________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [कृतीयः सर्गः युतः कनकमञ्जर्या रत्नवत्या च सर्वदा / प्राप्तोऽहं सुषमां गङ्गा-गौरीभ्यामिव शङ्करः // 484 // हिंसा-वैश्वानरौ मत्वा परं सर्वार्थकारिगौ। पापxिव्यसनाजातो जन्तुसन्तानघातकः // 485 // तदा मां तादृशं प्रेक्ष्य दध्यौ कनकशेखरः / अहो ! किमिदमेतस्य चरित्रमसमञ्जसम् ? // 486 // . . महारथः कुलीनोऽपि विद्यावान् रूपवानपि / हिंसा-वैश्वानराश्लिष्टो न श्लाघ्यो नन्दिवर्धनः / / 487 / / उपेक्षितुं च युक्तोऽयं नैव मे हितकारिणः / वर्तेत यदि मद्राक्ये स्यादस्य हितमुत्तमम् / / 488 // त्यजेदेकस्य दाक्षिण्यं न तातसहितस्य मे / इति तातान्तिके स्थित्वा शिक्षयाम्येनमञ्जसा // 489 / / अथ भूपं गृहीतार्थ चक्रे कनकशेखरः / अन्यदा मां समीपस्थं प्रशशंस महीपतिः // 490 // तदा प्रोवाच कनकशेखरस्तात ! वर्ण्यते / यादृशस्ताहगेवास्ति स्वभावान्नन्दिवर्धनः // 49 // परमस्य कुसंसर्गाद् गुणोघो याति दुष्ट नाम् / परमान्नं सुधास्वादं गरलस्येव सङ्क्रमात् ||492 // हेतुः स्वान्योपतापस्य निखिलानर्थजन्मभूः / सुहृद्वैश्वानरो ह्यस्य प्राणेभ्योऽप्यस्ति वल्लभः / / 493 // श्रूयमाणाऽपि नाम्नैव जगतस्त्रासकारिणी / हिंसा नाम्नी च भार्याऽस्य विद्यतेऽवद्यमन्दिरम् // 494 // इति दुःसङ्गयुक्तस्य गुणवत्तापि निष्फला / पुष्यवत्तेव नो याति श्लध्यतामवकेशिनः // 495 // नृपतिः प्राह यद्येवं श्रेयांस्त्यागस्ततस्तयोः / स्वीयोऽपि मलवत् त्याज्यः स्वमालिन्यकरो हि यः // 496 // . अनेन वचसा बाढं हुताशेनेव सर्पिपा / मया प्रज्वलितेनाग्रे तयोर्धगधगायितम् // 497 // उक्तं च रे दुरात्मानौ ! युवा मत्तोऽपि पण्डितौ ? / येनैवं मातृमुखवद् मां शिक्षयितुमुद्यतौ / / 498 // . मया ययोः प्रभावेन युष्मद्राग्यं सुरक्षितम् / हिंसा-वैश्वानरावेतौ युवयोहर्नि निन्दतोः // 499 // तौ स्मितास्यावुभौ जातौ वाचमाकर्ण्य मामिकाम् / ज्ञात्वाऽनादरवन्तौ तावाकृष्टा क्षुरिका मया // 50 // उक्तं च भवतां गेहेनर्दिनौ द्रामुदायुधौ / दर्शयाम्येष भवतोय वैश्वानरस्य वै // 501 // , ' उत्क्षितक्षुरिकं दृष्ट्वा मां नष्टमथ राजकम् / चलितो न परं धीरौ भूभृत्कनकशेखरौ // 502 // . .. पुण्योदस्य सान्निध्यात् तयोस्तीत्रप्रतापयोः / अदत्त्वैव प्रहारं दागास्थानादहमुत्थितः // 503 // गतः स्ववेश्मावमतस्ताभ्यामपि ततः परम् / परस्परं च विच्छिन्नो व्यवहारोऽपि लौकिकः // 504 // दूतोऽथ दारुको नाम समायातो जयस्थलात् / अन्यदा प्रत्यभिज्ञातो मयेदं निजगाद सः // 505 // कुमार ! जगदाधार ! प्रहितोऽस्मि महत्तमैः / मयोक्तं कुशली तातस्तातेन प्रहितो न किम् ? // 506 / / तेनोक्तं कुशली देवो वङ्गराट यवनः परम् / स्थितोऽस्ति नगरं रुद्ध्वा तेनाभूदाकुलो नृपः // 507 / / आकार्यतामिदानी द्राक् कुमारो नन्दिवर्धनः / यथा स्यान्नगरत्राणमित्यमात्यैर्विचारितम् / / 508 // तदा मतिधनेनोक्तं देवाय ज्ञाप्यतामिदम् / जगौ बुद्धिविशालश्च न ज्ञाप्यं सुतरागिणे // 509 // चारुमन्त्रितमित्याह मन्त्री प्रज्ञाकरस्तदा / प्रच्छन्नस्तेन तैर्दूतः सम्भूय प्रहितोऽस्म्यहम् // 510 // तदाहं प्रस्थितस्तूर्णं हिंसा-वैश्वानरेरितः / सहैव मणिमञ्जर्याऽऽयाता कनकमञ्जरी // 511 // गतो जयस्थलाभ्यर्णमथाऽछिन्नप्रयाणकैः / क्रूरचित्तप्रभावेन साक्षाद् वैश्वानराकृतिः // 512 / / मद्रूप एव जातोऽसि तदा वैश्वानरो जगौ / तव सात्म्यं गतवैषा हिंसापीति न संशयः // 513 //