________________ श्लो० 233-262] वैराग्यरतिः। स्थितोऽन्यदोद्दिश्य सुबुद्धिमाह नृपः पुरस्कृत्य मनीषिराजम् / मनीषिणो वृत्तमवाच्यमेव मध्योऽपि बुद्धेयष ममोपकारी // 248 // आश्वासितः संयमकातरोऽहं जिघृक्षता येन गृहस्थधर्मम् / मन्त्री बभाषे तव युक्तमेतत् समानशील-व्यसने हि सख्यम् // 249 // .. दध्यौ नृपोऽहं गणितो नु मध्यो मृषा स्मयोऽभूत् पुरुषोत्तमत्वे / मनीषिणं तादृगपेक्ष्य नास्मि करीव दंष्ट्रोग्रमपेक्ष्य सिंहम् // 25 // अथाऽऽह राजा ननु तादृशेऽपि चैत्ये कथं साऽजनि बालचेष्टा / स प्राह चित्रं पुरुषाद्यपेक्ष्य फले वनं तत् स्वविलासनाम // 251 / / विधास्यमानं विषयानुषङ्गं मनीषिणो मन्त्रिवरोऽथ मत्वा / जगाद राजानमुदारबुद्धिः स्नेहस्तवाऽयं न नरेन्द्र ! युक्तः // 252 // प्रशस्तरागोऽपि परार्थभङ्गप्रसङ्गतोऽनर्थकरः परं स्यात् / सच्छायवृक्षोऽपि कृशानुदग्धः करोति निःशेषवनस्य दाहम् // 253 / / नृपो बभाषेऽथ मयाऽपि दीक्षां जिघृक्षताऽयं विधृतः सहैव / अतः परं त्वद्वचसा विसृष्टः कर्त्तव्यमहं त्वधुनाऽभिधेयम् // 254 // ततः प्रशस्तं दिनमाकलम्य सप्तग्रहाङ्के वृषलग्नयोगे / स्थाभिरूढो महतोत्सवेन नृपेण नीतः स गुरोः समीपम् // 255 // रथादथोत्तीर्णममुं महीशः परीक्षते स्म क्षितिपौघयुक्तम् / विकारहेतावपि तस्य चेतो वेद स्म मृत्स्नापुटपाकशुद्धम् // 256 // भृशं दिदीपेऽस्य शरीरमन्तीतस्य सङ्गान्मनसस्तथोच्चैः / .... यथा पुरःस्थो ददृशे नृपौषः सूर्यप्रभाच्छादिततारकाभः // 257 // विलीनमोहोऽथ नृपस्तदीयगुणप्रकर्षे बहुमानभावात् / अभ्युत्थितः संयममाशु लातुं तथैव देवी च सुबुद्धिमन्त्री // 258 // तान् दीक्षयामास गुरुः सहर्षान् प्रसद्य सर्वानपि शास्त्रनीत्या / ददौ च तेषामनुशास्तिमुच्चैः संवेगवल्लीवनवारिधाराम् // 259 // न बालवृत्तं विदुषा विधेयं मनीषिवृत्तं परिशीलनीयम् / अनुष्ठितादेव मनीषिवाक्यात् स्युस्तादृशा मध्यमबुद्धयोऽपि // 26 // कार्यो न सङ्गः सह पापमित्रैस्तत्सङ्गतो मृत्युमवाप बालः / सदैव तत्यागपरो मनीषी धर्म च सौख्यं च यशश्च लेभे // 261 // गुणावहः सज्जनसङ्गमः स्यादनर्थहेतुः खलसङ्गमश्च / स्फुटं द्वयं तत् खलु मध्यबुद्धौ विमृश्य यच्चारु तदेव कार्यम् // 262 // .