________________ 44 महोपाध्यायश्रीयशोविजयगणिविरचिता [तृतीयः सर्गः सर्वाङ्गाणि विलीयन्ते मनस्तापः प्रवर्धते / न रोचन्ते जनोल्लापाः शून्यायन्ते दिशोऽखिलाः // 424 // श्रुत्वेदं तेतलिः प्राह चक्षुर्दोषोऽत्र कारणम् / करिष्याम्यौषधं चास्य नरशार्दूल ! मा शुचः // 425 // ज्ञात्वा तमथ भावज्ञं मयोक्तं सुष्टु दृष्टवान् / भवान्निदानमधुना भेषजं वक्तुमर्हति // 426 // स प्राह लवणोत्तारः कार्यतां बध्यतां करे / औषधी जाप्यतां मन्त्रो यथा दोषो विनश्यति // 427 // यद्येवमपि दोषस्य विनाशो न भविष्यति / बाढं निर्भर्त्सयिष्यामि चक्षुर्दोषकरी तदा // 428 // ततः स्मित्वा मया प्रोक्तं कृतं हासेन तेतले ! / मदुःखविगमोपायं निश्चितं कथयाधुना // 429 // स प्राह परिहासोऽयं विहितः खेदशान्तये। ममार्धप्रहरो लग्नस्तवैवार्थं प्रकुर्वतः // 430 // आस्ते मलयमञ्जर्या मनोविस्रम्भभाजनम् / प्रगल्भा मत्परिचिता वृद्धवेश्या कपिछला // 431 // गृहे प्रविश्य शयनात् प्रागेवोत्तिष्ठतो मम / वयस्य ! रक्ष रक्षेति प्रकामं पूच्चकार सा // 432 // ससम्भ्रमं मया प्रोक्तं कुतो भीस्ते कपिञ्जले ! / सा प्राह मित्र ! कन्दर्पाद् दर्पाद् दलयतो जगत् // 433 // अश्रद्धाय वचस्तच्च मयोपहसितं तदा / कुङ्कमापिङ्गपलितचिताज्वालालिभासुरम् // 434 // . . . . भीष्मं शब्दायमानाऽस्थिपञ्जरोरुशिवारयैः। उल्लम्बितशबाकारललितस्तनमण्डलम् // 435 // महास्मशानतुल्यं ते वपुर्वीक्ष्य पलायते / नितान्तं कातरः कामः कुतस्तव ततो भयम् ! // 436 // सा जगौ मे त्वया भावो दुर्विदग्ध ! न लक्षितः / स्वामिन्यास्तनया मेऽस्ति कन्या कनकमञ्जरी // 437 // निर्दयं सा च कामेन वराकी पीड्यतेऽधुना। या भीस्तस्यास्ततः सैव मय्यारोप्य निवेदिता // 438 // मयोक्तं किंनिमित्तोऽसौ तस्याः स मदनज्वरः?। सा प्राह तस्या जातोऽसौ नन्दिवर्धनदर्शनात् // 439 // सुधामग्नेव दृष्टाऽसौ पश्यन्ती नन्दिवर्धनम् / तस्मिन् दृष्टिपथातीते विषमग्नेव दृश्यते // 440 // ज्ञात्वा मलयमञ्जर्या तामकस्माद् व्यथातुराम् / उपचाराः कृताः शीतास्तालवृन्तानिलादिभिः / / 441 // गतोऽस्तं तरणिस्तावदुदितः शर्वरीपतिः / प्रथिता पञ्चबाणास्त्ररजोराजीव चन्द्रिका // 442 // शायिता सा तदा हर्थे चन्द्रचन्दनशीतले / कृतायां मृदुशय्यायां प्रवालनलिनीदलैः // 443 // न च तस्या गतस्तापः प्रत्युताभ्युदयाद् विधोः / खादिराङ्गारसंसर्गादिव प्रावर्धताऽधिकम् // 444 // प्रवृद्धतापां तां दृष्ट्वा जगौ मलयमञ्जरी / दीर्घ निःश्वस्य पुत्र्या मे भविता किमतः परम् ? // 445 // राजमार्गे श्रुतः शब्दस्तदाऽकस्मात् समुत्थितः / वेला विलम्बते काचित् सिद्धमेव प्रयोजनम् // 446 / / बुद्धः स्वामिनि ! शब्दार्थो मयोक्तं हृष्टया तदा / स्पन्दते वामनेत्रं मे सिद्धमेव प्रयोजनम् // 447 // अत्रान्तरे च भगिनी ज्येष्ठाऽस्या मणिमञ्जरी / निषण्णा हhमारुह्य साऽस्मत्पाद्यं प्रमोदभाक् // 448 // मयोक्ता सा च वत्से ! त्वं कठोरा दृषदोऽप्यसि / दृश्यते सविषादासु यदस्मासु प्रमोदभाग् // 449 / / सा प्राह किं करोम्येष हर्षहेतुर्ममाचलः / एतद्विषादहस्तेन नैव गोपयितुं क्षमः // 450 // क एष ? इत्यभिहिते सा जगाववुना ह्ययम् / ताताभ्यणे गता तेन निजोत्सङ्गे निवेशिता // 451 // तदा च पितुरभ्यर्णे स्थितः कनकशेखरः / सुधामधुरया वाचा पिता तं प्रत्यभाषत // 452 // द्रुमः समरसेनश्च निहतो येन लीलया / अतिदुष्प्रतिकारोऽयं महात्मा नन्दिवर्धनः // 453 / /