने समायाता जगौ कदलिका दिनम् / विवाहदिनमथैव गोधूल्यां तव शुद्धयति // 478 // देवः समादिशत्येतत् श्रुत्वेदं मुदितस्तमाम् / विवाहयज्ञो महता विमर्दैन ततः कृतः // 479 // युतः कनकमञ्जर्या हर्थे सुरगृहोपमे / सुखमन्वभवं कामरससर्वस्वपारगः // 480 // कृतो वगप्ररोहे ग प्रगुणोऽथ विभाकरः / जातस्तेन सह स्नेहो मम विस्रम्भनिर्भरः // 481 / / स्वस्थाने प्रहितः सोऽथ बहुमानपुरस्सरम् / राज्ञा कनकचूडेन स्वपरिच्छदसंयुतः / / 482 // येऽप्यम्बरीषनामानो वीरसेने हते सति / दासत्वं प्रतिपन्ना मे मया तेऽपि विसर्जिताः // 483 / /